Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 460
________________ विचलसंतापतन्त्रो व्याधिः । सुतनु, सत्यं न तथा त्वामेष व्यथयति यथास्मान् । इच्छामि देहंदानेनापि स्वस्थामत्रभवतीं कर्तुम् । उत्कम्पिनीमनुकम्पमानस्य कुसुमेषु पीडया पतितामवेक्षमाणस्य पततीव मे हृदयम् । अनङ्गदे तनुभूते ते भुजलते गाँढसंतापतया च दृष्ट्या वहसि स्थलकमलिनीमिव रक्ततामरसाम् । दुःखितायां च त्वयि परिजनोऽपि चानवरतकृताश्रुबि - *********** कृत्यायमविचलो यः संतापस्तस्य तन्त्र आधीन एवंविधोऽपि व्याधिः प्रवृत्तः । हे सुतनु हे कादम्बरि, सत्यमिदं नौपचारिक वचः, त्वामेष व्याधिर्न तथा व्यथयति पीडयति यथास्मान् । देहदानेनाप्यत्रभवती पूज्यां स्वस्थां सज्जा कर्तुमिच्छाम्यभिलषामि । उत्कम्पिनी त्वां प्रत्यनुकम्पमानस्यानुकम्पां कुर्वाणस्य कुसुमेषु कंदर्पस्तस्य पीडया पतितां सस्तामवेक्षमाणस्य पश्यतो मे मम हृदयं चेतः पततीव । कादम्बर्या विरहकाऱ्या प्रकटयन्नाह - अनङ्गदे इति । गाढसंतापतया तनुभूते ते भुजलते अनङ्गदे बाहुभूषणवर्जिते दृष्ट्या कृत्वा रक्ततामरसां स्थलकमलिनीमिव त्वं वहसि । अत्र कृशभुजलतयोम॒णालसाम्यम्, नेत्रयो रक्ततामरससाम्यमिति भावः । त्वयि दुःखितायां सत्या परिजनोऽप्यनवरतं निरन्तरं कृतो योऽश्रुबिन्दुपातस्तेन वर्तते प्रवृत्तो भवती - टिप्प० - 1 वाक्संदर्भस्यास्य व्यङ्गयोऽर्थः प्रकाश्यते । काम् (अनिर्वचनीयाम्) अरतिं निमित्तीकृत्येति प्रकटोऽर्थः । कामरति मदनानुरागमिति व्यङ्गयोऽर्थः । देहदानेन शरीरावसानं कृत्वापि त्वां सुस्था कर्तुमिच्छामीति प्रकटोऽर्थः । रतिकाले देहार्पणेनेति व्यङ्ग्योऽर्थः । अत्र 'सुतनु इति संबोधनमपि रतकालिक सर्वावयवसौन्दर्यं हृदयाकर्षकमभिव्यनक्ति । उत्कम्पिनी व्याधिवशादत्यन्तकम्पवतीं त्वाम् अनु (लक्ष्यीकृत्य) कम्पमानस्य तव कम्पं दृष्ट्वा कम्पयुक्तस्येत्यर्थः । तथा पीडया कुसुमेषु पुष्पेषु पतितां शयितामवलोकमानस्य मे हृदयं पततीव तव कष्टं दृष्ट्वा बहिर्निर्गच्छतीव । इति प्रकटोऽर्थः । उत्कम्पिनी प्रबलकामोदयात्कम्प (सात्त्विकभाव)वतीं त्वाम् अनुकम्पमानस्य रमणद्वारा दयापात्रं कर्तुमिच्छतः, कुसुमेषु(काम)पीडया पतितां शिथिलतनुम् अवेक्षमाणस्य मे हृदय पततीव रमणाय धावतीवेति व्यङ्गयोर्थः । अनङ्गदे इत्यादेः प्रकटोर्थो यथाकथंचित्प्रकटीकृत एव । हे अनङ्गदे (कामवर्धिके !) ते भुजलते कामपीडया तनु (कृशी) भूते, गाढसंतापया दृष्ट्या च स्थले (पद्मिनीचित्रिणीत्यादिनायिकाकीर्णस्थले) कमलिनी पद्मिनीनायिकारूपमात्मानं वहसीव, ररहिताम्, रमणरूपशृङ्गारप्रयोजनरहिताम्) रक्तता अनुरक्तता वहसीव । तीव्रमदनसंतापसूचिकया दृष्ट्या पद्मिनीभूतस्यात्मनो रमणफलवञ्चितं मदनानुरागं सूचयसीवेति व्यङ्गयोर्थः । 2 अत्र 'अश्रुबिन्दुपातेन वर्तते मुक्ताभरणता । गृहाण स्वयंवरार्हाणि मङ्गलप्रसाधनानि । सकुसुमशिलीमुखा हि शोभते नवा लता' इति पाठः । टीकासाहाय्येन प्रकटोर्थो ज्ञायेत । अश्रुविन्दुपातेन तासु (सखीषु) मुक्तानामाभरणयुक्तता, अर्थात् अश्रुद्वारा मुक्ताभूषणभूषिताः सन्तीति । व्यङ्गयोर्थेस्तु तव दुःखेन परिजने व्यक्तभूषणता (निराभरणता), अत एव त्वं स्वयंवर(विवाह)योग्यानि मङ्गलाभरणानि गृहाण, नवा लता नास्ति वालता (शैशवम्) यत्र सा नवालता (अर्थात् युवतिः, श्लेषे बवयोरभेदः) सकुसुमशिलीमुखा कुसुमशिलीमुखेन (पुष्पशरेण, कामेन) सहिता शोभते, न पुनः कामेन रहिता । इति द्वयोः पाठयोस्तारतम्य सहृदयैस्तुलनीयम् । पाठा० - १ तामय व्यथयति तथा माम्. २ देहप्रदानेन. ३ अनङ्गतनुभूते; अनङ्गदेवतनुभूते. ४ गाढसंतापया. ५ दुःखितायामपि त्वयि; अपि चानवरत. ६ परिजनेऽपि वा. द्वयो सभङ्गि भाषणम् पूर्वभागः । 447

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494