Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 455
________________ ष्वध्यासितामिवाङ्गेष्वनङ्गेन, कंदर्पदाहदीपिते गृहीतामिव हृदये हुतभुजा, स्वेदिनि परिष्वक्तामिव वपुषि जलेन, दैवतैरपि विलुप्यमानसौभाग्यामिव सर्वशः, हृदयेन सह प्रियतमसमीपोपगतैरभैरुपजनितदौर्बल्याम्, आश्यानचन्दनपाण्डुरं च रोमाञ्चमनवरतहारस्पर्शलग्नं मुक्ताफलकिरणपुञ्जमिवोद्वहन्तीं स्वेदसीकरिणी च कपोलपालीम्, पक्षपवनेन वीजयद्भिरनुकम्प्यमानामिवावतंसमधुकरैः, अवतंसमधुकररवदहनदग्धमिव श्रोत्रमपाङ्गनिर्गतेनाथुस्त्रोतसा सिञ्चन्तीम्, अतिप्रवृत्तस्य चाश्रुणो निर्वाहप्रणालिकामिव कर्पूरकेतकीकलिकां कर्णे कलयन्तीम्, आयतश्चासविधुतितरलितेन च संतापभयपलायमानेन देहप्रभावितानेनेवांशुकेन विमुच्यमानकुचकलशाम्, आपतत्प्रचलचामरप्रतिबिम्बं च कुचकलशयुगलं प्रियान्तिकगमनौत्सुक्यकृतपक्षमिव करतलेन निरुन्धन्तीम्, मुहुर्मुहुर्भुजलतया तुषारशिलाशालभञ्जिकामालिङ्गन्तीम्, मुहुः कपोलफलकेन कर्पूरपुत्रिकामाश्लिष्यन्तीम्, मुहुश्चरणारविन्देन चन्दन - *********** स्तेन प्रतप्तेषूष्णेष्वङ्गेष्वनङ्गेन कंदर्पणाध्यासितामाश्रितामिव । कुत्रचित् ‘पतङ्गेन' इति पाठः । तत्र पतङ्ग सूर्यस्तापजनकत्वात् । तदाश्रितामित्यर्थः । कंदर्पदाहदीपिते मदनदाहज्वलिते हृदये । दाहजनकत्वसाम्यादाह - हुतभुजेति । हुतभुजा वह्निना गृहीतामिव स्वीकृतामिव । स्वेदिनि प्रस्वेदवति वपुषि जलेन नीरेण परिष्वक्तामिवाश्लिष्टामिव । एतेन स्वेदबाहुल्यं सूचितम् । दैवतैरप्यदृष्टैरपि सर्वशः सर्वप्रकारेण विलुप्यमानं लोपमाप्यमान सौभाग्यं यस्याः सा तामिव । हृदयेन चित्तेन सह सार्धं प्रियतमसमीपं प्राणप्रियनिकटमिवोपगतैरङ्गैः कृत्वोपजनितं विहितं दौर्बल्यं कृशत्वं यस्या एतादृशीम् । आश्यानमिति । आश्यानं शुष्कं यच्चन्दनं मलयजं तेन पाण्डुरं शुभं रोमाञ्चं चानवरतं निरन्तरं हारस्पर्शेन लग्नं मिलितं मुक्ताफलानां किरणा दीधितयस्तेषां पुञ्जः समूहस्तमिवोद्वहन्तीं धारयन्तीम् । अत्र चन्दनधवलीकृतस्य रोमोद्गमस्य मुक्ताकिरणसमूहोपमानम् । तथा स्वेदस्य धर्मजलस्य सीकरा विद्यन्ते यस्यामेतादृशीं कपोलपालीमुदहन्तीम् । चकारः समुच्चयार्थः । अवेति । अवतंस उत्तंसस्तस्य मधुकरैर्भमरैः पक्षपवनेन वीजयद्भिरनुकम्प्यमानामिवानुकम्पाविषयीक्रियमाणामिव । अवतंसमधुकराणा रवः शब्दः स एव दाहकत्वाइँहनो वह्निस्तेन दग्धमिव ज्वलितमिव । श्रोत्रं श्रवणमपाङ्गनिर्गतेनाक्षिवाह्यायातेनाश्रुस्त्रोतसा नेत्रजलप्रवाहेण करणभूतेन सिञ्चन्तीं सेक कुर्वन्तीम् । अतिप्रवृत्तस्यातिप्रसृतस्याश्रुणो नेत्रजलस्य निर्वाहार्थं सुखेन गमनार्थ प्रणालिकामिव जलमार्गमिव कर्पूरकेतकीकलिका कर्पूरेषूक्ता या केतकी तस्याः कलिका कोरकः तां कर्णे कलयन्ती कलना कुर्वन्तीं धारयन्तीम् । आयतो विस्तीर्णो यः श्वासः श्वसितं तस्माद्या विधुतिः कम्पस्तेन तरलितेन कम्पितेन संतापभयात्पलायमानेन धावता । अतिशुभ्रत्वसचिक्वणत्वसाम्यादाह - देहेति । देहप्रभावितानेनेव शरीरदीप्तिसमूहेनेवांशुकेन वस्त्रेण विमुच्यमानौ कुचावेव कलशौ यस्याः सा ताम् । आपतत्प्रचलचामरयोः प्रतिबिम्ब यस्मिन्नेतादृशं कुचकलशयुगलं प्रियस्य वल्लभस्यान्तिक समीपं तत्र गमने याने यदौत्सुक्य रणरणकता तेन कृताः पक्षा येनैतादृशमिव करतलेन निरुन्धन्ती निरोधं कुर्वन्तीम् । मुहुर्मुहुर्भुजलतया बाहुवल्ल्या तुषारशिला तस्याः शालभञ्जिका पाञ्चालिकामालिङ्गन्तीमाश्लेषं कुर्वन्तीम् । मुहुः कपोलफलकेन कर्पूरपुत्रिकां घनसारपाञ्चालिकामाश्लिष्यन्तीमालिगन्तीम् । महश्चरणारविन्देनाघ्रिकमलेन चन्दनपकस्य मलयजकर्दमस्य प्रतियातनां प्रतिमाम । 'प्रतिमा यातनाविधिः । छायः . -- -- - - - - - - - -- - - - - -- - टिप्प० - 1 सौन्दर्यमुग्धत्वाद्देवा अपि तस्या भर्तृप्रियत्वम् ('सुहाग') न्यूनीकृत्य आत्मनि तदासक्ति कामयन्त इत्याशयः । 2 दूरगमनश्रमेण दौर्बल्यं भवत्येवेत्याशयः । 3 विरहोद्दीपनेन ईत्यर्थः । 4 कर्पूरवत् (शुभ्रा) केतकीकलिका, कर्पूरवासिता केतकीकलिका वा । - - - - - - - - - - - - पाटा० - १ जलदेन. २ अवतंसकुसुम. 442 कादम्बरी । कथायाम

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494