Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 459
________________ चन्द्रापीडस्तु समुपसृत्य पूर्ववदेव तां महाश्वेताप्रणामपुरःसरं दर्शितविनयः प्रणनाम । कृतप्रतिप्रणामायां च तस्या पुनस्तस्मिन्नेव कुसुमशयने उपविष्टायां प्रतीहोर्योपनीतां जाम्बूनदमयीमासन्दिका रोचिष्णुरत्नप्रत्युप्तपादां पादेनैवोत्सार्य क्षितावेवोपाविशत् । अथ केयूरकः 'देवि, देवस्य चन्द्रापीडस्य प्रसादभूमिरेषा पत्रलेखा नाम ताम्बूलकरङ्कवाहिनी' इत्यभिधाय पत्रलेखामदर्शयत् । अथ कादम्बरी दृष्ट्वा ताम् 'अहो, मानुषीषु पक्षपातः प्रजापतेः' इति चिन्तयांबभूव । कृतप्रणामां च तां सादरम् ‘एोहि' इत्यभिधायात्मनः समीपं सुकुतूहलपरिजनदृश्यमानां पृष्ठतः समुपावेशयत् । दर्शनादेवोपारूढप्रीत्यतिशया च मुहुर्मुहुरेना सोपग्रहं करकिसलयेन पस्पर्श । चन्द्रापीडस्तु सपदि कृतसकलागमनोचितोपचारस्तदवस्था चित्ररथतनयामालोक्याचिन्तयत् - 'अतिदुर्विदग्धं हि मे हृदयमद्यापि न श्रद्दधाति । भवतु । पृच्छामि तावदेनाम्' इति निपुणालापेनातिप्रकाशमब्रवीत् - 'देवि, जानामि कामरतिं निमित्तीकृत्य प्रवृत्तोऽयम - *********** तदनन्तरं चन्द्रापीडस्तु समुपसृत्योपसर्पणं कृत्वा पूर्ववदेव महाश्वेताप्रणामपुरःसरं तां कादम्बरी दर्शितविनयः प्रणनाम नमश्चक्रे । तदनन्तरं कृतो विहितः प्रतिप्रणामोऽनुनमस्कारो ययैवंविधायां च तस्यां पुनस्तस्मिन्नेव कुसुमशयन उपविष्टायामासेदुष्यां प्रतीहार्या द्वारपालिकयोपनीतामानीता जाम्बूनदमयीमासन्दिका वेत्रासनम् । 'स्यावेत्रासनमासन्दी' इत्यभिधानकोशः । कीदृशैः । रोचिष्णुरत्नैः प्रत्युप्ताः पादा यस्याः सा तां पादेनैव चरणेनैवोत्सार्य दूरीकृत्य क्षितावेव पृथिव्यामेवोपाविशदुपविष्टः । अथेति । उपवेशनानन्तरं केयूरको हे देवि, देवस्य पूज्यस्य चन्द्रापीडस्य प्रसादभूमिः प्रसन्नताधरित्र्येषा पत्रलेखा नाम ताम्बूलकरङ्कवाहिनीत्यभिधायेत्युक्त्वा पत्रलेखामदर्शयद् दृग्विषयतामप्रापयत । अथेति । दृग्विषयीकरणानन्तरं कादम्बरी तां दृष्ट्वा विलोक्य चिन्तयांबभूवेति चिन्तितवती । इतिशब्दद्योत्यमाह - अहो इति । प्रजापतेर्विधातुरहो मानुषीषु पक्षपातोऽङ्गीकारः । कृतः प्रणामो नमस्कारो ययैवं भूता च सादरं सबहुमानं एहि एहि इत्यभिधायात्मनः समीपे स्वकीयनिकटे सह कुतूहलेन वर्तमानो यः परिजनः परिवारजनस्तेन दृश्यमानां विलोक्यमानां पृष्ठतः समुपादेशयनिवेशितवती । अथ दर्शनादेव विलोकनादेवोपारूढः प्रादूर्भूतः प्रीतेरतिशय आधिक्यं यस्यां (स्याः) सा मुहुर्मुहुर्वारंवारमेनां पत्रलेखा सोपग्रह सानुकूलनं करकिसलयेन पाणिपल्लवेन पस्पर्श स्पर्श चकार । चन्द्रापीडस्तु सपदि शीघ्र कृतो विहितः सकलः समग्र आगमनस्यागमने वोचितो योग्य उपचारो विनयो येन स तदवस्था विरहविक्लवां चित्ररथतनयां कादम्बरीमालोक्य वीक्ष्याचिन्तयदध्यायत् । हीति निश्चितम् । मे मम हृदयं चेतोऽतिदुर्विदग्धमतिजडं यदद्यापि न श्रद्दधाति न निश्चयं करोति । इयमीदृश्यवस्था किं कामात्, अन्यप्रियनिमित्ताद्वेति प्रकारान्तरस्यासंभवात् । कामनिमित्तकत्वेऽवगतेऽपि विपरीतसंभावनेति दुर्विदग्धपदव्यङ्ग्यम्, अत एव निश्चयानुरोधेनाह - भवत्विति । कामनिमित्तक एवास्तु, परं तावदादावेनां पृच्छामीति कृत्वा निपुणालापेन नातिप्रकाशं नातिस्पष्टमब्रवीदवोचत् । हे देवि कादम्बरि, अहं जानामि कामनिर्वचनीयस्वरूपामरतिं निमित्ती - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 सस्नेहम् । 2 वस्तुतस्तु 'पृच्छामि तावदेनां निपुणालापेनेति' अचिन्तयदित्यस्य कर्मभूतो वाक्यार्थः । निपुणालापेन चतुरजनोचितालापेन (व्यङ्ग्यार्थपूर्णेनेत्यर्थः) एना पृच्छामीति नायकोऽचिन्तयन्मनसि । तदनन्तरं 'प्रकाशमब्रवीत् इति पाठः । अर्थः स्पष्टः । - - - पाटा० - १ समुपविष्टायाम्. २ समुपनीताम्. ३ सकुतूहलं परिजनेन दृश्यमानाम्. ४ मुहुः. ५ इति प्रकाशं वाचम्. ६ जानासि. ७ अविरलसंतापतीव्रः. प [446 IV कादम्बरी । N O कथायाम् Mak११५६२६६२५।।

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494