Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 452
________________ मलिनिकाः, क्वचिद्गन्धोदककूपेषु बद्धकाञ्चनसुधापङ्ककामपीठेषु स्थूलबिसलतादण्डघटितारकाणि कृतकेतकदलद्रोणिकानि कुवलयावलीरज्जुभिग्रंथ्यमानानि पत्रपुटघटीयन्त्रकाणि, क्वचित्स्फटिकबलाकावलीवान्तवारिधारा लिखितेन्द्रायुधाः संचार्यमाणा मायामेघमालाः, क्वचिदुपान्तरूढयवाङ्कुराँसु तरतरुणमालतीकुड्मलदन्तुरिततरङ्गासु हरिचन्दनद्रववापिकासु शिशिरीक्रियमाणा हारयष्टीः, क्वचिन्मुक्ताफलक्षोदरचितालवालकानंनवरतस्थूलजलबिन्दुदुर्दिनमुत्सृजतो यन्त्रवृक्षकान्, क्वचिद्विधुतपक्षनिक्षिप्तसीकरानीतनीहारा भ्रमन्तीर्यन्त्रमयीः पत्रशकुनिश्रेणीः, क्वचिन्मधुकरकिङ्किणीपङ्क्तिपटुतराबध्यमानाः कुसुमदामदोलाः, क्वचिदुदरारूढनिर्गतोत्तोलनलिनीच्छदाच्छादितमुखान्प्रवेश्यमानाशीतकुम्भान्, क्वचिद्धटितकदलीगर्भस्तम्भ - *********** कारा आम्रास्तेषां रसैः सिक्तैः सिञ्चितैर्जम्बूपल्लवैराच्छाद्यमाना अभ्यन्तराः पर्णशाला उटजाः । क्वचिदिति । क्रीडितुं यत्कृत्रिमं निर्मितं करिकलभयूथक तेनाकुलीक्रियमाणाः काञ्चनकमलिनिकाः सुवर्णनलिन्यः । कप्रत्यये च सर्वत्र ह्रस्वत्वम् । गन्धोदकस्य सगन्धजलस्य कूपेषूदपानेषु । कीदृशेषु । बद्धः काञ्चनस्य सुवर्णस्य सुधा गृहधवलीकरणद्रव्यं तस्य पङ्कः कर्दमस्तेन काममत्यर्थं पीठं येषु, स्थूलो यो बिसलताया दण्डस्तेन घटिता अरका येषु, कृतानि केतकदलानां द्रोणिकानि भाजनविशेषाणि येषु, कुवलयानामुत्पलानामावल्यः पङ्क्तयस्ता एव रज्जवस्तैग्रंथ्यमानानि बध्यमानान्येवंविधानि पत्रपुटलक्षणानि घटीयन्त्रकाण्युद्धाटकानि । क्वचिदिति । स्फटिकस्य बलाका बिसकण्ठिकास्तासामावलीभिर्वान्ता मुक्ता वारिधारा जलधारा यासु, लिखितानीन्द्रायुधानि शक्रचापानि यासु, एवंविधाः संचार्यमाणाः प्रेर्यमाणा मायामेघमालाः कृत्रिमजल(द)पङ्क्तयः । क्वचिदिति । उपान्ते समीपे रूढा यवाङ्कुरा यासु, तरन्ति तरुणमालतीकुड्मलानि तैर्दन्तुरितास्तरंगाः कल्लोला यासु, हरिचन्दनस्य तैलपर्णिकस्य द्रवस्तस्य वापिकासु क्षुद्रपिकासु शिशिरीक्रियमाणाः शीतलीक्रियमाणा हारयष्टीर्मुक्ताकलापान् । एतेन विरहाधिक्यं वर्णितम् । क्वचिदिति । मुक्ताफलं रसोद्भवं तस्य क्षोदेन चूर्णेन रचितं निर्मितमालवालकमावापस्थानकं येषां ताननवरतं निरन्तरं स्थूला जलबिन्दवस्तेषां दुर्दिनमुत्सृजत उत्प्राबल्येन मुञ्चतः कुर्वतः एवं विधान्यन्त्रवृक्षकान्कृत्रिममहीरुहान् । क्वचिदिति । विधुताः कम्पिता ये पक्षास्तैर्निक्षिप्ता ये सीकरास्तैरानीतो नीहारो हिमं याभिस्ता भ्रमन्तीभ्रंमणं कुर्वन्तीः । एवंविधा यन्त्रमयीः पत्रशकुनिश्रेणीः । क्वचिदिति । मधुकरा भ्रमरा एव किङ्किण्यः क्षुद्रघण्टिकास्तासां पङ्क्तिः श्रेणी तया पटुंतरं स्पष्टं यथा स्यात्तथा बाध्यमाना निरुध्यमाना कुसुमदामदोलाः पुष्पस्त्रक्प्रेङ्खाः । क्वचिदिति । उदरे मध्य आरूढा निर्गता उद्गताः सुवर्णकलशादुत्तालोर्ध्वमुखी या नलिनी तस्याश्छदानि दलानि तैराच्छादितं पिहितं मुखं येषां तान्प्रवेश्यमानान्गृहान्तीयमानाशातकुम्भान् । क्वचिदिति । घटिता कदलीगर्भस्तम्भा एव - - टिप्प० -1 चक्रान्तर्गतानि काष्ठनिर्मितान्यवयवानि, 'अरा' इति भाषा 1 2 'कृतकानि इत्युचितः पाठः । कृत्रिमाणि केतकदलानि (केतकपत्राणि) एव जलद्रोणिका जलाधारविशेषा येषु तानि । शिशिरोपचारवर्णनेऽस्मिन् सुगन्धिजलभृताः कूपा अपि तथा कृता येषामुपरि पत्रपुटरूपान् घटान् वहन्ति यन्त्राणि ('अरहट'), जलाधारा अपि केतकपत्रैः कृतानीत्याद्यर्थो बोध्यः । निर्माणकौशलेनैव परिचाल्यमानाः । 4 'क्वचिन्मधुकरकिङ्किणीपङ्क्तिपटुतररवा वध्यमानाः' इत्युचितः पाठः । मधुकरा एव किङ्किण्यास्तासां पङ्क्तेः पटुतरो रवः (शब्दः) यासु ताः । परिचारिकाभिर्बध्यमानाः (कुसुमदामनिर्मिता दोलाः) । 5 'शातकुम्भकुम्भान्' इत्युचितः पाठः । शातकुम्भस्य सुवर्णस्य कलशान, येषामुदरेषु नलिन्यः उत्पन्नास्ततश्च मुखेभ्यो बहिः उन्नालास्ता निर्गताः, तत्पत्रैः कुम्भमुखमाच्छन्नम् । शैत्यार्थं शोभार्थं च वृक्षाधारविशेषः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - पाटा० - १ घटितदण्डारकाणि. २ कृतक; कनक. ३ जलद्रोणिकानि. ४ कमलपत्रपुट. ५ बलाकावलीः. ६ प्ररूढ. ७ पाण्डुयवाफुरसु. ८ सितरक्त. ९ अनवरतचन्दनरसस्थूल. १० पत्रवृक्षकान्. ११ पटुरवबोध्यमानाः; पटुतररवाबोध्यमानाः. १२ उन्नाल. १३ शातकुम्भकुम्भान्. कादम्बरीभवने शीतोपचारसज्जा पूर्वभागः । 439

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494