Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
________________
कृतनमस्कारः करे गृहीत्वा विलासवतीभवनमनीयत राज्ञा । तयापि तथैव सर्वान्तःपुरपरिवारया प्रत्युद्गम्याभिनन्दितागमनः कृतागमनमङ्गलाचारो दिग्विजयसंबद्धाभिरेव कथाभिः कंचित्कालं स्थित्वा शुकनासं द्रष्टुमाययौ । तत्राप्यमुनैव क्रमेण सुचिरं स्थित्वा निवेद्य वैशम्पायनं स्कन्धावारवर्तिनं कुशलिनमालोक्य च मनोरमामागत्य विलासवतीभवन एव सर्वाः स्नानादिकाः परवश ईव क्रिया निरवर्तयत् । अपराह्ने निजमेव भवनमयासीत् । तत्र च रणरणकखिद्यमानमानसः कादम्बर्या विना न केवलमात्मानं स्वभवनमवन्तीनगरं वा सकलमेव महीमण्डलं शून्यममन्यत । ततो गन्धर्वराजपुत्रीवार्ताश्रवणोत्सुकश्च महोत्सवमिवेप्सितवरप्राप्तिकालमिवामृतोत्पत्तिसमयमिव पत्रलेखागमनं प्रत्यपालयत् ।
ततः कतिपयदिवसापगमे मेघनादः पत्रलेखामादायागच्छत्, उपानयच्चैनाम् । कृतनमस्कारां च दूरादेव स्मितेन प्रकाशितप्रीतिश्चन्द्रापीडः प्रकृतिवल्लभामपि कादम्बरीसकाशात्प्रसादलब्धापरसौभाग्यामिव वल्लभतरतामुपागतामुत्थायातिशयदर्शितादरमालिलिङ्ग पत्रलेखाम्, मेघनादं च प्रणतं पृष्ठे करकिसलयेन पस्पर्श । समुपविष्टश्चाब्रवीत् - 'पत्रलेखे, कथय तत्रभवत्या महाश्वेतायाः समदलेखाया देव्याः कादम्बर्याच कुशलम् । कुशली वा सक -
***********
सवतीभवनं राज्ञानीयत प्राप्यत । तयापि विलासवत्यापि तथैव पूर्वोक्तरीत्यैव सर्वान्तःपुरस्य परिवारो यस्याः सा तया प्रत्युद्गम्याभिमुखमागत्याभिनन्दितं श्लाघितमागमनं यस्य सः । कृतो विहित आगमनस्य मङ्गलाचारः क्रियाविशेषो यस्य सः । दिशां विजयः स्वायत्तीकरणं तत्संबद्धाभिस्तद्विषयिकाभिः कथाभिर्वार्ताभिः कंचित्कालं मातुह स्थित्वा शुकनासं द्रष्टुं विलोकितुमाययावाजगाम । तत्राप्यमुनैव क्रमेण पूर्वोक्तन्यायेन सुचिरं बहुकालं स्थित्वा स्कन्धावारवर्तिनं कुशलिनं वैशम्पायनं निवेद्य विज्ञाप्यालोक्य निरीक्ष्य च मनोरमां वैशम्पायनजननीमागत्य विलासवतीभवन एव सर्वाः समग्राः स्नानादिकाः क्रियाः परवश इव परायत्त इव निरवर्तयन्निवर्तितवान् । अपराह्ने मध्याह्नात्परतो निजमात्मीयमेव भवनं कुमारोऽयासीदगात् तत्र च रणरणकेनोत्कण्ठया खिद्यमानं पीड्यमानं मानसं यस्यैवंविधः कादम्बर्या विना न केवलमात्मानं स्वभवनं स्वगृहमवन्तीनगरं सकलमेव महीमण्डलं शून्यममन्यतागण्यंत । ततस्तदनन्तरं गन्धर्वराजपुत्र्या या वार्ता किंवदन्ती तस्याः श्रवणमाकर्णनं तत्रोत्सुक उत्कण्ठितश्च महोत्सवमिवोत्सवमिवेप्सितोऽभिलषितो यो वरस्तस्य प्राप्तिकालो लब्धिसमयस्तमिवामृतस्य पीयूषस्योत्पत्तिसमयस्तमिव पत्रलेखागमनं प्रत्यपालयत्प्रत्यपेक्षांचक्रे ।
ततस्तदनन्तरं कतिपयदिवसापगमे कियत्कालातिक्रमे मेघनादः पत्रलेखामादाय गृहीत्वागच्छदाययौ । एनां पत्रलेखामुपानयच्च राज्ञः समीपे प्रापयच्च । कृतनमस्कारां च तां दूरादेव स्मितेनेषद्धसितेन च प्रकाशिताविष्कृता प्रीतिर्येनैवंभूतश्चन्द्रापीडः प्रकृत्या स्वभावेन वल्लभामपि कादम्बरीसकाशाप्रसादेन लब्धमपरं सौभाग्यं ययैवंविधामिवात एव वल्लभतरतामतिवल्लभतामुपागतां प्राप्तवतीमुत्थायातिशयदर्शितादरं यथा स्यात्तथा पत्रलेखामालिलिङ्गोपगृहनं चकार । मेघनादं च प्रणतं पृष्ठे करकिसलयेन हस्तपल्लवेन पस्पर्श स्पर्श चकार । तदनन्तरं समुपविष्टश्चेत्यब्रवीदित्यवोचत् । इतिशब्दद्योत्यमाह - पत्रलेखे इति । हे पत्रलेखे, कथय निवेदय तत्रभवत्याः पूज्याया महाश्वेताया मदलेखया सहवर्तमानाया देव्याः कादम्बर्याश्च कशलं वर्तते । कशली वा सकलः समस्त -
टिप्प० -1 सर्वाण्यन्तःपुराणि परिवारो यस्य इत्यर्थो बोध्यः । 2 अगणयत् इति स्यात् ।
पाठा० - १ प्रत्युद्गम. २ एव. ३ कुमारभवनम्. ४ समुपविष्टां च; समुपविष्टा च ताम्. ५ कुशली वा बाह्यः सकलः; कुशलवानन्यः सकल.
पत्रलेखाया आगमनम्
। पूर्वभागः।
467
Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494