Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 449
________________ 1 चन्द्रापीडस्तदाकर्ण्य जिगमिषुः 'अश्वोऽश्वः' इति वदन्भवनान्निर्ययौ । आरोपितपर्याणं च त्वरिततुरगपरिचारकोपनीतमिन्द्रायुधमारुह्य, पश्चादारोप्य पत्रलेखाम्, स्कन्धावारे संस्थापयित्वा वैशम्पायनम्, अशेषपरिजनं निवर्त्य च, अन्यतुरगारूढेनैव केयूरकेणानुगम्यमानो हेमकूटं ययौ । आसाद्य च कादम्बरी भवनद्वारमवततार । अवतीर्य द्वारपालार्पिततुरङ्गः कादम्बरीप्रथमदर्शनकुतूहलिन्या च पत्रलेखया चानुगम्यमानः प्रविश्य 'क्व देवी कादम्बरी तिष्ठति' इति संमुखागतमन्यतमं वर्षधरमप्राक्षीत् । कृतप्रणामेन च तेन 'देव, मत्तमयूरस्य क्रीडापर्वतकस्याधस्तात्कमलवनदीर्घिकातीरे विरचितं हिमगृहमध्यास्ते' इत्यावेदिते केयूरकेणोपदिश्यमानवर्त्मा प्रमदवनमध्येन गत्वा किंचिदध्वानम्, मरकतहरितानां कदलीवेनानां प्रभया शष्पीकृतरविकिरणं हरितायमानं दिवसं ददर्श । तेषां च मध्ये निरन्तरनलिनीदलच्छन्नं हिमगृहमपश्यत् । तस्माच्च निष्पतन्तमार्द्राशुकच्छलेनाच्छोदजलेनेव संवीतम्, बाहुलताविधृतैर्मृणालवलयैराभरणकैरिव धवलितावयवम्, आपाण्डुभिश्चैकश्रवणाश्रयैस्तौडङ्कीकृतैः केतकीगर्भदलैरुपहसितदन्तपत्रम्, आलिखितचन्दनललाटिकानि मुखारवि - 436 ** चन्द्रापीडस्तदाकर्ण्य श्रुत्वा जिगमिषुर्गन्तुमिच्छुरश्वोऽश्व इति वदन्ब्रुवन्भवनाद्गृहान्निर्ययौ निर्जगाम । आरोपितं स्थापितं पर्याणं पल्ययनं यस्मिन्नेतादृशं त्वरितं शीघ्रं तुरगपरिचारकेणोपनीतमानीतमिन्द्रायुधमारुह्यारोहणं कृत्वा पत्रलेखां पश्चात्पृष्ठभाग आरोप्य स्थापयित्वा स्कन्धावारे सैन्यवेशे वैशम्पायनं संस्थापयित्वा शेषपरिजनं समग्रपरिच्छदं निवर्त्य पश्चाद्व्याघुट्यान्यतुरगारूढेनैव केयूरकेणानुगम्यमानो हेमकूट ययो । कादम्बरीभवनद्वारमासाद्य प्राप्यावततारोत्तीर्णवांश्च । अश्वादिति शेषः । अवतीर्य च द्वारपालस्यार्पितस्तुरङ्गो येन स तथा कादम्बर्या प्रथमदर्शनं तत्र कुतूहलं विद्यते यस्या एवंविधया पत्रलेखयानुगम्यमानः प्रविश्य क्व देवी कादम्बरी तिष्ठतीति संमुखागतमन्यतमं वर्षधरं कञ्चुकिनमप्राक्षीत्पप्रच्छ । तेन कृतप्रणामेन चेत्यावेदिते कथिते सति । इतिशब्दद्योत्यमाह - देवेति । हे देव, मत्तमयूरकाभिधानस्य क्रीडापर्वतकस्याधस्तादधोभागवर्तिनि कमलवनदीर्घिकातीरे विरचितं हिमगृहमध्यास्तेऽधितिष्ठति । 'उपान्चध्यावसः' इत्यधिकरणे द्वितीया । केयूरकेणोपदिश्यमानः प्रदर्श्यमानो वर्त्म मार्गो यस्य स तथा, प्रमदवनमध्येन किंचिदध्वानं मार्गं गत्वा मरकतबद्धरितानां नीलाना कदलीवनानां रम्भाकाननानां प्रभया कान्त्या शष्पीकृतानि बालतृणीकृतानि रविकिरणानि सूर्यरश्मयो यस्मिन्नत एव हरितायमानं नीलायमानं दिवसं दिनं ददर्शेक्षांचक्रे । तेषां च कदलीवनानां मध्ये निरन्तर नलिनीदलैः कमलिनीपत्रैश्छन्नमाच्छादितं हिमगृहमपश्यदैक्षत । तस्माच्च गृहान्निष्पतन्तं वहिर्गच्छन्तं कादम्वर्याः शरीरपरिचारकं परिजनमद्राक्षीद्दृष्टवान् । अथ तस्याः परिचारकं विशेषयन्नाह - आर्द्रेति । आर्द्र स्तिमितं यदंशुकं वस्त्रं तस्य च्छलेन श्वेताह्लादकत्वसाम्यादाह - अच्छोदेति । अच्छोदजलेनेव संवीतं रुद्धम् । 'संवीतं रुद्धमावृतम्' इति कोशः । वाहुलताविधृतैर्भुजलतास्थापितैर्मृणालवलयैस्तन्तुलकटकैराभरणकैरिव विभूषणैरिव धवलीकृताः शुभ्रीकृता अवयवा अपघा यस्य स तम् । आपाण्डुभिरीषच्छ्रेतैरेक श्रवण एवैककर्ण एवाश्रयोऽधिकरणं येषां तैस्ताङङ्कीकृतैस्ताडपत्रीकृतैरेवंविधैः केतकीगर्भदलैरुपइसितानि दन्तपत्राणि येन स तम् । पुनः किं कुर्वाणम् । दधानं विभ्राणम् । कानि मुखान्येवारविन्दानि कमलानि । कीदृशानि । आलिखिता टिप्प० 1 सोपसर्गत्वात् 'संस्थाप्य' इति पदयोजना व्याकरणसंगता । 2 रविकिरणा इत्यर्थः । 3 आवृतदेहमित्यर्थ उचितः । पाटा - १ अथ चन्द्रापीडः, २ वदन्पूर्ववृत्तचमत्कृतचेताः ३ त्वरितपरिचारक. ४ नृत्यमयूरस्य ५ दलानाम्. ६ ताटकीकृतः; तालङ्कीङ्कृतैः. - ** कादम्बरी | कथायाम्

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494