Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
________________
गुलीभिरिव महिषासुरशोणितलवालोहिनीभिः स्कन्धपीठकण्डूयनचलितत्रिशूलदण्डकृतापराधं वनमहिषमिव तर्जयन्तीम्, प्रेबलकूर्चधरैश्छागैरपि धृतव्रतैरिव स्फुरदधरपुटैराखुभिरपि जपपरैरिव कृष्णाजिनप्रावृताङ्गैः कुरङ्गैरपि प्रतिशयनैरिव ज्वलितलोहितमूर्धरत्नरश्मिभिः कृष्णसर्वैरपि शिरोधृतमणिदीपकैरिवाराध्यमानान्, सर्वतः कठोरवायसगणेन च रटत स्तुतिपरेणेव स्तूयमानाम्, स्थूलस्थूलैः शिरोजालकैगधागोलिकाकृकलासकुलैरिव दग्धस्थाण्वाशङ्कया समारूढैर्गवाक्षितेन, अलक्ष्मीसमुत्खातलक्षणस्थानैरिव विस्फोटकव्रणबिन्दुभिः कल्माषित सकलशरीरेण, कर्णावतंससंस्थापितया च चूडया रुद्राक्षमालिकामिव दधानेन, अम्बिकापादपतनश्यामललाटवर्धमानबुद्बुदेन, कुंवादिदत्तसिद्धाञ्जनदानस्फोटितैकलोचनतया त्रिकालमि -
**
धूपधूमस्तेनारुणीकृताभी रक्तीकृताभिः प्रचलन्तीभिर्गर्भगृहस्यापवरकस्य दीपिकालताभिर्दशेन्धनवल्लीभिः । अत एव किंचिदारक्त कृष्णतया तत्साम्यप्रदर्शनार्थमाह - अङ्गुलीति । कीदृशीभिः । महिषासुरो दैत्यस्तस्य शोणितं तस्य लवस्तेनालोहिनीभिर्वनमहिषमरण्यरक्ताक्षं तर्जयन्तीं न्यक्कुर्वन्तीम् । कीदृशम् । स्कन्धपीठस्य यत्कण्डूयनं तेन चलितः कम्पितो यस्त्रिशूलदण्डः स एव कृतोऽपराधो येनैवंभूतम् । सजातीयकृतमहिषापराधाद्वनमहिषस्याप्यपराधः । प्रबलेति । प्रबलानि प्रकृष्टानि कूर्चानि चिबुकाधः स्थलवर्तिरोमाणि धरन्तीति धरैश्छागैरपि बस्तैरपि धृतव्रतैरिव स्वीकृतनियमैरिवाखुभिरप्युन्दुरैरपि स्फुरन्त्यधरपुटानि येषां तैः । जातिस्वभावोऽयम् । अतएव जपपरैरिव जापतत्परैरिव । कृष्णेति । कृष्णाजिनेन श्यामचर्मणा प्रवृतमङ्गं येषां तैः कुरङ्गैरपि सारङ्गैरपि प्रतिशर्यनैरिव प्रतितल्पैरिव । ज्वलितेति । . ज्वलिता दीप्यमाना लोहिता रक्ता मूर्धनि शिरसि रत्नानां मणीनां रश्मयो रोचिषो येषां तैरेवंविधैः कृष्णसर्वैरपि भुजङ्गैरपि शिरोधृतमणिदीपकैरिव मस्तकन्यस्तग्रहमणिभिरिव । एतैराराध्यमानामुपास्यमानाम् । सर्वत इति । सर्वतः समन्ताद्रटता शब्दं कुर्वता कठोरवायसगणेन सकृत्प्रासमूहेन च स्तुतिपरेण स्तूयमानां नूयमानाम् । अथ द्राविडधार्मिकं विशेषयन्नाह - स्थूल इति । स्थूलानि स्थूलानि च स्थूलस्थूलानि तैः शिरजालकैर्नाडीसमूहैर्गवाक्षितेन सर्वत्र जालकमयीभूतेन । तत्र शिराजालकस्य पीनस्थूलरूपतया तत्साम्येनाह - गोधेति । नीलत्वसाम्यात् । दग्धो ज्वलितो यः स्थाणुः कीलकस्तस्याशङ्कारेका तया गोधा प्रसिद्धा, गोलिका पल्ली, कृकलासः सरटः एतेषां कुलैरिव समूहैरिव समारूढैराश्रितैः । अलक्ष्मीति । अलक्ष्म्या अश्रिया समुत्खातानि मूलत उन्मूलितानि यानि लक्षणानि सामुद्रकशास्त्रोक्तानि तेषां स्थानैरिव, विस्फोटकाः प्रसिद्धास्तेषां व्रणबिन्दुभिः कल्माषितं चित्रितं सकलं समग्रं शरीरं यस्य स तेन । कर्णेति । कर्णावतंसे संस्थापितया न्यस्तया चूडया शिखया रुद्राक्षमालिकामिव दधानेन धारयता । अम्बिकेति । अम्बिकायाः पार्वत्याः पादपतनेन श्यामं कृष्णं यल्ललाटमलिकं तत्र वर्धमानो बुद्बुदः स्थासको यस्य स तेन । शरीरं कदर्यरूपमुक्त्वा तत्प्रसङ्गेनेन्द्रियाणां दन्तादीनां कदर्यत्वं कपटक्रियासाधनानां चातिशयत्वं व्यञ्जयन्पुनस्तमेव विशेषयन्नाह - कुवादीति । कुवादी मिथ्यावादी तेन दत्तं सिद्धाञ्जनं नेत्रौषधं तस्य दानं नेत्रयोः प्रक्षेपस्तेन स्फोटितं नाशितमेकं लोचनं यस्य तस्य भावस्तत्ता तया । त्रिकालमिति ।
टिप्प॰ - 1 ‘प्रतिशयितैरिव' इति पाठः । अभीष्टप्राप्तये दिनमासादिनियतं भोजनादिपरित्यागपूर्वं देवताग्रे शयनं 'प्रतिशयनम्' । कृष्णचर्मधारिणो मृगा अपि कृतप्रतिशयना इव । 2 स्थूणः (शाखापत्ररहितो वृक्षः) । 3 'वर्धमानार्बुदेन' इत्युचितः पाठः । श्यामे ललाटे घर्षणजन्यः 'अर्बुदः ' कृष्णवर्णः किणः ( शुष्कं व्रणचिह्नम् ) संजात इत्यर्थः ।
पाटा० - १ विरचिताङ्गुलीभिः २ प्रलम्ब. ३ प्रतिशायितैः ४ रुवता. ५ शिराजालैः ६ गोधागृहगोधिका; गोधारगोधिका ७ लक्ष्मी. ८ विस्फोट. ९ अर्बुदेन १० कुवादिक. ११ स्फुटित.
चण्डिकावर्णनम्
पूर्वभागः ।
459
Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494