Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
________________
जगाम । आकस्मिकागमनप्रहृष्टसंभ्रान्तानां पौराणामर्घकमलानीव नमस्काराञ्जलिसहस्राणि प्रतीच्छन्नतर्कित एव विवेश नगरीम् ।
अहमहमिकया च प्रधावितानतिरभसहर्षविह्वलान्परिजनान् ‘दारि देव, चन्द्रापीडो वर्तते' इत्युपलभ्यास्य पिता निर्भरानन्दमन्दगमनो मन्दर इव क्षीरोदजलमुत्तरीयांशुकममलमागलितमाकर्षन्, प्रहर्षनेत्रजलबिन्दुवर्षी मुक्तमुक्ताफलासार इव कल्पपादपः, प्रत्यासन्नवर्तिभिर्जरापाण्डुमौलिभिश्चन्दनविलेपनैरनुपहतक्षौमधोरिभिः केयूरिभिरुष्णीषिभिः किरीटिभिः शेखरिभिर्बहुकैलासामिव बहुक्षीरोदामिव क्षितिं दर्शयद्भिः प्रतिपन्नासिवेत्रच्छत्रकेतुचामरैरनुगम्यमानो राजसहसैश्चरणाभ्यामेव प्रत्युजगाम । दृष्ट्वा च पितरं दूरादेवावतीर्य वाजिनश्चूडामणिमरीचिमालिना मौलिना महीमगच्छत् । अथ प्रसारितभुजेन ‘एोहि' इत्याहूँय पित्रा गाढमुपगूढः सुचिरं परिष्वज्य तत्कालसंनिहितानां च माननीयानां -
***********
लामाजगामाययौ । आकस्मिकेति । आकस्मिकमसंभावितं यदागमनं तेन प्रहृष्टाः प्रमुदिताः संभ्रान्ताश्च ये पौरास्तेषामर्थकमलानीव नमस्काराञ्जलिसहस्राणि प्रतीच्छन्गृह्णनतर्कित एवासंभावित एव नगरीमुज्जयिनी विवेश प्रवेशं चकार ।
अहं पूर्वमहं पूर्वमित्यहमहमिका तया प्रधावितानुच्चलितानतिरभसेन जनितो यो हर्षः प्रमोदस्तेन विह्वलान्व्याकुलान्परिजनान्परिच्छदान्द्वारि द्वारदेशे हे देव, चन्द्रापीडो वर्तते इत्युपलभ्य प्राप्यास्य चन्द्रापीडस्य पिता तारापीडो निर्भरानन्देन निबिडप्रमोदेन मन्दं गमनं यस्यैवंभूतोऽमलं निर्मलमागलितमीषत्स्वस्थानाद् भ्रष्टमुत्तरीयांशुकमुपसंव्यानवस्त्रमाकर्षयन्स्वस्थानं नयन् । राज्ञो गौरत्वसाम्यादुत्तरीयांशुकस्य शुभ्रत्वसाम्यादाह - मन्दरेति । मन्दर इव मेरुरिव क्षीरोदजलम् । प्रहर्षेति । प्रहर्षात्प्रमोदान्नेत्रजलबिन्दू-वर्षतीत्येवंशीलः स तथा । जलबिन्दूनां शुचित्वे मुक्ताफलसाम्यमाह - मुक्तेति । मुक्तो मुक्ताफलानामासारो येनैवविध इव कल्पपादपो मन्दरतरुः । प्रत्यासन्नवर्तिभिर्जरा विससा तया पाण्डवः श्वेता मौलयो येषां तैश्चन्दनानां विलेपनान्यङ्गरागा येषां तैः । अन्विति । अनुपहतमच्छिन्नं यत्क्षौम दुकूलं तद्धारिभिः, केयूरमङ्गदं विद्यते येषां तैः, उष्णीषं पुष्पदाम विद्यते येषां तैः, किरीट कोटीरं विद्यते येषां तैः, शेखर आपीडो विद्यते येषां तैः । अत एव बहुकैलासामिव । शेखराणां शुभ्रत्वादिति भावः । बहुक्षीरोदामिव । क्षौमादीनामतिशुभ्रत्वेन क्षीरोदसादृश्यात् । इत्येतादशी क्षितिं वसधां दर्शयद्भिः । प्रतीति । प्रतिपन्नानि स्वीकतानि वेत्रच्छत्रकेतचामराणि यैरेवंविधै राजसहसैरनगम्यमानः चरणाभ्या पादाभ्यामेव प्रत्युज्जगामाभिमुखं प्रतस्थे । दृष्ट्वा च पितरं जनकं दूरादेव वाजिनोऽश्चादवतीर्य चूडामणिः शिरोमणिस्तस्य मरीचयः क्रान्तयस्ता मलति धारयतीत्येवंशीलेन मौलिना मस्तकेन महीं वसुधामगच्छत् । पञ्चाङ्ग प्रणाममकरोदित्यर्थः । अथेति । प्रणामानन्तरं प्रसारितभुजेन विस्तारितबाहुना पित्रा एहि एहि इत्याहूय गाढमत्यर्थमुपगूढ आलिङ्गितः सुचिरं बहुकालं परिष्वज्यालिङ्ग्य तस्मिन्काले संनिहितानां समीपगतानां च माननीयानां पूज्यानां कृतो विहितो नमस्कारो येनैवंभूतश्चन्द्रापीडः करे गृहीत्वा विला - टिप्प० - 1 'परिजनात्' इति अर्थसंगतः पाठः । परिजनात् उपलभ्य संवादं प्राप्य । 2 कल्पपादप इव इत्यन्वयो बोध्यः । 3 चूडामणेमरीचिमाला अस्त्यस्य तादृशेन, इत्येवार्थ उचितः।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
--
-
-
-
-
-
-
पाठा० - १ आविवेश. २ धारिभिर्हारिभिः. ३ चन्द्रापीडोऽपि दृष्ट्वा च. ४ आदरादाहूय. ५ सुचिरं गाढमुपगूढः. ६ माननीयानाममात्यानां महीपतीनां च क्रमेण.
466
7 कादम्बरी ।
कथायाम्- )
Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494