Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
________________
न्दुपातेन वर्तते । मुक्ताभरणतां गृहाण । स्वयंवरार्हाणि प्रसाधनानि । कुसुमशिलीमुखान्तर्हिता शोभते यथा लता' इति ।
अथ कादम्बरी बालतया स्वभावमुग्धापि कंदर्पेणोपदिष्टयेव प्रज्ञया तमशेषमस्याव्यक्तव्याहारसूचितमर्थं मनसा जगाह । मनोरथानां तु तावतीं भूमिमसंभावयन्ती शालीनतां चावलम्बमाना तूष्णीमेवासीत् । केवलमुत्पादितान्यव्यपदेशा तत्क्षणं तमाननामोदमघुकरपटलान्धकारितं मुखं द्रष्टुमिव स्मितालोकमकरोत् । ततो मदलेखा प्रत्यवादीत् 'कुमार, किं कथयामि । दारुणोऽयमकथनीयः खलु संतापः । अपि च कुमारभावोपेतायाः किमिवास्या यन्त्र संतापाय । तथा हि । मृणालिन्याः शिशिरकिसलयमपि हुताशनायते । ज्योत्स्नाप्यातपायते । ननुं किसलयतालवृन्तवातैर्मनसि जायमानं किं न पश्यति भवान्खेदम् । धीरत्वमेव प्राणसंधारणहेतुरस्याः' इति । कादम्बरी तु हृदयेन तमेव मदलेखालाप
***********
त्यर्थः । एतेनाश्रुपातस्य नैरन्तर्यं सूचितम् । मुक्तानामाभरणानि तेषां भावे मुक्ताभरणता तां गृहाण स्वीकुरु । स्वयमात्मना वराणि प्रधानान्यर्हाणि योग्यानि प्रसाधनानि प्रतिकर्माणि । कुर्विति क्रियाध्याहारः । कुसुमानि पुष्पाणि, शिलीमुखा भ्रमराः; ताभ्यामन्तर्हिताच्छादिता यथा लता वल्ली शोभते राजते तथा त्वमपीति भावः । शुक्लत्वसाम्यान्मुक्तानां कुसुमसाम्यम्, नेत्राञ्जनस्य कृष्णत्वसाम्याद्भ्रमरसाम्यमिति भावः ।
-
अथेति । तदनन्तरं कादम्बरी बालतया शिशुतया स्वभावेन मुग्धापि सरलाशयापि कंदर्पेण मदनेनोपदिष्टयेव दर्शितयेव प्रज्ञा शे समग्रमव्यक्तव्याहारोऽस्फुटभाषितं तेन सूचितं ज्ञापितमुपभोगविषयकं रहः संगमरूपं वार्थं मनसा जग्राह गृहीतवती । मनोरथानां त्वभिलाषाणां तु तावतीं भूमिं संगमरूपलक्षणामसंभावयन्त्यवितर्कयन्ती शालीनेतां दृष्टतां चावलम्बमाना । 'दृष्टेः शालीनशारदी' इति कोशः । तूष्णीमेवासीत् । केवलमुत्पादितोऽन्यव्यपदेशो मिषं ययैवंभूता तत्क्षणमाननस्यामोदस्तस्माद्यन्मधुकरपटलं तेनान्धकारितमन्धकारवदाचरितं मुखमाननं द्रष्टुमिव स्मितालोकं स्मितलक्षणमालोकं प्रकाशमकरोत् । स्मितेन दन्तज्योत्स्नाया बहिर्निर्गमेन प्रकाशसंभवात् । ततो मदलेखा प्रत्यवादीत् । कुमार, किं कथयामि किं ब्रवीमि । अयं दारुणस्तीव्रोऽकथनीयो वक्तुमशक्यः खलु निश्चयेन संतापः । अपि चेति युक्त्यन्तरे । कुमारभावोपेताया अस्याः किमिव यन्न संतापाय भवति । तदेव दर्शयति तथा हीति । मृणालिन्याः कमलिन्याः शिशिरकिसलयमपि हुताशनायते वह्निवदाचरति । ज्योत्स्नापि चन्द्रिकाप्यातपायते सूर्यालोकायते । नन्विति वितर्के । किसलयानि पल्लवास्त एव तालवृन्तानि तेषां वातैः पवनैर्मनसि जायमानं खेदं भवान्कि न पश्यति । अतोऽस्याः कादम्बर्या धीरत्वमेव प्राणसंधारणे जीवितधारणे हेतुर्निमिमिति । कादम्बरी तु हृदयेन तमेव पूर्वोक्तमेव मदलेखालापं मदलेखाजल्पितमस्य चन्द्रापीडस्य प्रत्युत्तरीचकार । प्रतिवचः प्रादादित्यर्थः ।
. टिप्प० 1 शालीनपदस्य अधृष्टः (विनीतः ) इत्यर्थः, 'स्यादधृष्टे तु शालीनः' इत्यमरः । 2 अस्मिन्नर्थे 'तमाननामोद' इति 'तम्' अनन्वितं भवति । वस्तुतस्तु 'मुखम्' इति नास्त्येव । मधुकरपटलान्धकारितं तम् (चन्द्रापीडम् ) द्रष्टुमिव स्मितालोकमकरोदिति पाठेऽस्मिन्स्पष्टोऽर्थः । 3 कुमारभावोपेतायाः ( कौमार्ययुक्ततया सुकुमारायाः) अस्याः सर्व संतापायेति प्रकटोऽर्थः । कुमारे (अर्थात् त्वयि ) भावोपेताया अनुरक्तायाः अथवा कुत्सितो मारो यस्मादीदृशे त्वयि किं वा कुत्सितो यो मारः तस्य भावोपेताया आवेशक्रियां प्राप्तायाः अस्याः विरहोद्दीपकतया सर्वमपि वस्तुजातं तापायेति व्यङ्ग्योर्थः । 4 हे धीर ! त्वमेव संप्रति अस्याः प्राणसंधारणे हेतुः, त्वां प्राप्यैव सेयं जीवितुं शक्नुयादिति गूढोऽर्थः ।
पाठा० - १ मङ्गलप्रसाधनानि २ सकुसुमशिलीमुखा हि शोभते नवा लता. ३ सुकुमार. ४ ननु किसलय. ५ पश्यसि. ६ कादम्बरीहृदयेन.
448
कादम्बरी |
कथायाम्
Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494