Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 474
________________ पुस्तिकासंग्राहिणा, जीर्णपाशुपेतोपदेशलिखितमहाकालमतेन, आविर्भूतनिधिवादव्याधिना, संजातधातुवादवायुना, लग्नासुरविवरप्रवेशपिशाचेन, प्रवृत्तयक्षकन्यकाकामित्वमनोरथव्यामोहेन, वर्धितान्तर्धानमेन्त्रसंग्रहेण, श्रीपर्वताश्चर्यवार्तासहस्त्राभिज्ञेन, असकृदभिमन्त्रितसिद्धार्थकार्हतिधावितैः पिशाचगृहीतकैः करतलतार्डेननिबिडीकृत श्रेवणपुटेन, अवमुक्तशैवाभिमानेन, दुर्गृहीतालाबुवीणावादनोद्वेजितपथिकपरिहृतेन, दिर्वैसमेव मशकक्वणितानुकारि कम्पितोत्तमाङ्गं गायता, स्वदेशभाषानिबद्ध भागीरथीभक्तिस्तोत्रनर्तकेन, गृहीततुरगब्रह्मचर्यतयान्यदेशागतोषितासु जरत्प्रर्व्रजितासु बहुकृत्वः संप्रयुक्तस्त्रीवशीकरणचूर्णेन, अतिरोषण ** - ** येषामेतादृशा ये कुहका ज ( जा ) लिकास्तेषां तन्त्रा औषधप्रयोगाः, मन्त्राः शाबरमन्त्राः, तेषां पुस्तिकास्तस्याः संग्राहिणा संग्रहकारिणा । जीर्णेति । जीर्णश्चिरकालीनो यः पाशुपतोपदेशो मनुष्यरुधिरेण होमप्रतिपादकशिक्षा तेन लिखितं लिपीकृतं महाकालमतमीश्वरमतं येन । एतेन केवलं वाममार्गोपदेष्टृत्वं सूचितम् । आविर्भूतेति । आविर्भूतः प्रकटीभूतः सर्वे मे मम निधय इति वादः स एव व्याधिर्यस्य स तेन । अत एवाह - संजातेति । संजातः समुत्पन्नो धातुवादस्य ताम्रादेः सुवर्णादिकरणस्य स एव वायुर्विक्रिया यस्य स तेन । लग्न इति । लग्नोऽसुराणां पातालवासिदेवानां विवरप्रवेशलक्षणः पिशाचो यस्य स तेन । प्रवृत्तेति । प्रवृत्तः प्रसृतो यक्षकन्यका गन्धर्वपुत्र्यस्तासां यः कामित्वमनोरथो भोगेच्छाविशेषस्तद्विषये व्यामोहो यस्य स तेन । वर्धितेति । वर्धितो वृद्धिं नीतोऽन्तर्धानमदृश्यता तस्मिन्क'र्तव्ये मन्त्रसंग्रहो यस्यैवंविधेन । श्रीपर्वतेति । श्रीपर्वतः श्रीशैलस्तस्याश्चर्यवार्ताश्चित्रकारिण्यः किंवदन्त्यस्तासां सहस्रं तस्मिन्नभिज्ञेन कुशलेन, तस्य शाम्भवत्वाद् द्रविडधार्मिकस्य जंगमत्वाच्चेति भावः । असकृदिति । असकृन्निरन्तरमभिमन्त्रिता ये सिद्धार्थकाः सर्षपास्तेषामाहतिः प्रक्षेपस्तया धावितैस्त्वरया प्रचलितैः पिशाचगृहीतैः पिशाचाविष्टैः करतलताडनेन हस्ततलास्फोटनेन निविडीकृतं दृढीकृतं श्रवणपुटं कर्णकोटरं यस्य स तेन । एतेन पिशाचावेशविद्यावत्त्वं सूचितम् । अवेति । अवैमुक्तस्त्यक्तः शैवाभिमानोऽहमेव शैवो नान्य इति भावो येन । दुरिति । दुःखेनं गृहीता यालाबुवीणा तस्या वादनेनोद्वेजिता उद्वेगं प्रापिता ये पथिका अध्वगास्तैः परिहृतेन त्यक्तेन । दिवसेति । दिवस एव न तु रात्रौ मशकानां क्वणितं शब्दितं तदनुकारि किमप्यनिर्वचनीयं कम्पितोत्तमाङ्गं यथा स्यात्तथा गाया गानं कुर्वता । स्वदेशेति । स्वदेशस्य सौवजनपदस्य या भाषा वाणी तया निबद्धं गुम्फितं यद्भागीरथी गङ्गा तस्या भक्तिस्तोत्रं तेन नर्तकेन नृत्यकारिणा । स्तोत्रं पठन्नेव नृत्यतीत्यर्थः । गृहीतेति । गृहीतं स्वीकृतं तुरगाणां ब्रह्मचर्यम् । प्रतिबन्धवशात् । न तु वैराग्येणेति । तस्य भावस्तत्ता तयान्येभ्यो देशेभ्यो जनपदेभ्य आगताः प्राप्ता उषिताश्च तासु जरन्त्योऽपि याः प्रव्रजिता आत्तव्रतास्तासु बहुकृत्वो बहुवारं संप्रयुक्तं स्त्रीवशीकरणस्य चूर्णं येन । एतेन महाकामुकत्वं सूचितम् । अतीति । अतिरोषणस्य भावा कदाचिद्दुर्न्यस्ता विषमस्थापिता याष्टपुष्पिका सोलिका तस्याः पातेनोत्पादितः क्रोधो यस्य स तेन । निःशङ्क - टिप्प० - 1 संजातो धातुवादः (ताम्रादीनां सुवर्णादिकरणव्यतिकरः) एव वायुरोगो यस्य । 2 चिपिटीकृतम् । 3 'अवमुक्त' इति पाठो न हिविवक्षासंगतः । 'अविमुक्त' इत्येव पाटः, न विमुक्तः न त्यक्तः अहंकारो येनेति तदर्थः । 5 दुर्गृहीता वादनकालिकग्रहणप्रकारं विरहस्य परिधृता । 5 द्रविडदेशस्य । पूर्वभागः । पाठा० - १ महापाशुपत. २ मन्त्रसाधनसंग्रहेण ३ प्रहतिप्रधावितैः ४ चिपिटीकृत. ५ श्रवणनासापुटेनाप्ययुक्त. ६ दिवसमशकक्वणितानुकारिणा स्वरेण ७ आगतासु. ८ प्रब्राजिकासु. (जरद्रविडधार्मिकवर्णनम् 461

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494