Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 493
________________ ऽसीति पौनरुक्त्यम्, तवाहं प्रियात्मेति जडप्रश्नः, त्वयि गरीयाननुराग इति वेश्यालापः, त्वया विना न जीवामीत्यनुभवविरोधः, परिभवति मामनङ्ग इत्यात्मदोषोपालम्भः, मनोभवेनाहं भवते दत्तेत्युपसर्पणोपायः, बलाद्धृतोऽसि मयेति बन्धकीधाष्यम्, अवश्यमागन्तव्यमिति सौभाग्यगर्वः, स्वयमागच्छामीति स्त्रीचापलम्, अनन्यरक्तोऽयं परिजन इति स्वभक्तिनिवेदनलाघवम्, प्रत्याख्यानशङ्कया न संदिशामीत्येप्रबुद्धबोधनम्, अनपेक्षितानुजीवितदुःखदारुणास्यामित्यतिप्रणयिता, ज्ञास्यसि मरणेन प्रीतिमित्यसंभाव्यम्' इति । *********** सर्वजनस्य प्रियत्वेऽनुभवसिद्धे त्वमतिप्रियोऽसीत्यग्निरुष्ण इतिवत्पुनरुक्तता । तवेति । तवाहं प्रियात्मा । प्रियो वल्लभ आत्मा यस्येति बहुव्रीहिः । इत्यपि जडस्य प्रश्नः । स्वविषयकप्रियत्वख्यापनाज्जडत्वमित्यर्थः । तदुक्तम् - ‘स्वरूपं वा प्रियो वापि वृत्तं पौरुषमेव वा । प्रकाशयन्स्वयं यस्तु स वै जडतरः स्मृतः' इति । त्वयि भवति गरीयाननुराग इत्यपि न, स्वकीयानां नायिकानां व्यङ्ग्यरूपतयैवानुरागप्रकाशनम् । सामान्यवनितानां तु वाच्यवृत्त्येवाह - वेश्येति । वेश्या गणिका तस्या आलापः, न तु कुलवत्याः । त्वयेति । त्वया विना भवद्व्यतिरेकेणाहं न जीवामि न प्राणान्धारयामि । इत्यपि अनुभवविरोधात् । जीवन्नपि न जीवामीति स्पष्ट एव विरोधः । परीति । मामनङ्गः कंदर्पः परिभवति पीडयति । इत्यपि न । आत्मनः कामुकत्वप्रकाशनेन कुलवधूनामनुचितदोषोपालम्भात् । मनोभवेति । मनोभवेन कंदर्पणाहं भवते दत्ता समर्पिता । इत्यपि न । कामुकत्वप्रकाशनरूपतया कुलस्त्रीणामनुचितोपसर्पणोपायत्वात् । बलादिति । बलाद्धठान्मया त्वं धृतोऽसि । इत्यपि न । तस्य बन्धकी कुलटा तस्या धाटरूपत्वात् । अवश्येति । अवश्यं निश्चितमागन्तव्यम् । इत्यपि न । अस्य स्वसौभाग्यगर्वरूपत्वात् । स्वयमागच्छामि । इत्यपि न । स्त्रीचापलत्वात् । अनन्येति । अयं प्रत्यक्षोपलभ्यमानः परिजनः सेवकजनोऽनन्यरक्तस्त्वय्येवानुरक्तः । इत्यपि न । स्वयं स्वभक्तिनिवेदनस्य लाघवत्वात् । प्रत्याख्यानेति । प्रत्याख्यानं निराकरणं तस्य शङ्कयारेकया संदिशामि न संदेशप्रेक्षणं करोमि । इत्यपि न । इदं हि प्रसुप्तसिंहोत्थापनवदंप्रबुद्धबोधनम् । अज्ञातज्ञापनमित्यर्थः । अनेति । अनपेक्षितमसमीहितं त्वद्गमनानन्तरमनुजीवितं यस्मिन्नेतादृशं यहुःखं तेन दारुणा भीषणाहं स्याम् । इत्यपि न । इयं ह्यतिप्रणयितात्युत्कटस्नेहवत्ता । ज्ञास्यसीति । मरणेन मृत्युना त्वं प्रीतिं ज्ञास्यसि अग्रेऽवबोधो भविष्यति । इत्यपि न । इदं हि असंभाव्यम् । तद्व्यतिरेकेणापि प्रीतेर्जायमानत्वादिति ॥ इति श्रीमत्तपोगणगगनाङ्गणगगनमणिभट्टारकसार्वभौमभट्टारकश्रीविजयसेनसूरीश्वराणां विजयराज्ये पातशाहश्रीअकब्बरप्रदापितोपाध्यायपदधारकश्रीशत्रुजयकरमो चनाद्यनेकसुकृतकारकमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायां ___कादम्बरीनिरन्तरव्याख्यायां प्रथमः परिच्छेदः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 कामुकतारूपस्य आत्मदोषस्य उपालम्भः निन्दा करणीया, न तु तनिवृत्तये सदेशप्रेषणमित्यर्थः । 2 स प्रत्याख्यानं नायावधि जानाति, 'प्रत्याख्यानशकया न संदिशामि' इति वाचिकप्रेषणे तु स्वयमेव तस्मै प्रत्याख्यानप्रबोधनमिति भावः । 3 एवंविधदुःखान्यनुभवन्त्या मन्दभाग्याया मे बह्नपेक्षितस्य मरणस्यैवासंभवादित्याशयः ।। पाठा० - १ प्रिया नेति. २ अनुरक्तः. ३ स्वयं भक्ति. ४ निवेदनालापलाघवम्. ५ बोधनम् उद्धतप्रतिबोधनम्. ६ अनुजीवि. ७ असंभाव्यम्; असंभाव्यमेव. 480 कादम्बरी। कथायाम्

Loading...

Page Navigation
1 ... 491 492 493 494