Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
________________
धवलेक्षणामाबद्धरणरणकेन चेतसा चिन्तयतो जाग्रत एवास्य जगाम रात्रिः । अपरेद्युश्च समुत्थिते भगवति रवावास्थानमण्डपगतस्तद्गतेनैव मनसा सहसैव प्रतीहारेण सह संप्रविशन्तं केयूरकं ददर्श । दूरादेव च क्षितितलस्पर्शिना मौलिना कृतपादपतनम् 'एह्येहि' इत्युक्त्वा प्रथममपाङ्गविसर्पिणा चक्षुषा, ततो हृदयेन, ततो रोमोद्गमेन, पश्चाद्धजाभ्यां प्रधावितः पैथि तर्मोलिलिङ्ग गाढम् । उपावेशयच्चैनमात्मनः समीप एव । पप्रच्छ च स्मितसुधाधवलीकृताक्षरं क्षरत्प्रीतिद्रवमयमिव वचनमादृतः - 'केयूरक, कथय कुशलिनी देवी ससखीजना सपरिजना कादम्बरी भगवती महाश्वेता च ?' इति । असौ तु तेन राजसूनोः प्रीतिप्रकर्षजन्मना स्मितेनैव स्नपित इवानुलिप्त इव सद्य एवापगताध्वखेदः प्रणम्यादृततरमवोचत् - 'अद्य कुशलिनी, यामेवं देवः पृच्छति ।' इत्यभिधायापनीर्यार्द्रवस्त्रावगुण्ठितं बिससूत्रसंयतमुखमार्द्रचन्दनपङ्कन्यस्तबालमृणालवलयमुद्रं नलिनीपत्रपुटमदर्शयत् । उद्घाट्य च तत्र कादम्बरीप्रहितान्यभिज्ञानान्यदर्शयत् । तद्यथा - मरकतहरिन्ति व्यपनीतत्वञ्चि चारुमञ्जरीभाञ्जि क्षीरीणि पूगीफलानि, शुककामिनीकपोलपाण्डूनि ताम्बूलीदलानि, हरचन्द्रखण्डस्थूलशकलं च कर्पूरम्, अतिबहल -
***********
शरीरे । 'घनो बन्धः पुरं पिण्डः' इति कोशः । प्रीतिमकरोत् । तामेव धवलेक्षणां कादम्बरीमाबद्धरणरणकेन निबद्धौत्कण्ठ्येन चेतसा चिन्तयतो ध्यायतो जाग्रत एव अस्य चन्द्रापीडस्य रात्रिर्जगाम । अपरेद्युश्चेति । अपरस्मिन्दिने भगवति रवौ समुत्थिते सति तद्गतेनैव कादम्बरीगतेनैव मनसास्थानमण्डपगतः सहसैवातर्कित एव प्रतीहारेण सह संप्रविशन्तं केयूरकं ददर्शाद्राक्षीत् । दूरादेवेति । दूरादेव दर्शनमात्रादेव क्षितितलं स्पृशतीत्येवंशीलेन मौलिना मस्तकेन कृतं पादपतनं येन तम्, एह्येहीत्युक्त्वेत्यभिधाय । इदं प्रीत्यतिशयनिवेदकम् । प्रथममादावपाङ्गविसर्पिणा नेत्रप्रान्तचारिणा चक्षुषा नेत्रेण ततस्तदनन्तरं हृदयेन स्वान्तेन, ततस्तदनन्तरं रोमोद्गमेन रोमाञ्चोद्भवेन, ततः पश्चाद्भुजाभ्यां बाहुभ्यां प्रधावित उच्चलितः प्रथितं विख्यातं गाढमत्यर्थमालिलिङ्गोपगूहितवान् । एनं केयूरकं आत्मनः समीप एव आत्मीयासनाभ्यर्ण एवोपावेशयदस्थापयच्च । पुनः स्मितसुधाधवलीकृतान्यक्षराणि यस्मिंस्तत्क्षरत्स्त्रवद्यः प्रीतिद्रवस्तन्मयमिव तन्निर्मितमिवैतादृशं वचनमादृत आदरवान्पप्रच्छ । प्रश्नं चकारेत्यर्थः । किं तदित्याह - केयूरकेति । हे केयूरक, कथय ब्रूहि । कुशलिनी क्षेमवती देवी ससखीजना सपरिजना कादम्बरी वर्तते । तथा महाश्वेता भगवती । च । असौ त्विति । असौ केयूरकस्तु तेनानिर्वचनीयेन राजसूनोश्चन्द्रापीडस्य प्रीत्याः प्रकर्षस्तस्माज्जन्मोत्पत्तिर्यस्यैवंभूतेन स्मितेनैव स्नपित इव स्नानं कारित इव, अनुलिप्त एव विलिप्त इव सद्य एव तत्कालमेवापगतोऽध्वखेदः पथ (थि) श्रमो यस्य स प्रणम्य नमस्कृत्यादृततरमत्यादरपूर्वकमवोचदब्रवीत् । अद्य कुशलिनी सा वर्तते, यामेवं देवः पृच्छतीत्यभिधायेत्युक्त्वापनीय दूरीकृत्यार्द्रवस्त्रेण स्तिमितांशुकेनावगुण्ठितमाच्छादितं बिससूत्रेण मृणालतन्तुना संयतं बद्धं मुखं यस्य तत् । आर्द्रचन्दनपङ्को न्यस्तो यस्मिन्नेतादृशं बालमृणालवलयं नवीनतन्तुलकटकं तस्य मुद्रा यस्मिन्नेतादृशं नलिनीपत्रपुटमदर्शयदीक्षणविषयमकारयत् । उद्घाट्योन्मुद्य तत्र तस्मिन्कादम्बरीप्रहितानि राजपुत्रीप्रेषितान्यभिज्ञानानि चिह्नान्यदर्शयदवलोकनमकारयत् । तदेव दर्शयति - तद्यथेति । मरकतमश्मगर्भं तद्वद्धरिन्ति नीलानि व्यपनीतत्वञ्चि दूरीकृतत्वग्भागानि चार्वी या मञ्जरी तद्भाञ्जि क्षीण क्षीरयुक्तान्येतादृशानि पूगीफलानि क्रमुकफलानि । तथा शुककामिनी कीरपत्नी तस्याः कपोलौ तद्वत्पाण्डूनि श्वेतानि ताम्बूटिप्प० - 1 आर्द्रे चन्दनपङ्के न्यस्ता बाणमृणालवलयस्य मुद्रा (चिह्नम्, अन्यो नोद्घाटयितुं शक्नुयादिति) यस्मिन् तदित्यर्थः ।
पाटा० - १ सा. २ प्रविशन्तम् ३ निभृतम्: प्रसृतम् ४ तमालिलिङ्ग ५ समुपावेशयत्. ६ वस्त्रकर्पट.
430
कादम्बरी |
कथायाम्
Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494