Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 488
________________ करसेनेव चरणौ । अविनयनिश्चेतनो नखप्रतिबिम्बितमात्मानं बहु मन्यते । उपवनेष्वेकाकिन्या ग्रहणभयपलायमानायाः पल्लवलग्नांशुकदशाप्रतिहतगमनाया गृहीत्वेव सेखीभिरर्पिताया मिथ्याप्रगल्भः पराङ्मुखायाः परिष्वङ्गमाचरति । स्तनस्थले मे लिखपत्रलेखां कुटिलतामिवानृजुप्रकृतिः प्रकृतिमुग्धं मनः शिक्षयति । हृदयोत्कलिकातरङ्गवातैरिव शीतलैर्मुखमरुद्भिः श्रमजलशीकरतारकितावलीकचाटुकारः कपोलौ वीजयति । स्वेदसलिलशिथिलितग्रहणगलितोत्पलशून्येनापि करेण येवाङ्कुरानिव नखकिरणाशुद्धान्दुर्विदग्धः कर्णपूरीकरोति । वल्लभतरबालबकुलसेककालकवलीकृतान्सुरागण्डूषान्सकचंग्रहमसकृद्धृष्टो मां पाययति । भवनाशोकताडनोद्यतान्पादप्रहारान्दुर्बुद्धिविडम्बितः शिरसा प्रतीच्छति । मन्मथमूढमानसश्च - *********** प्रतिबिम्बमधिकृत्याह - अविनयेति । मां मुक्त्वा गत इत्यविनयस्तेन निश्चेतनो नखेषु प्रतिबिम्बितमात्मानं बहुमन्यते । अधिकं जानातीत्यर्थः । यद्यपि नखेषु यः कश्चन प्रतिबिम्बस्तथापि तदध्यासवशात्तस्यैवेत्यर्थः । उपवनेषु सर्वतः कोमलपल्लवानामाश्लेषमधिकृत्याह - उपवनेष्विति । उपवनेष्येकाकिन्या असहायायाः केनचित्पुरुषेण ग्रहणं तस्माद्यद्भयं तेन पलायमानाया गच्छन्त्याः पल्लवेषु लग्ना या अंशुकदशा तया प्रतिहतं गमनं यस्या अत एव पराङ्मुखायाः सखीभिर्गृहीत्वेवार्पिताया मिथ्याप्रगल्भो मिथ्यैव विदग्धचरितश्चन्द्रापीडः परिष्वङ्गमाचरत्यालिङ्गनं करोति । बहिरुपवनपल्लवाश्लेषमनुभूतम्, तदध्यासवशात्तत्कृताभिमतिमधिकृत्याह - स्तनेति । मे मम स्तनस्थले पत्रलेखां लिखन्ननृजुप्रकृतिः कुटिलस्वभावः कुटिलतामिव प्रकृतिमुग्धं मनः शिक्षयति । सस्वेदजलकणिकयोः कपोलयोर्व्यजनवातवीजितयोस्तदध्यासवशात्तत्कृताभिमतिमधिकृत्याह - हृदयेति । अलीकचाटुकारो मिथ्यैव चटुकृच्छ्रमजलशीकरैः श्वेतत्वसाम्येन तारकिताविव कपोलौ शीतलैर्मुखमरुद्भिर्वीजयति पवनं करोति । कीदृशैरिव । हृदये योत्कलिका रणरणकता सैवास्थिरत्वात्तरंगाः कल्लोलास्तेषां वातैरिव । स्वेदसलिलेन शिथिलीकृतं यदुत्पलं तत्संरक्षणार्थं न्यस्तं यत्करतलं तनखप्रभायां तत्कृतयवाङ्कुरकर्णपूरबुद्धिमधिकृत्याह - स्वेदेति । स दुर्विदग्धः । करेण शुद्धानखकिरणान्पाण्डुरत्वसाम्यायवाङ्कुरानिव कर्णपूरीकरोति । कीदृशेन करेण । स्वेदसलिलेन शिथिलितं तस्य ग्रहणे गलितं यदुत्पलं तेन शून्येनापि । अत्रापिशब्देन कर्णपूरीकृतोत्पलाभावेऽपि कर्णपूरकार्यं करोतीत्यर्थः । वल्लभतरेति । वल्लभतरा ये बालबकुला लघुकेसरास्तेषां सेककालस्तत्र कवलीकृतान्सुरागण्डूषान्मद्यचुलुकानसकृन्निरन्तरम् । अलीनां नीलत्वादाह - सकचेति । सकचग्रहं धृष्टो मां पाययति पानं कारयति । भवनाशोकेति । अशोकस्य गृहककैल्लिवृक्षस्य ताडनं तत्रोद्यतान्पादप्रहारांश्चरणाभिघातान्दुर्बुद्धया विडम्बितः शिरसोत्तमाङ्गेन प्रतीच्छति वाञ्छति । अत्र तदध्यासवशादशोकस्यापि तद्रूपत्वेन चिन्तनमित्यर्थः । विरहेण मूढतां प्रदर्शयन्नाह - मन्मथेति । मन्मथेन मूढं मानसं - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 अत्र 'लतासखीभिः' इत्युचितः पाठः । केनचित्पुरुषेण ग्रहणं न, चन्द्रापीडेन ग्रहणभयात्पलायमानायाः पल्लवासक्ताञ्चलतया लतारूपाभिः सखीभिः गृहीत्वा दत्ताया इव लज्जावशाद्विवृत्तवदनाया मे आलिङ्गनं करोतीत्यर्थः । 2 तस्य कस्य ग्रहणे ? स्पष्टव्यमत्र । स्वेदसलिलेन श्लथीकृतं यद् ग्रहणं (धारणम् धारणसामर्थ्यम्), तेन गलितं यदुत्पलं तच्छून्येन (तद्रहितेन) अपि स्वकरेण यवाङ्कुरानिव शुद्धान् (केवलान्) स्वनखकिरणानेव कर्णपूरीकरोतीत्यर्थः । 3 बकुलसेककाले अयं चन्द्रापीडः स्वमुखेन मयगण्डुषान् कवलीकृत्य कचग्रहणपूर्वकं तान् मां बलात्पाययतीति तात्पर्यम् । - - - - - - - - - - पाठा० - १ रसेन. २ नखेषु प्रतिबिम्बितम्. ३ लतासखीभिः. ४ पराङ्मुखापरिष्वङ्गम्. ५ लताम्. ६ यवाङ्कुरविकरानि. ७ ख. ८ सकचग्रहमगणितचेष्टः पातुं प्रार्थयते. (कादम्बरीवृत्तश्रवणम् । पूर्वभागः । 475

Loading...

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494