Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
________________
तत्प्रसीद देवि, अलममुना मरणानुबन्धेन । शेपे ते पादपङ्कजस्पर्शेन । संदिश । प्रेषय माम् । यामि । आनयामि देवि, ते हृदयदयितम् ।।
इत्येवमुक्ते मया प्रीतिद्रवाया दृष्ट्या पिबन्तीव मां निरुध्यमानैरपि मकरकेतुशरजर्जरिता भित्त्वेव लज्जा लब्धान्तरैर्निष्पतद्भिरनुरागविभ्रमैराकुलीक्रियमाणा, प्रियवचनश्रवणप्रीत्या च स्वेदाश्लिष्टमुक्षिप्य रोमाञ्चजालकेन दधतीवोत्तरीयांशुकम्, प्रेङ्खत्कुण्डलमाणिक्यपत्रमकरकोटिलग्नं च शशिकिरणमयं मरणपाशमिव मकरकेतुना निहितं कण्ठे हारमुन्मोचयन्ती, प्रहर्षविह्वलान्तःकरणापि कन्यकाजनसहजा लज्जामिवालम्ब्य शनैः शनैरवदत् - 'जानामि ते गरियसी प्रीतिम् । केवलमकठोरशिरीपुष्पमृदुप्रकृतेः कुतः प्रागल्भ्यमेतावन्नारीजनस्य, विशेषतो बालभावभाजः कुमारीलोकस्य । साहसकारिण्यस्ता याः स्वयं संदिशन्ति, समुपसर्पन्ति वा स्वयम्, साहसं संदिशन्ति । बाला जिहेमि । किं वा संदिशामि । अतिप्रियो -
*********** स्वयंवरविधिरनर्थक एव निष्प्रयोजन एव । अतस्त्वं प्रसीद प्रसन्ना भव । हे देवि । अलमिति । अमुना मरणानुबन्धेनालं कृतम् । ते तव पादपङ्कजस्पर्शेन शपे शपथं कुर्वे । संदिशाज्ञापय । मां प्रेषय प्रेषणं कुरु । अहं यामि । ते हृदयदयितं देवं चन्द्रापीडमानयामि । त्वदन्तिक इति शेषः । ___ इत्येवं पूर्वोक्तप्रकारेण मयोक्ते कथिते सति सा कादम्बरी शनैरवदत् । अथ कादम्बरी विशेषयन्नाह - प्रीतीति । प्रीतिःस्नेहस्तस्य द्रवः पङ्कस्तेनायोन्नया दृष्ट्या मां पिबन्तीव पानं कुर्वन्तीव लज्जा त्रपां भित्त्वा भेदं कृत्वा निरुध्यमानैरपि संध्रियमाणैरपि लब्धान्तरैः प्राप्तावकाशैर्निष्पतद्भिर्बहिनिःसरद्भिरनुरागविभ्रमैरान्तरप्रीतिविलासैराकुलीक्रियमाणा व्याकुलतां नीयमाना । कीदृशी । मकरकेतुशरैः कंदर्पबाणैर्जर्जरिता । प्रियेति । प्रियं यद्वचनं तस्य श्रवणमाकर्णनं तस्माद्या प्रीतिस्तया यः स्वेदस्तेनाश्लिष्टम् । आईमित्यर्थः एवंविधमुत्तरीयांशुकमुपसंव्यानवस्त्रं रोमाञ्चजालकेन रोमोद्गमसमूहेनोत्क्षिप्योन्नतं कृत्वा दधती धारयन्ती । किंविशिष्टमुत्तरीयाँशुकम् । प्रेङ्खदिति । प्रेङ्खच्चञ्चद्यत्कुण्डलं कर्णभूषणं तस्य माणिक्यपत्रं तत्र या मकरकोटिस्तस्यां लग्नं विलग्नम् । पुनः किं कुर्वन्ती । कण्ठे गले हारं मुक्ताकलापमुन्मोचयन्ती । कीदृशं हारम् । शशिकिरणमयम् । अत्युज्ज्वलत्वाच्छशिप्रभाभिर्निष्पन्नमित्यर्थः । अत एव विरहमूर्छाजनकत्वान्मकरकेतुना निहितं स्थापितं मरणपाशमिव । प्रहर्षेति । प्रहर्षेण प्रमोदेन विह्वलमन्तःकरणं यस्याः सा । तथा कन्यकाजनस्य सहजा सहोत्पन्नां लज्जा त्रपामालम्ब्येवालम्बनीकृत्येव शनैःशनैर्मन्दं मन्दमवददवोचत् । ते तव मयि विषये गरीयसीं प्रीतिं स्नेहं जानामि । परं केवलमकठोरं सुकुमारं यच्छिरीषपुष्पं तद्वन्मृद्धी प्रकृतिर्यस्यैवंविधस्य नारीजनस्यैतावत्प्रागल्भ्यं कुतः स्यात् । तत्रापि बालभावभाजः कुमारीलोकस्य विशेषतस्तन्न स्यात् । कथं तर्हि रुक्मिण्यादेः श्रीकृष्णविषये रहः संदेशदूतप्रेषणादि वेत्यत आह - साहसेति । साहसकारिण्यो याः स्वयं संदिशन्ति सदेशं प्रेषयन्ति । स्वयं समुपसर्पन्ति समीपे गच्छन्ति । साहसं सत्त्ववृत्तिं संदिशन्ति कथयन्ति । मायाशक्तिवशाद्गृहीतशरीराः । तास्त्विति । दिव्या एवेत्यर्थः । अहं तु तथाविधा न भवामीत्यत आह - बाला इति । अहं बाला प्राप्तयौवना, अतो जिहेमि त्रपापन्ना भवामि । बालत्वात्किमपि न स्फुरतीत्याह - किं वेति पक्षान्तरे । किं संदिशामि किं कथयामि । प्रियसदेशविषयार्थस्य स्फुरणमेव प्रकटयति - अतीति । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प०-1 द्वितीयान्तमिदं लज्जाया विशेषणम् । अत एव 'कीदृशी लज्जाम् ? कामबाणैर्जर्जरिताम् । अत एवा सा लज्जा भेदने सुकरेत्यर्थः । 2 प्रेत्कुण्डलेति नांशुकस्य विशेषणम्, अपि तु हारस्य । 3 'समुपसर्पन्ति वा । अत्रैव वाक्यसमाप्तिः । स्वयं संदिशन्ति' इति पूर्वमुक्तत्वात् अत्र 'स्वयं साहसं संदिशन्ती' इति प्रथमान्तपाठः । साहसरूपं स्वयं संदिशन्ती (सदेशं प्रेषयन्ती) बलाऽहं जिहेमि, इति संगतिः ।
पाठा० - १ शपामि ते. २ जर्जरिता. ३ मरणाय पाशमिव. ४ एव. ५ अवलम्ब्य. ६ पक्ष्म. ७ संदिशन्ती; दिशन्ती.
(कादम्बरीवृत्तश्रवणम्
पूर्वभागः ।।
470
479)
Page Navigation
1 ... 490 491 492 493 494