Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 473
________________ तरलोचनाञ्जनदानादरश्लक्ष्णीकृतदारुशलाकेन, प्रत्यह कटुकालाबुस्वेदप्रारब्धदंतुरताप्रतीकारेण, कथंचिदस्थानदत्तेष्टकाप्रहारतया शुष्कैकभुजोपशान्तमर्दनव्यसनेन, उपर्युपर्यविश्रान्तकटुवर्तिप्रयोगवर्धिततिमिरेण, अश्मभेदसंगृहीतवराहदंष्ट्रेण, इङ्गदीकोषकृतौषधाञ्जनसंग्रहेण, सूचिस्यूतशिरासंकोचितवामकराङ्गुलिना, कौशेयककोशावरणक्षतिव्रणितचरणाङ्गुष्ठकेन, असम्यकृतरसायनानीताकालज्वरेण, जरां गतेनापि दक्षिणापथाधिराज्यवरप्रार्थनाकदर्थितदुर्गेण, दुःशिक्षितश्रवणादिष्टतिलकाबद्धविभवप्रत्याशेन, हरितपत्ररसाङ्गारमषीमलिनशम्बूकवाहिना, पट्टिकालिखितदुर्गास्तोत्रेण, धूमरक्तालक्तकाक्षरतालपत्रकुंहकतन्त्रमन्त्र - *********** त्रिकालं कालत्रये इतरस्मिन् एकस्मिल्लोचने यदजनदानं तदर्थमादर आग्रहस्तेन श्लक्ष्णीकृता दारुशलाका येन । पुनः पुनर्नेत्राञ्जनसंबन्धेन दारुशलाकापि श्लक्ष्णीकृतात्यन्तमृदुतामापादितेत्यर्थः । एतेन निरवधिकदेवानां प्रियता दर्शिता । प्रत्यहमिति । प्रत्यहं निरन्तर कटुक यदलाबु तुम्बीफलं तस्य यः स्वेदस्तनिःसृतं जलं तेन प्रारब्धा दन्तुरतोबतदन्तता तस्याः प्रतीकारश्चिकित्सा येन । आमवातजडीकृतदेहस्य तैलविशेषमर्दनानन्तरं कारजाग्नितप्तेष्टिकाना प्रहारः क्रियते । तमधिकृत्याह - अस्थानेति । यत्राग्नितप्तेष्टिकाप्रहार उक्तो नास्ति तस्मिन्नङ्गे, अत एवास्थाने दत्तो य इष्टिकाप्रहारस्तस्य भावस्तत्ता तया । शुष्केति । अचिकित्सित एकस्मिन्भुज उपशान्तं निष्ठाप्राप्त मर्दनव्यसनं यस्य स तेन । कुत्सिततैलप्रयोगवशाहीपालोके सत्यप्यन्धकार एवेत्यधिकृत्याह - उपर्युपरीति । उपर्युपर्यविश्रान्तं निरन्तरं कटुकवर्तिप्रयोगेण वर्धितं तिमिरं येन । अश्मेति । अश्मभेदार्थं प्रस्तरखण्डार्थं संगृहीता आत्ता वराहाणां वनक्रीडानां दंष्ट्रा येन । इङ्गुदीति । इगुदी तापसद्रुमस्तस्य कोषः फलं तन्मध्ये कृत औषधाञ्जनयोः संग्रहो येन । तत्र स्थापितस्यौषधाजनादेविशेषगुणकारित्वादि युक्तं । महासाहसिकत्वमप्याह - सूचीति । सूच्या सीवन्या स्यूता प्रोता या शिरा । प्रकोष्ठसंबन्धिनीति शेषः । तया संकोचं प्रापिता वामकराङ्गुल्यो येनैतादृशविकृताङ्गप्रदर्शनेन लोकानामद्भुतमिदमिति बुद्धिजननात्पुनरपि तदेवाह - कौशेयकेति । कौशेयकस्य कृमिकोशोत्थस्य कोशः कृमिगृह तस्यावरणमावेष्टनं तस्माद्या क्षतिः संघृष्टिस्तया व्रणितश्चरणाङ्गुष्ठो यस्य स तेन । असम्यगिति । न सम्यकृतमनभिज्ञत्वाद्रसायनं पारदकलङ्कादिकम् । बहुद्रव्यव्ययेनापि कार्यसिद्धेरभावात् । तेनानीतः प्रापितः कालज्वरो मरणपर्यवसायितापो यस्य स तेन । अनेन मुमूर्षोरपि वैराग्यं नोत्पद्यत इति लोभातिशयो व्यज्यते । जरेति । जरां गतेनापि विससा प्राप्तेनापि दक्षिणापथस्य यदधिराज्यमाधिपत्यं तस्य वरप्रार्थना तया कदर्थितोद्विग्नीकृता दुर्गा भवानी येन । दुःशिक्षितेति । दुर्दुष्ट शिक्षितं तस्य श्रवणादाकर्णनादिष्टेऽभिमतस्थानवर्तिनी तिलके कालके । 'तिलकः कालकः पिप्लुर्जडुलस्तिलकालकः' इति कोशः । तस्मिन्नाबद्धा मनसि निश्चिता विभवस्यैश्वर्यस्य प्रत्याशा प्राप्तिवाञ्छा येन । हरितेति । हरितपत्राणां नीलपलाशानां रसेन कृत्वा योऽङ्गारस्य मषी मसी तया मलिनो यः शम्बूकः शङ्खस्तद्वाहिना । एतेन यत्किंचिल्लिखनव्यसनता सूचिता । पट्टिकेति । पट्टिकायां लिखितं लिपीकृतं दुर्गास्तोत्र यस्य येन वा स तेन । धूमेति । धूमवद्रक्तान्यलक्तस्य यावकस्याक्षराणि येष्वेवंविधानि तालपत्राणि - टिप्प० - 1 एक नेत्रं तु सिद्धाञ्जनाभासेन लुप्तमेव, उन्मीलिते द्वितीये लोचने तु शोभायै तन्त्रनियमाद्वा साधारणकज्जलम् (न तु सिद्धाञ्जनम्) इयद्दीयते येन प्रत्यहघर्षणात् दारुशलाका ('सलाई)पि श्लक्ष्णा जातेति सर्वस्याशयः । 2 आमवातकृतजाड्यवशादनेन अग्नितप्तेष्टकाप्रहारः प्रारब्धः, परं स ह्यस्थाने जातः । अत एव स हस्तः शुष्को जातः । अत एव वातो विनष्ट इति मत्वा अनेन तैलमर्दनाग्रहस्त्यक्त इत्याशयः । 3 नेत्ररोगविशेषः । आन्ध्यनाशाय कटुवर्तिप्रयोगः इयत्कृतो येन नेत्रमन्दत्वमधिकं जातमित्यर्थः । 4 'श्रमणाऽऽदिष्ट' इत्येव पाठः । दुःशिक्षितेन प्राप्तकुशिक्षण श्रमणेन संन्यासिविशेषेण आदिष्टे तिलके (सिद्धौषधिजनिते ललाटबिन्दौ) इति तदर्थः । 5 धूमेन रञ्जितानि अलक्तकलिखितान्यक्षराणि येषु । - - - - पाठा० - १ आरब्ध. २ कथचिच्छुष्क. ३ कोशक. ४ रक्षित. ५ श्रमण. ६ कृतकुहकतन्त्रयन्त्रमन्त्र. (460 कादम्बरी। कथायाम्

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494