Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 457
________________ स्वच्छाम्बरतलदृश्यमानमृणालकोमलोरुमूलाम्, कुसुमचापलेखामिव मदनारोपितगुणकोटिकान्ततराम्, मधुमासदेवतामिव शिशिरहारिणीम्, मधुकरीमिव कुसुममार्गणाकुलाम्, चन्दनविलेपनामनङ्गरागिणीं च बोलां मन्मथजननी च मृणालिनीमभ्यर्थिततुषारस्पर्शा च कादम्बरी व्यलोकयत् । अथ सा यथादर्शनमागत्यागत्य चन्द्रापीडागमनमावेदयन्तं परिजनमुत्तरलतारकेण चक्षुषा विलोक्य 'कथय । किं सत्यमागतो दृष्टस्त्वया । कियत्यध्वनि क्वासौ' इति प्रतिमुखं निक्षिप्तनामाक्षरं पप्रच्छ । प्रवर्धमानधवलिम्ना चक्षुषा दृष्ट्वा च संमुखमापतन्तं तं दूरादेव वरारोहा, नवग्रहा करिणीवोरुस्तम्भविधृता, विचेष्टमानाङ्गी, कुसुमशयनपरिमलोपगतैः परवशामुखरै - *********** स्वच्छेति । स्वच्छं निर्मलं यदम्बरं वस्त्रं तस्य तलमधोभागस्तत्र दृश्यमानं विलोक्यमानं मृणालवत्कोमलमूरुमूलं सक्थिमूलं यस्याः सा ताम् । पक्षे स्वच्छं रजोरहितं यदम्बरतलं व्योमतलं तत्र दृश्यमानं मृणाललक्षणं कोमलं सुकुमारमुरु विस्तीर्णं मूलं बुध्नो यस्याः । कुसुमेति । कुसुमचापः पुष्पधनुस्तस्य लेखामिव । उभयसाम्यमाविःकर्तुमाह - मदनेति । मदनेन यौवनावस्थयारोपिता स्थापिता या गणकोटिस्तया कान्ततरां मनोज्ञतराम । पक्षे मदनेन कंदर्पणारोपितोऽधिज्यीकतो गणकोटिौर्वीप्रान्तस्तया कान्ततराम । मध्विति । मधुमासो वसन्तमासस्तस्य देवतामिवाधिष्ठात्रीमिव । उभयसादृश्यमाह - शिशिरेति । शिशिरेण शीतलोपचारेण हारिणी रुचिराम् । पक्षे शिशिरस्य ऋतुविशेषस्यापहारिणीम् । शिशिरापगमे हि मधुमासः प्रवर्तते । मधुकरीमिव भ्रमरीमिव । उभयसादृश्यमाह - कुसुमेति । कुसुमान्येव विरहवशान्मार्गणा वाणास्तैराकुलाम् । पक्षे कुसुमानां मार्गणमन्वेषणं तेनाकुलां व्यग्राम् । अथ च चन्दनस्य विलेपनमङ्गरागो यस्या एवंविधामपि न विद्यतेऽङ्गरागो यस्यामिति विरोधः । तत्परिहारस्तु - अनङ्गः कंदर्पस्तस्मिन्रागिणीमनुरागवतीमित्यर्थात् । वालामनाविष्कृतमन्मथाम्, अथ च मन्मथजननीमिति विरोधः । तत्परिहारस्तु - बालामनुद्वाहितामित्यर्थात् । मृणालिनीम्, अथ चाभ्यर्थितो वाञ्छितस्तुषारस्पर्शो ययेति विरोधः । कमलिन्यास्तुषारस्पर्शः सर्वथानिष्ट इति लोके प्रसिद्धम् । तत्परिहारस्तु - विरहतापोपशान्त्यर्थं मृणालं विद्यते यस्या इत्यर्थात् । एवंविधा कादम्बरी व्यलोकयदपश्यत् । ___ अथ सा कादम्बरी यथादर्शनं यथावसरमागत्यागत्य चन्द्रापीडस्यागमनमावेदयन्तं कथयन्तं परिजनमुत्प्रावल्येन तरला चञ्चला तारका यस्मिन्नेतादृशेन चक्षुषा विलोक्य वीक्ष्य प्रतिमुखं निक्षिप्तानि स्थापितानि नामाक्षराणि यथा स्यात्तथा । प्रत्येक प्रत्येक नाम गृहीत्वेत्यर्थः । इति पप्रच्छेत्यप्राक्षीत् । इतियोत्यमाह - कथयेति । कथय ब्रूहि । किं सत्यमागतस्त्वया दृष्टः । कियत्यध्वनि । क्वासौ चन्द्रापीडः । तदनन्तरं प्रवर्धमानः प्रतिदिनमुपचीयमानो धवलस्य भावो धवलिमा यस्मिन्नेतादृशेन चक्षुषा नेत्रेण संमुखमापतन्तमागच्छन्तं तं दृष्ट्वा विलोक्य च कुसुमशयनादुत्तस्थावुत्थिता बभूवेत्यन्वयः । अथ कादम्बर्या विशेषणानि - वरेति । वरः श्रेष्ठ आरोहो नितम्बो यस्याः सा । 'नितम्बारोही स्त्रीकट्याः पश्चाजघनपार्श्वतः' इति कोशः । उवविव स्तम्भौ ताभ्यां विधृता धृता । केव । नवः प्रत्यग्रो ग्रहो ग्रहणं यस्या एवंविधा करिणीव हस्तिनीव । सापि उरुर्विस्तीर्णो यः स्तम्भस्तत्र विधृता बद्धा स्यात् । विचेष्टमानानि चेष्टाविशेषणं प्राप्यमाणान्यङ्गानि यस्याः कुसुमशयनस्य - टिप्प० - 1 गुणः आरोप्यते, न तु कोटिः । अत एव, आरोपितः गुणो ययोः ईदृशीभ्यां कोटिभ्याम् (प्रान्ताभ्याम्) कान्ततरा, इति व्याख्यातव्यम् । 2 दर्शनमनतिक्रम्य यथादर्शनम्, यस्यां यस्यामवस्थायां दृष्टस्ता तामवस्थामित्याशयः । 3 ऊोः स्तम्भेन सात्त्विकभावजातेन निश्चलत्वेन विधृता निस्पन्दा, इत्यर्थः । पाटा०-१ कुसुमचापचापलेखाम्. २ कान्ताम्. ३ तारकेण कथय. ४ कथं सम्यक्. ५ निक्षिप्तनानाक्षरम्; निक्षिप्तेन चक्षुषानक्षरम्. ६ वर्धमान. (444 कादम्बरी। कथाया: ܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠ

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494