Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 463
________________ चुम्बिन्युत्तमाङ्गे चुम्बन्नन्दयति । कुशलिन्यः प्रजाः । किं नु कियानपि कालो भवतो दृष्टस्य गतः । बलवदुत्कण्ठितं नो हृदयम् । देवी च सहान्तःपुरैानिमुपनीता । अंतो लेखवाचनविरतिरेव प्रेयाणकारणतां नेर्तव्या' इति । शुकनासप्रेषिते द्वितीयेऽप्यमुमेवार्थं लिखितमवाचयत् । अस्मिन्नेवावसरे समुपसृत्य वैशम्पायनोऽपि लेखद्वितयमपरमात्मीयमस्मादभिन्नार्थमेवादर्शयत् । अथ 'यथाज्ञापयति तातः' इत्युक्त्वा तथैव च तुरगाधिरूढः प्रयाणपटहमदापयत् । समीपे स्थितं च महताश्चीयेन परिवृत महाबलाधिकृतं बलाहकपुत्र मेघनादनामानमादिदेश - "भवता पत्रलेखया सहागन्तव्यम् । नियतं च केयूरकस्तामादायैतावती भूमिमागमिष्यतीति, तन्मुखेन विज्ञाप्या प्रणम्य देवी कादम्बरी - 'नन्वियं सा त्रिभुवननिन्दनीया निरनुरोधा निष्परिचया दुर्ग्रहा प्रकृतिमानां येषामकाण्डविसंवादिन्यः प्रीतयो न गणयन्ति निष्कारणवत्सलताम् । एवं गच्छता मयात्मनो नीतः स्नेहः कपटकूटजालिक - *********** मरीचिचक्रं शिरोमणिदीप्तिपटलं तञ्चुम्बिन्युत्तमाङ्गे शिरसि चुम्बंधुम्बनं कुर्वनन्दयति प्रमोदयति । प्रजाः प्रकृतयः कुशलिन्यो मङ्गलवत्यः सन्ति । किं न्विति । किं नु भवतो दृष्टस्य कियानपि कालः समयो गतो व्यतीतः तेन नोऽस्माकं बलवत्युत्कण्ठोत्कलिका जाता यस्मिन्नेतादृशं हृदयमस्ति । देवी च तवाम्बा सहान्तःपुरैम्लानिमुपनीता प्रापिता । अत्र सहान्तःपुररित्यनेनोपमातरोऽपि त्वां समीहन्त इति सौजन्यातिशयः सूचितः । अतो हेतोर्लेखवाचनस्य विरतिरेवावसानमेव प्रयाणकारणतां प्रस्थाननिमित्ततां नेतव्या प्रापणीया । शुकनासेन प्रेषिते द्वितीयेऽपि लेखेऽमुमेवार्थं लिखितं लिपीकृतमवाचयदपठत् । अस्मिन्नेवावसरे समये समुपसृत्य समीपमागत्य वैशम्पायनोऽप्यपरमात्मीयं लेखद्वितयमस्मात्स्वकीयलेखादभिन्नार्थमेकाभिधेयमेव, अदर्शयद्दर्शितवान् । अथेति । तद्वाचनानन्तरं यथाज्ञापयति यथाज्ञां दत्ते तातः पिता । इत्युक्त्वा तथैव पूर्ववदेव तुरगाधिरूढः प्रयाणपटहं प्रयाणभेरीमदापयद्दापितवान् । समीपे स्थितं महताश्चीयेन बलेन परिवृतं महाबलं सैन्यं तत्राधिकृतं नियुक्तं बलाहकस्य पुत्र मेघनादनामानमादिदेशादिष्टवान् । भवता त्वया पत्रलेखया सहागन्तव्यं समेतव्यम् । नियतं निश्चित केयूरकस्तां पत्रलेखामादाय गृहीत्वैतावती भूमिमागमिष्यतीति तन्मुखेन केयूरकमुखेन प्रणम्य देवी कादम्बरी विज्ञाप्या विज्ञप्तिविषयीकरणीया । नन्विति वितर्के । तेषां मर्त्यांना या निरनुरोधा निर्गतः कस्याप्यनुरोधः स्वकार्यप्रतिबन्धो यस्या, निर्गतः परिचयः संख्यानुवृत्तिर्यस्याम् । दुर्ग्रहेति । दुर्दुष्टो ग्रह आग्रहो हठो यस्यामेवंविधा प्रकृतिः स्वभावः सा प्रकृतिस्त्रिभुवननिन्दनीया स्यात् यत्तदोर्नित्याभिसंबन्धाद्येषां मर्त्यानामकाण्डेऽप्रस्तावे विसंवादिन्यो व्यभिचारिण्यः प्रीतयो निष्कारणवत्सलतां निर्निमित्तहितकारितां न गणयन्ति न मनस्यानयन्ति । एवममुना प्रकारेण गच्छता व्रजता मयात्मनः स्नेहः स्वकीया प्रीतिः कपट कैतवं तस्य कूटजालिका मिथ्याप्रपञ्चस्तद्रूपतां नीतः प्रापितः । भक्तिराराध्यत्वेन ज्ञानं वा साप्यलीका मिथ्या या - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 'किन्तु इत्युचितः पाठः । 'सर्वं कुशलं किन्तु...' इति तदर्थः । 2 वाचनावसानं न कारणम्, अतः 'प्रयाणकालताम्' इत्युचितः पाठः । 3 इति शब्दोत्र नोचितः। 4 परिज्ञानम् । 5 कपटः (कपटकारी) यः कुटजालिकः असत्यव्यवहारवान् तद्धावस्ताम् । पाठा० - १ भवतोत्कृष्टस्य गतः; भवतो गतस्य. २ देवीसमेतं नो हृदयम्. ३ यतस्ततः. ४ अविरतिरेव. ५ प्रयाणकालताम; प्रयाणकालता. ६ कल्याणिना नेतव्या. ७ अवादयत्. ८ समीपस्थितम्, समीपावस्थितम्. ९ महता श्वेताश्चीयेन. 450 कादम्बरी । कथायाम

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494