Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 469
________________ ह्यमानलोहितलोचनेन लोहमहिषेणाध्यासिताञ्जनशिलावेदिकाम्, क्वचिद्रक्तोत्पलैः शबरनिपातितानां वनमहिषाणामिव लोचनैः क्वचिदंगस्तिकुड्मलैः केसरिणामिव करजैः क्वचित्किंशुककुसुमकुड्मलैः शार्दूलानामिव सरुधिरैर्नखरैः कृतपुण्यपुष्पप्रकराम्, अन्यत्राङ्कुरितामिव कुटिलहरिणविषाणकोटिकूटैः पल्लवितामिव सरसजिह्वाच्छेदशतैः कुसुमितामिव रक्तनयनसहजैः फलितामिव मुण्डमण्डलैः उपहारहिंसां दर्शयन्तीम्, शाखान्तरालनिलीनरक्तकुक्कुटकुलैः श्वभयादकालदर्शितकुसुमस्तबकैरिव रक्ताशोकविटपैविभूषिताङ्गणाम्, बलिरुधिरपानतृष्णया समागतैश्च वेतालैरिव तालैर्दीयमानफलमुण्डोपहाराम्, शङ्काज्वरकम्पितैरिव कदलिकावनैर्भयोत्कण्टकितैरिव श्रीफलतरुखण्डैस्त्रासोर्ध्वकेशैरिव खजूरवनैः समन्ताद्गहनीकृताम्, वनकरिकुम्भविदलितरक्तमुक्ताफलानि रुधिरारुणानि बलिसिक्थलुब्धमुग्धकृकवाकुग्रस्तमुक्तानि विकिरद्भिरम्बिकापरिग्रहदुर्ललितैः क्रीडद्भिः केसरिकिशोरकैरशून्योद्देशाम्, प्रभूतरुधिरदर्शनोद्भूतमूर्छाप - *********** विलिह्यमाने आस्वाद्यमाने लोहिते लोचने नेत्रे यस्य स तेन । क्वचिदिति । कस्मिंश्चित्प्रदेशे शबरनिपातितानां भिल्लव्यापादितानां वनमहिषाणां लोचनैरिव नेत्रैरिव रक्तोत्पलैः कोकनदैः । क्वचित्केसरिणां कण्ठीरवाणां करजैर्नखैरिवागस्तिकुड्मलैर्मुनिवृक्षमुकुलैः । क्वचिदिति । क्वचिच्छार्दूलानां द्वीपिनां सरुधिरैर्नखरैरिव किंशुको ब्रह्मपादपस्तस्य कुसुमकुड्मलैः कृतो विहितः पुण्यः पवित्रः पुष्पप्रकरो यस्यां सा ताम् । अन्यत्रेति । अन्यस्मिन्स्थले कुटिलानि वक्राणि हरिणविषाणानि मृगश्रृङ्गाणि तेषां कोटयस्तासां कूटैः समूहैरङ्कुरितामिव प्ररोहितामिव । सरसेति । सरसा या जिह्वा रसनास्तासां छेदशतैः पल्लवितामिव किसलयितामिव । रक्तेति । रक्तानि नयनसहसाणि तैः कुसुमितामिव पुष्पितामिव । मुण्डमण्डलैः फलितामिव संजातफलामिव । उपेति । उपहारहिंसां बलिप्रमथनं दर्शयन्ती प्रकटयन्तीम् । चण्डिकायाः संमुखवेदिकां वर्णयित्वाङ्गणं वर्णयन्नाह - शाखेति । श्वभयात्कौलेयकभीतेः शाखान्तराले शाखाविचाले निलीनानि मध्यप्रविष्टानि यानि रत्ककुक्कुटकुलानि लोहितताम्रचूडपटलानि येष्वेवंविधैरकाले दर्शितकुसुमस्तबकैरिव रक्ताशोकविटपैलॊहितकङ्केल्लिवृक्षैर्विभूषितं शोभितमङ्गणमजिरं यस्याः सा ताम् । बलेरुपहारस्य रुधिरपानं रक्तास्वादनं तस्य तृष्णया गर्धेन समागतैः. तालैः । उच्चत्वसाम्येनाह - वेतालैरिति । तालफलाना मस्तकसाम्येनाह - दीयमानेति । दीयमानानि फलान्येव मुण्डानि शिरांसि तान्येवोपहारो बलिय॑स्यै सा लकावने कम्पातिशयं बिल्वखण्डे कण्टकातिशयं खर्जरीवन ऊर्ध्वपत्रातिशयं व्यजयितमत्प्रेक्षते -शङकेति । शङ्का पशुवधदर्शनजनिता तस्या यो ज्वरस्तापस्तेन कम्पितैरिव कदलिकावनै रम्भाकाननैः, भयेन भीत्योत्कण्टकितैरिव संजातरोमाञ्चैरिव श्रीफलतरुखण्डैः त्रासेन भयेनोर्ध्वं केशा येषामेवंविधैरिव खर्जूरवनैः समन्ताद् गहनीकृताम् । सर्वतो व्याप्तामित्यर्थः । पुनः प्रकारान्तरेण तामेव विशेषयन्नाह - वनेति । वनकरिणा काननहस्तिनां कुम्भेभ्यो विदलितानि विनिर्गतानि रक्तमुक्ताफलानि । कीदृशानि । रुधिरेण रक्तेनारुणानि लोहितानि । पुनः कीदृशानि । बलिसिक्थेषूपहारकणेषु लुब्धा आसक्ता मुग्धा ये कृकवाकवस्ताम्रचूडास्तैः पूर्वं ग्रस्तानि गृहीतानि पश्चान्मुक्तानि तानि विकिरद्भिरितस्ततो विक्षिपद्भिः । अम्बिकायाः भैरव्याः परिग्रहेण स्वीकारेण दुर्दुष्टं ललितं चेष्टितं येषां तैः क्रीडद्भिः क्रीडां कुर्वद्भिः केसरिकिशोरकैर्नखरायुधबालकैरशून्य उद्देशः प्रदेशो यस्याः सा ताम् । - - - - - - - - - - - - - - - - -- -- टिप्प० - 1 रुधिरपानतृष्णयासमागतैस्तालैरित्यन्चयोऽशुद्धः । ...समागतैर्वेतालैरिव तालैरित्युचितम् । 2 रुधिराक्ततया पूर्वं गृह्णद्भिस्ततो मासाद्यभावात्परित्यजद्भिरित्याशयः । 3 चण्डिकायाः । पाठा० - १ लोहित. २ अगस्त्यतरुकुमलैः; अगस्तिकुसुमकुड्मलैः. ३ प्रकरोपहाराम्. ४ निरन्तरनिलीन. ५ तृष्णासमागतैः. ६ खजूर खर्जुर. ७ विदलितवनकरिकुलकुम्भविदलितमुक्ताफलानि. ८ नवरुधिरारुणबलि. (456 कादम्बरी। कथायाम

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494