Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
________________
पङ्कप्रतियातनामामृशन्तीम्, स्तनसंक्रान्तेनात्ममुखेनापि कुतूहलिनेव परिवृत्य विलोक्यमानाम्, कर्णपूरपल्लवेनापि स्वप्रतिबिम्बशायिना सोत्कण्ठेनेव चुम्ब्यमानकपोलफलकाम्, हारैरपि मुक्तात्मभिर्मदनपरवशैरिव प्रसारितकरैरालिङ्ग्यमानाम्, मणिदर्पणमुरसि निहितं विमोदितव्यमेतदिति जीवितस्पर्शमयं शपथं शशिनमिव कारयन्तीम्, करिणीमिव संमुखागतप्रमदवनगन्धवारणप्रसारितकराम्, प्रस्थिताभीवानभीष्टदक्षिणवातमृगागमनाम्, मदनाभिषेकवेदिकामिव कमलावृतचन्दनधवलपयोधरकलशावष्टब्धपाम्, आकाशकमलिनीमिव -
***********
छन्दः कायो रूपं बिम्बं मानकृती अपि' इति कोशः । आमृशन्ती परामर्श कुर्वन्तीम् । स्तनेति । स्तनयोः कुचयोः संक्रान्तेन प्रतिबिम्बितेनात्ममुखेनापि स्वकीयवदनेनापि कुतूहलिनेव कौतुकिनेव परिवृत्य । उत्तानीकृत्येत्यर्थः । विलोक्यमानां वीक्ष्यमाणाम् । एतेन सौन्दर्यातिशयः सूचितः । एवं कर्णपूरपल्लवेनापि स्वप्रतिबिम्बरूपेण शायिना शयनकारिणा । एतेनायतत्वं सूचितम् । सोत्कण्ठेनेव सोत्कलिकेनेव चुम्व्यमानं चुम्बनविषयीक्रियमाणं कपोलफलकं यस्याः सा ताम् । हारैरपि मुक्ताकलापैरपि मुक्तात्मभिर्मुक्तास्वरूपैर्मदनपरवशैरिवानङ्गायत्तैरिव प्रसारितकरैविस्तारितपाणिभिरालिङ्ग्यमानामाश्लिष्यमाणाम् । अत्र मुक्तात्मभिरालिङ्ग्यमानामित्यनेन तस्या अभिनवं सौभाग्यं वर्णितम् । उरसि निहितं वक्षसि स्थापितं मणिदर्पण रत्नादर्शम् । वर्तुलत्वतादृशद्युतिमत्त्वसाधात् । जीवितस्य स्पर्शो दानं तन्मयं शशिनमिव चन्द्रमिव । ‘स्पर्शी वर्गाक्षरे दाने स्पर्शने स्पर्शके रुजि' इति कोशः । इति शपथं कारयन्तीम् । इति शब्दद्योत्यमाह - विनोदेति । अद्य त्वया विनोदितव्यम् । अन्यस्तु शशी शोकप्रदः, त्वया तु विनोदितव्यमेतदिति भावः । अत एव जीवितस्पर्शमयमिति विशेषणम् । करिणीति । हस्तिनीमिव । उभयोः शब्देन साम्यं प्रदर्शयन्नाह - संमुखेति । संमुखागतो यः प्रमदवनगन्धस्तस्य वारणं दूरीकरणं तत्र प्रसारितौ करौ यया सा । विरहाकुलितत्वेन प्रमदवनस्य गन्धस्य दुःखदायित्वात्तनिवारणं युक्तमेवेति भावः । पक्षे संमुखागतः प्रमदो मदोत्कटो वनगन्धवारणो वनप्रभवो गन्धहस्ती तं प्रति प्रीत्या प्रसारितः करः शुण्डा यया सा ताम् । प्रस्थितामिव चलितामिव । उभयसाम्यं प्रदर्शयन्नाह - अनभीष्टेति । अनभीष्टमनीप्सितं दक्षिणो यो वातः स एव शीघ्रगामित्वान्मगो हरिणस्तस्यागमन यस्याः सा ताम् । विरहिण्या दक्षिणो वायुरतीवदुःखदो भवतीति सर्वत्र प्रसिद्धम् । पक्षेऽनभीष्टो दक्षिणो वामतोऽपसव्यगो वातमृगो वातप्रमीर्यस्याः सा ताम् । स्त्रीणां प्रयाणे दक्षिणो मृगोऽपशकुनमिति वसन्तराजादौ प्रसिद्धम् । मदनेति । मदनस्य कंदर्पस्याभिषेकार्थ वेदिका संस्कता भूमिस्तामिव । उभयोः साम्यमाह - कमलेति । कमलया शोभयावतौ चन्दनेन धवलौ पयोधरावेव कचावेव पीनत्ववर्तलत्वसाम्यात्कलशौ ताभ्यामवष्टब्धावाश्रितौ पार्थो यस्याः । आकाशेति । आकाशं व्योम तस्य कमलिनी पद्मिनी तामिव । उभयोः साम्यमाह -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 मुक्त आत्मा येषा जीवन्मुक्तैरपि मदनपरवशैरिति विरोधः । मुक्ताः मौक्तिकानि आत्मा स्वरूपं येषामिति विरोधपरिहारः । 2 एवमर्थे 'विनोदयितव्यम्' इति स्यात् । अतः 'नोदितव्यमय' इति पाठः । विरहोद्दीपकेन त्वया अद्य न उदेतव्यमिति चन्द्रं शपथं कारयन्तीमिति तदर्थः । शपथश्च जीवनस्पशरूप इति भावः । अन्यत्स्पष्टप्रायम् । 3 अत्र अनभीष्टं दक्षिणवातस्य मलयवायोः मृगस्य (मृगमदसौरभस्य, लक्षणया) च आगमनं यस्या इति व्याख्यातव्यम् । 4 शैत्यार्थं कमलदलैरावृतौ चन्दनधवलौ यौ पयोधररूपौ कलशौ ताभ्यामाक्रान्तपामिति (नायिकापक्षे), माङ्गल्यार्थं कमलैराच्छादितमुखाश्चन्दनधवलीकृता ये पयोभृताः कलशास्तैराक्रान्तपार्श्वभूमिभागामिति (वेदिकापक्षे) । पाटा० - १ आस्पृशन्तीम्. २ स्वप्रतिबिम्बपल्लवशायिना. ३ नोदेतव्यमयेति. ४ त्वयाय. ५ जीवनस्य समय शशिनम् जीवनस्पर्शसमय शशिनम्.
उत्कण्ठिता कादम्बरी
पूर्वभागः ।)
443
Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494