Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 451
________________ तवेदिकानां पुण्डरीककलिकाघटितघण्टिकानां विकसितसिन्दुवारकुसुममञ्जरीचामराणां लम्बितस्थूलमल्लिकामुकुलहाराणामाबद्धलवङ्गपल्लवचन्दनमालिकानां दोलायमानकुमुददामध्वजानां मृणालवेत्रहस्ताभिर्गृहीतरुचिरकुसुमाभरणाभिर्मधुलक्ष्मीप्रतिकृतिभिरिव द्वारपालिकाभिरधिष्ठितानां कदलीतोरणानां तलेन प्रविश्य सर्वतो निसृष्टदृष्टिदृष्टवान्क्वचिदुभयतटनिखाततमालपल्लवकृतवनलेखाः कुमुदधूलिवालुकापुलिनमालिनीश्चन्दनरसेन प्रवर्त्यमाना गृहनदिकाः, क्वचिनिचुलमञ्जरीरचितरक्तचामराणां जलार्द्रवितानकानां तलेषु सिन्द्रकुट्टिमेष्वास्तीर्यमाणानि रक्तपङ्कजशयनानि, क्वचिदेलारसेन सिच्यमानानि स्पर्शानुमेयरम्यभित्तीनि स्फटिकभवनानि, क्वचिच्छिरीषपक्ष्मकृतशाद्वलाना मृणालधारागृहाणां शिखरमारोप्यमाणानां धाराकदम्बधूलिधूसरितानि यन्त्रमयूरकाणां कदम्बकानि, क्वचित्सहकाररससिक्तैजम्बूपल्लवैराच्छाद्यमानाभ्यन्तराः पर्णशालाः, क्वचित्क्रीडितकृत्रिमकरिकलभयूथकाकुलीक्रियमाणाः काञ्चनक - *********** कलिकानां वाद्यघण्टिकानुकारादाह - पुण्डरीकेति । पुण्डरीकाणि सिताम्भोजानि तेषां कलिकाभिर्घटिता निर्मिता घण्टिकाः किङ्किण्यो येषाम् । विकसितानि विमुद्राणि सितानि सिन्दुवारस्य निर्गुण्ड्याः कुसुमानि तेषां मञ्जरीणां चामराण्यातपत्राणि येषाम् । लम्बिताः स्थूलमल्लिकामुकुलानां हारिणो हारा येषाम् । आबद्धा लवङ्गं देवकुसुमं तस्य पल्लवा येष्वेवंविधा चन्दनमालिका तोरणार्थे मङ्गल्यं दाम येषाम् । 'तोरणार्थे तुं मङ्गल्यं दाम चन्दनमालिका' इति कोशः । दोलेति । दोलायमानाः कम्पमानाः कुसुमदामध्वजा येषाम् । मृणालेति । मृणालानां तन्तुलानां वेत्रं हस्ते यासां ताभिर्गृहीतानि स्वीकृतानि रुचिराणि मनोहराणि कुसुमाभरणानि पुष्पविभूषणानि याभिः । मध्विति । मधुलक्ष्म्या वसन्तश्रियः प्रतिकृतिभिः प्रतिरूपाभिरेवंविधाभिरपालिकाभिरधिष्ठितानामाश्रितानाम् । सर्वं दृष्टवानिति पूर्वोक्तं स्पष्टीकुर्वनाह - क्वचिदिति । कस्मिंश्चिप्रदेश उभयतटे निखाता आरोपिता ये तमालपल्लवास्तापिच्छकिसलयास्तैः कृता वनलेखा काननवीथी यासा ताः । कुमुदानां धूलिः परागः सैव वालुका सिकता तस्याः पुलिनं जलोज्झित सैकतं मालत इत्येवंशीलाश्चन्दनरसेन मलयजद्रवेण प्रवर्त्यमाना विस्तार्यमाणा गृहनदिका भवनसरितः । क्वचिदिति । निचुलमञ्जरी हिज्जलवल्लरी तथा रचितानि रक्तचामराणि येषामेतादृशानां जलार्द्रवितानकानामम्भःक्लिनोल्लोचानां तलेषु सिन्दूर नागज तेन सहवर्तमानेषु कुट्टिमेष्वास्तीर्यमाणानि विस्तीर्यमाणानि रक्तपङ्कजशयनानि लोहितकमलशयनानि । क्वचिदिति । एला चन्द्रवाला तस्या रसेन सिच्यमानानि सेचनक्रियाविषयीक्रियमाणानि स्पर्शेन करसंस्पर्शनानुमेया अनुमातुं योग्या रम्या मनोहरा भित्तयः कुड्यानि येषामेवंविधानि स्फाटिकभवनानि । क्वचिदिति । कस्मिंश्चिप्रदेशे शिरीषः कपीतनस्तस्य पक्ष्मभिः कोमलकेसरैः कृतशाद्वलानां विहितशादहरितानां मृणालधारागृहाणां बिसयन्त्रसद्मनां शिखरं प्रान्तमारोप्यमाणानामुपरिष्टान्नीयमानानां धाराकादम्बानां धूलिभी रजोभिधूसरितानि यन्त्रगृहवर्तिमयूरकाणां कदम्बकानि मण्डलानि । क्वचिदिति । सह - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 यासु इति स्त्रीत्वं वाच्यम् । यासु (चन्दनमालिकासु) लवङ्गपल्लवा आबद्धा ईदृश्यश्चन्दनमालिकाः (तोरणलम्बितानि पुष्पदामानि) येषु तेषाम् । 2 कुसुमदामान्येव ध्वजा येषाम् । 3 कुमुदानां धुलिरेव वालुका तस्याः (अर्थात्तनिर्मिता) पुलिनमाला सैकतश्रेणिर्यासां ता इति सरलोऽर्थः । 4 जलार्द्राणा चन्द्रातपानाम् 'चँदो वा । 5 स्फटिकानां पारदर्शकत्वात्तद्भित्तयो न द्रष्टुं शक्याः किन्तु स्पर्शानुमेयाः 6 यन्त्रात्मकमयूराणाम् (यन्त्रनिर्मितमयूराणाम् । मृणालयुक्तजलधारागृहाणां शिखरे (पुष्ठे) परिचारिकाभिर्यन्त्रमयूरा नीता ये हि जलधारासमूहानां क्षौदैर्धूसरिता इत्यर्थः । पाटा० - १ प्रकृतिभि. २ जलाद्रीकृत. ३ ससिन्दूर. ४ स्पर्शानुमेयभित्तीनि;, स्पर्शानुमेयरम्यस्थितिप्रदेशानि. ५ अभ्रः, अभ्रक. ६ धूसराणाम्; धूसरितानाम्. ७ तरुसक्तैः. 438 ( कादम्बरी । कथायाम्

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494