Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 489
________________ कथय हे पत्रलेखे, केन प्रकारेण निश्चेतनो निषिध्यते । प्रत्याख्यानमपीÜ संभावयति । आक्रोशमपि परिहास माकलयति । असंभाषणमपि मानं मन्यते । दोषसंकीर्तनमपि स्मरणोपायमवगच्छति । अवज्ञानमप्यनियन्त्रणं प्रणयमुत्प्रेक्षते । लोकापवादमपि यशो गणयति' इति । तामेवंवादिनीमाकर्ण्य प्रहर्षरसनिर्भरा मनस्यकरवम् - 'अहो चन्द्रापीडमुद्दिश्य सुदूरमाकृष्टा खल्वियं मकरकेतुना । यदि च सत्यमेव कादम्बरीव्याजेन साक्षान्मनोभवचित्तवृत्तिः प्रसन्ना देवस्य, ततः सहजैः सादरं संवर्धितैः प्रत्युपकृतमस्य गुणैः, यशसा धवलिताः ककुभः, यौवनेन रतिरससागरतरङ्गः पातिता रत्नवृष्टिः, यौवनविलासैलिखितं नाम शशिनि, सौभाग्येन प्रकाशिता निजश्रीः, लावण्येनैन्दवीभिरिव वृष्टममृतं कलाभिः । तथा च चिराल्लब्धः कालो मलयानिलेन, समासादितोऽवसरश्चन्द्रोदयेन, प्राप्तमनुरूपं फलं मधुमासकुसुमसमृद्ध्या, गतो मदिरारसदोषो गुणताम्, दर्शितं मुखं मन्मथयुगावतारेण इति । अथाह प्रकाशं विहस्याब्रवम् - 'देवि, यद्येवमुत्सृज कोपम् । प्रसीद । नार्हसि कामा - *********** यस्यैवंविधः । स्वव्यामोहं तत्रैवारोपयन्नाह - निश्चेतन इति । त्वं कथय केन प्रकारेण निषिध्यते प्रतिषिद्धोऽप्युत्कटरागवशाढ्येव तिष्ठति । प्रत्याख्यानेति । प्रत्याख्यानं निराकरणमीर्ष्यामसूयां संभावयति संभावनां करोति । आक्रोशमपि निष्ठुरोक्तिमपि परिहासं हास्यमात्रमाकलयति चिन्तयति । असंभाषणमप्यजल्पनमपि मानं मन्यते जानाति । दोषसंकीर्तनमपि स्मरणोपायत्वेनावगच्छति जानाति । अवज्ञानमप्यवगणनमपि स्नेहस्य चाटूनि नियन्त्रणानि तद्रहितमनियन्त्रणं प्रणयं स्नेहमुत्प्रेक्षते । लोकापवादमपि यशो गणयत्याकलयति । . इदं च सर्वं तद्विषयकोत्कटाध्यासवशाज्ज्ञेयम् । इत्येवंवादिनी तामाकर्ण्य प्रकृष्टो यो हर्षस्तल्लक्षणो यो रसस्तेन निर्भरा संपूर्णा मनस्येवमकरवमकल्पयम् । अहो इति । अहो इत्याश्चर्यम् । खलु निश्चितम् । चन्द्रापीडमुद्दिश्येयं कादम्बरी मकरकेतुना सुदूरमतिदूरमाकृष्टाकर्षिता । यदि च सत्यमेवावितथमेतदेव तदा देवस्य चन्द्रापीडस्योपरि मनोभवचित्तवृत्तिः कादम्बरीव्याजेन साक्षात्प्रसन्ना । तत इति । अस्य चन्द्रापीडस्य सहजैः स्वभावजनितैः सादर संवर्धितैर्वृद्धिं प्रापितैर्गुणैः प्रत्युपकृतं प्रत्युपकारः कृतः । यशसा कीर्त्या ककुभो दिशो धवलिताः शुभ्रिता । यौवनेति । यौवनेन तारुण्येन रतिरसः श्रृङ्गाररसः स एव सागरः समुद्रस्तस्य तरंगैः कल्लोलैः कृत्वा रत्नवृष्टिः पातिता । तथा यौवनविलासैस्तारुण्यविभ्रमैः शशिनि चन्द्रे चन्द्रापीडेति नाम लिखितम् । सौभाग्येति । सौभाग्येन सुभगतया निजा श्रीरात्मशोभा प्रकाशिता प्रकटीकृता । लावण्येति । लावण्येन चातुर्येणैन्दवीभिश्चन्द्रसंबन्धिनीभिः कलाभिरिवामृतं पीयूषं वृष्टम् । पीयूषवृष्टिः कृतेत्यर्थः । तथा मलयानिलेन मलयवायुना चिरादहुकालात्कालः प्रस्तावो लब्धः । तथा चन्द्रोदयेनावसरः समासादितः । तथा मधुमासः सुरभिमासस्तस्य कुसुमसमृद्ध्यानुरूपं योग्यं फलं प्राप्तम् । मदिरेति । मदिरा कापिशायनं तस्य रसदोषो गुणतां गतः । मन्मथयुगावतारेण मुखं दर्शितम् । कादम्बर्यनुकूलतायां सत्यामेतत्सर्वमनुकूलं जातमित्यर्थः। अथेति । तच्चिन्तनानन्तरं प्रकाशं प्रकटं विहस्याहमब्रवमवोचम् । हे देवि, यद्येवं तर्हि कोपमुत्सृज त्यज । टिप्प० - 1 यद्यस्मिन् वाक्य एवोद्देश्य-विधेयभावः पूर्येत तदा 'ततः' इत्यग्रिमवाक्यस्यासंबन्धः स्यात् । तस्मात् कादम्बरी व्याजीकृत्य (उद्दिश्य) मनोभवस्य चित्तवृत्तिर्यदि सत्यं प्रसन्ना, ततः सहजैः अस्य गुणैरुपकृतमित्यर्थः । पाठा० - १ एवं तदा. २ विलासैः. ३ प्राप्तमनुरूपफलम्; प्राप्तरूपं फलम्. ४ मदिरामद. ५ कामापराधे. - - - - - - - - - - - - 1476 कादम्बरी। कथायाम्-)

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494