Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 466
________________ पतिपातितपादपपरिहारवक्रीकृतमार्गया, जनजनिततृणपर्णकाष्ठकोटिकूटप्रकटितवीरंपुरुषघातस्थानया, महापादपमूलोत्कीर्णकान्तारदुर्गया, तृषितपथिकखण्डितदलोज्झितामलकीफलनिकरया, विकसितकैरञ्जमञ्जरीरजोविच्छुरिततटैस्तट तरूबद्धपर्टेंच्चरकर्पटध्वजचिह्नैरिष्टिकास्थित शुष्कपल्लवविष्टरानुमितपथिकविश्रामैर्विश्रान्तकार्पटिर्कंविस्फोटितधूलिधूसरकिसलयलाञ्छितोपकण्ठैः पत्रसंकरासुरभीकृताशिशिरपङ्किलविवर्णास्वादुजलैर्व्रततिग्रन्थिग्रथितपर्णपुटतृणपूली चिह्नानुमेयैर्जरत्कान्तारकूपैरसुलभसलिलतयानभिलषितोद्देशया, मधुबिन्दुस्यन्दिसिन्दुवारवनराजिरजोधूसरिततीराभिश्च कुञ्जकलताजालकैर्जटिलीकृतसैकताभिरध्वगोत्खातवालुकाकूप - *********** यस्यां सा तया । जनेनेति । जनेन लोकेन जनितं निष्पादितं यत्तृणं पर्णकाष्ठानां कोटी तस्याः कूटं शिखरं तादृशचिह्नेन प्रकटितं वीरपुरुषाणां घातस्थानं यस्यां सा तया । सांप्रतमपि तथा कुर्वन्तीति सर्वलोके प्रसिद्धम् । महेति । महापादपानामुच्चैस्तरवृक्षाणां मूलीनि प्रसिद्धान्युत्कीर्णानि यस्मिन्नेवंभूतं कान्तारं वनं तदेव विषमत्वाद्दुर्गं यस्यां सा तया । कान्तारं विशेषरूपम्, अटवी तु सामान्यरूपेति न पुनरुक्तदोषः । तृषितेति । तृषिताः पिपासिता ये पथिकजनास्तैः खण्डितानि द्वैधीकृतानि दलानि पत्राणि येषामेवंविधान्युज्झितानि रसास्वादानन्तरं त्यक्तान्यामलकीफलानि तेषां निकरः समूहो यस्यां सा तया । जरमिति । जरन्तो जीर्णा ये कान्तारकूपास्तैः कृत्वा न सुलभं सलिलं जलं यस्यां तस्या भावस्तत्ता तयानभिलषितो नेप्सितः । पान्थेनेति शेषः । उद्देशः प्रदेशो यस्याः सा तया । अथ कान्तारकूपान्विशिनष्टि - विकसितेति । विकसिता विनिद्रा ये करञ्जा नक्तमालास्तेषां मञ्जर्यस्तासां रजोभिः परागैर्विच्छुरितानि धूसरितानि तटानि कूपोपकण्ठा येषां तैः । तटेति । तटतरुषु कूपोपकण्ठसमुद्भववृक्षेषु बद्धाः पटैच्चरैश्चोरैः कर्पटध्वजः स एव कूपाभिव्यञ्जकं चिह्नं येषां तैः । इष्टिकेति । इष्टिकाः स्थिता येषु, शुष्कपल्लवविष्टराः संस्तारकास्तैरनुमिताः पथिकानां विश्रामा येषु तैः । विश्रान्तेति । विश्रान्ताः स्थिता ये कार्पटिकास्तैर्विस्फोटिता दूरीकृता या धूली रजस्तया धूसराणि मलिनानि किसलयानि पल्लवास्तैर्लाञ्छितश्चिह्नित उपकण्ठो येषां तैः । पत्रेति । पत्रसंकरैः पर्णसमूहैरसुरभीकृतान्यत एवाशिशिराण्यशीतलानि पङ्किलानि कर्दमयुक्तानि विवर्णान्यशुभवर्णान्यस्वादूनि स्वादु (द) रहितानि जलानि येषां तैः । व्रततीति । व्रततीनां वल्लीनां ग्रन्थिभिर्ग्रथिताः पर्णपुटर्युक्तास्तृणपूल्यस्ता एव चिह्नानि तैरनुमातुं योग्यैः । शुष्केति । शुष्का गिरीणां नद्य एव नदिकाः । स्वार्थे कः । 'केऽणः' इति ह्रस्वः । ताभिर्विषमीकृतं स्थपुटीकृतमन्तरालं मध्यं यस्याः सा तया । अथ नदिका विशेषयन्नाह - मध्विति । मधुबिन्दुस्यन्दीनि यानि सिन्दुवारवनानि निर्गुण्डीकाननानि तेषां राजिः पङ्क्तिस्तस्या रजः परागस्तेन धूसरितानि तीराणि तटानि यासां ताभिः । कुञ्जकेति । कुञ्जकलताः प्रसिद्धास्तासां जालकैर्जटिलीकृतानि सैकतानि जलोज्झितपुलिनानि यासां ताभिः । अध्वगैरिति । अध्वगैः पथिकैरुत्खाताः खनिता वालुकासु कूपका विदारकास्तेषूपलभ्यमानं प्राप्यमाणं कलुषं - I टिप्प० - 1 तृण-पर्ण-काष्ठानां कोटिसंख्यका ये कूटाः तैः प्रकटितं वीरपुरुषाणामपि घातस्थानं यस्यां सा । वीरायिता अपि पान्थजनाः हिंसजन्तुभ्यो निजरक्षणार्थं तृणकाष्ठादीनां कूटं कृत्वा तन्मध्ये प्रविश्य निशि निवसन्तीति भयङ्करत्वं सूच्यते । 2 'मूलेषु उत्कीर्णाः निस्तक्ष्य निर्मिताः कान्तारदुर्गा वनदुर्गामूर्तयो यस्याम्' इति केचित् । 3 बद्धा ये पटच्चराणां जीर्णवस्त्राणां कर्पटा वस्त्रखण्डास्त एव ध्वजचिह्नं येषामित्यर्थः । 'पटच्चरं जीर्णवस्त्र' मित्यमरः । 4 इष्टकासु स्थिता ये शुष्कपल्लवानां विष्टराः (उपवेशनार्थमास्तरणानि ) तैः अनुमिताः । 5 तृषिताः पथिका रज्ज्याः पात्रस्य चाभावे, तृणैर्गुरुभारां पूलीं निर्माय तत्र च पत्रपुटकं दृढमाधाय दीर्घलताभिर्बद्ध्वा पत्रपुटकैर्जलमुदञ्चन्तीति युक्तिः । 6 उच्चावचीकृतम्, प्रावृड्जलप्रवाहे तलदेशो नतोन्नतो भवतीत्यर्थः । 7 क्षुद्रकुञ्जरूपेण जटिलीभूता लताः । पाठा० - १ पथया. २ वीरपुरुषहृदयघात. ३ कपिकच्छूच्छुरितमञ्जरी. ४ जरत्कर्पट. ५ इष्टकास्थित, इष्टकचित. ६ प्रस्फोटितचरण; प्रस्फुटित. ७ तृणपुली; तृणोलुपपुलाक... ८ अनुमितप्रमेयैः ९ कुब्जक. (मार्गे शून्याटवी पूर्वभागः । 453

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494