Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
________________
दण्डानि बध्यमानानि चारुवंशाकृतीनि कुसुमस्तबकातपत्राणि, क्वचित्करमृदितकर्पूरपल्लवरसेनाधिवास्यमानानि बिसतन्तुमयान्यंशुकानि, क्वचिल्लवलीफलद्रवेणार्टीक्रियमाणास्तृणशूकमञ्जरीकर्णपूरान्, कचिदम्भोजिनीदलव्यजनै
:ज्यमानानुपलभाजनभाजः शीतोषधिरसानन्यांश्चैवंप्रकाराशिशिरोपचारोपकरणकल्पनाव्यापारान्परिजनेन कृतान्क्रियमाणांश्च वीक्षमाणो हिमगृहकस्य मध्यभाग हृदयमिव हिमवतः, जलक्रीडागृहमिव प्रचेतसः, जन्मभूमिमिव सर्वचन्द्रकलानाम्, कुलगृहमिव सर्वचन्दनवनदेवतानाम्, प्रभवमिव सर्वचन्द्रमणीनाम्, निवासमिव सर्वमाघमासयामिनीनाम्, संकेतसदनमिव सर्वप्रावृषाम्, ग्रीष्मोष्मापनोदोद्देशमिव सर्वनिम्नगानाम्, वडवानलसंतापापनोदननिवासमिव सर्वसागराणाम्, वैद्युतदहनदाहप्रतीकारस्थानमिव सर्वजलधराणाम्, इन्दुविरहदुःसहदिवसातिवाहनस्थानमिव कुमुदिनीनाम्, हरहुताशननिर्वापणक्षेत्रमिव मकरध्वजस्य, दिनकरकरैरपि सर्वतो जलयन्त्रधारासहस्त्रसमुत्सारितैरतिशीतस्पर्शभयनिवृत्तैरिव परिहृतम्, अनिलैरपि कदम्बकेसरोत्करवाहिभिः कण्टकितैरिवानुगतम्, कदलीवनैरपि पवनचलितदलैर्जाड्यजनितवेपथुभिरिव परि -
***********
दण्डा येष्वेवंविधानि बध्यमानानि चारुर्मनोहरो यो वंशो वेणुस्तद्वदाकृतिराकारो येषां तानि कुसुमस्तबकान्येवातपत्राणि छत्राणि । क्वचिदिति । करेण मृदितो यः कर्पूरपल्लवस्तस्य रसेनाधिवास्यमानानि सुगन्धीक्रियमाणानि बिसतन्तुमयानि तन्तुलतन्तुनिर्मितान्यंशुकानि वस्त्राणि । क्वचिदिति । लवली वल्लीविशेषस्तस्याः फलद्रवेणार्टीक्रियमाणान् । तृणानां शूकं किंशारुस्तस्य मञ्जर्य एव कर्णपूरान्कर्णा- . भरणानि । क्वचिदिति । अम्भोजिनी कमलिनी तस्या दलान्येव व्यजनानि तालवृन्तानि तैर्वीज्यमानानुपलभाजनभाजो दृपत्पावस्थिनाशीतोषधिरसान्, अन्याश्चैवप्रकाराशिशिरोपचारोपकरणकल्पनाव्यापारान्परिजनेन परिच्छदेन कृतान्चिहितान् क्रियमाणांश्च विधीयमानाच वीक्षमाणो हिमवतो गौरीगुरोर्हृदयमिव स्वान्तमिव, प्रचेतसो वरुणस्य जलक्रीडागृहमिव, सर्वाः समग्रा याश्चन्द्रकलास्तासां जन्मभूमिमिव. सर्वं यच्चन्दनवनं गन्धसारकाननं तस्य देवतानामधिष्ठात्रीणां कुलगृहमिव पितृसञव; सर्वचन्द्रमणयश्चन्द्रकान्तायास्तेषां प्रभवमिवोत्पत्तिमिव, सर्वे ये माघमासास्तपोमासास्तेषां यामिनीनां रात्रीणां निवासमिव वसतिस्थलमिव, सर्वप्रावृषां समग्रतपात्ययानां संकेतसदनमिव, सर्वनिम्नगाना समस्ततटिनीना ग्रीष्मस्योष्णागमस्य ऊष्मा तापस्तस्यापनोदो दूरीकरणं तस्योद्देशमिव प्रदेशमिव, सर्वसागराणां समस्तसमुद्राणां वडवानलो वाडवस्तस्य यः संतापस्तस्यापनोदना दूरीकरणं तस्या निवासमिव वसतिमिव, सर्वजलधराणां समग्रमेघानां वैद्युतो यो दहन इरमदस्तेन दाहस्तस्य प्रतीकारस्थानमिव प्रतिक्रियागृहमिव, कुमुदिनीना कैरविणीनामिन्दुविरहेण दुःसहमसह्यं दिवसस्यातिवाहनमुल्लङ्घन तस्य स्थानमिव, मकरध्वजस्य कंदर्पस्य हरस्येश्वरस्य यो हुताशनस्तृतीयनेत्रजो वह्निस्तस्य निर्वापणं निर्यातनं तस्य क्षेत्रमिव स्थानमिव, दिनकरस्य सूर्यस्य करैरपि सर्वतः समन्ताज्जलयन्त्रधारासहसाणि तैः समुत्सारितैर्दूरीकृतैरतिशयेन यः शीतः स्पर्शः तस्माद्यद्भयं तेन निवृत्तैरिव परिहृतं परित्यक्तम् । अनिलैरपि पवनरैपि कदम्बस्य कादम्वस्य यः केसरोत्करस्तद्वाहिभिरत एव कण्टकितैरिवं रोमाञ्चितैरिवानुगत सहितम् । कदलीवनैरपि रम्भाकाननैरपि पवनेन चलितानि कम्पितानि दलानि येषां तैरत एव जाड्येन जनितो -
- - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 पवनानामपि शैत्यं प्रतीतमभूदत एव तेपि रोमाञ्चमवहन्नित्युत्प्रेक्षाशयः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाटा० - १ मकरध्वजस्व सदनमिव बनदेवतानाम.
(440AMARA
N
कादम्बरी | NITIATI
VITATIN कथायाम-)
Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494