Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
________________
जनकथाकीर्तनेषु स्मर्तव्यः खलु चन्द्रापीडः । चण्डालो मा चैवं मंस्थाः, यथा जीवन्पुनर्देवीचरणारविन्दवन्दनानन्दमननुभूय स्थास्यति चन्द्रापीड इति । महाश्वेतायाश्च सप्रदक्षिणं शिरसा पादौ वन्दनीयौ । मदलेखायाश्च कथनीयः प्रणामपूर्वमशिथिलः कण्ठग्रहः । गाढमालिङ्गनीया च तमालिका । अस्मद्वचनादशेषः प्रष्टव्यः कुशलं कादम्बरीपरिजनः, रचिताञ्जलिना च भगवानामन्त्रणीयो हेमकूटः' इति । एवमादिश्य तम्, 'सुहृदादिसाधनमक्लेशयता शनैः शनैर्गन्तव्यम्' इत्युक्त्वा वैशम्पायनं स्कन्धावारभरे न्ययुङ्क्त । स्वयमपि च तथारूढ एव गमनहेलाहर्षहेषारवकम्पितकैलासेन खुरताण्डवखण्डितभुवा कान्तकुन्तलतावनवाहिना तरूणतुरगप्रायेणाचसैन्येनानुगम्यमानस्तमेव लेखहारक पर्याणलग्नमभिनवकादम्बरीवियोगशून्येनापि हृदयेनोज्जयिनीमार्गं पृच्छन्प्रतस्थे ।
क्रमेण चातिप्रवृद्धप्रकाण्डपादपप्रायया, मालिनीलतामण्डपैर्मण्डलिततरुखण्डया, वनगज -
***********
गच्छति । तथा प्रसङ्गतो जनकथा सौव(सेव्य) सेवककथा तस्यां कीर्तनेषु नामोच्चारणेषु खलु निश्चयेन चन्द्रापीडः स्मर्तव्यः स्मरणीयः । अयं चण्डालः कृतघ्नत्वादेवं मा मंस्था मा जानीयाः । यथा जीवन्पुनश्चन्द्रापीडो देव्याः कादम्बर्याश्चरणारविन्दस्याङ्घ्रिपद्मस्य वन्दनं नमस्करणं तस्माद्य आनन्दः प्रमोदस्तमननुभूयानुभवविषयीकृत्य स्थास्यति । अत्र काकुः । न स्थास्यतीत्यर्थः । इति महाश्वेतायाश्च सप्रदक्षिणं प्रदक्षिणासहितं यथा स्यात्तथा शिरसा मस्तकेन पादौ वन्दनीयौ नमस्करणीयौ । तथा मदलेखायाश्च प्रणामो नमस्कारस्तत्पूर्वकमशिथिलः कण्ठग्रहः कथनीयो वाच्यः । तथा गाढमत्यर्थमालिङ्गनीया परिरम्भणीया च तमालिका । अशेषः समग्रः कादम्बरीपरिजनोऽस्मद्वचनात्कु. शलं श्रेयः प्रष्टव्यः । रचिताञ्जलिना च त्वया भगवान्हेमकूटः ना(आ)मन्त्रणीय आमन्त्रणीय इति पूर्वोक्तया दिशादिश्यादेशं दत्त्वा न मेघनादम्, सुहृदादिसाधनं मित्रादिसैन्यमक्लेशयता खेदयता त्वया शनैः शनैर्गन्तव्यमित्युक्त्वा वैशम्पायनं स्कन्धावारभरे न्ययुक्त नियोजितवान् । स्वयमपि च तथा पूर्वोक्तप्रकारेणारूढ एव गमनलक्षणा या हेला तया हर्षः तस्य हेषारवस्तेन कम्पितः कैलासो येन । खुरेति । खुरताण्डवेन खण्डिता भूर्येन स तेन । कान्तेति । कान्ता मनोहरा ये कुन्ता भल्लाः सरलत्वसाम्यात्त एव लतास्तासां वनं तद्वाहिना । तरुण इति । तरुणा नव्यास्तुरगाः प्रायेण बाहुल्येन यस्मिन्नेवंविधेनाश्चसैन्येनानुगम्यमानस्तमेव पूर्वोक्तमेव लेखहारकं पर्याणं पल्ययनं तत्र लग्नम् । अभीति । अभिनवः प्रत्यग्रो यः कादम्बरीवियोगस्तेन शून्येनापि हृदयेनोज्जयिनीमार्ग पृच्छन्प्रतस्थे चचाल ।
क्रमेण चेति । स चन्द्रापीडः क्रमेण परिपाट्या शून्ययाऽटव्या दिवसं गत्वा वासरमतिक्रम्य । परीति । परिणतं रक्तं रविबिम्ब यस्मिन्नेवभूते वासरे सायंसमयेऽटवीक्षेत्रैर्विरलीकृतो यो वनप्रदेशस्तस्मिन् । चिरेति । चिरप्ररुढस्य । बहुकालीनस्येत्यर्थः । रक्तचन्दनतरोः पत्राङ्गवृक्षस्योपरि महान्तं रक्तध्वजं पुरत एव ददर्शेत्यन्वयः । इतोऽटव्या विशेषणानि - अतीति । अतिप्रवृद्धोऽतिवृद्धिं प्राप्तः प्रकाण्डः स्कन्धो येषामेतादृशाः पादपा वृक्षाः प्रायो बाहुल्येन यस्यां सा तया । मालीति । मालिनीसंज्ञिता या लता वल्लयस्तासां मण्डपैर्मण्डलिताश्चक्रवालितास्तरुखण्डा वृक्षसमूहा यस्यां सा तया । वनेति । वनस्य यो गजपति!थनाथस्तेन पातिता भग्ना ये पादपा वृक्षास्तेषां परिहारो वर्जन तन्निमित्तकप्रतिबन्धवशाद्वक्रीकृतो मार्गः पन्था -
पाठा० - १ असज्जन. २ चन्द्रापीडचण्डालः. ३ सुहृदापि साधनम्. ४ आगन्तव्यम्. ५ भूमण्डलेन. ६ वार्ताम्.
452
कादम्बरी।
कथायाम्
TOS
Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494