Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
________________
बारितम्, अलिभिरपि कुसुमामोदमदमुखरैराबद्धदन्तवीणैरिव वाचालितम्, लताभिरपि मधुकरपटलजटिलाभिर्गृहीतनीलप्रावरणकाभिरिव विराजितमाससाद । क्रमेण च तत्रान्तर्बहिश्चातिबहलेन पिण्डहार्येणेवोपलिप्यमानोऽतिशीतलेन स्पर्शेनाऽमन्यतात्मनो मनश्चन्द्रमयं कुमुदमयानीन्द्रियाणि ज्योत्स्नामयान्यङ्गानि मृणालिकामयीं धियम् । अगणयच्च हारमयानर्ककिरणांश्चन्दनमयमातपं कर्पूरमयं पवनमुदकमयं कालं तुषारमयं त्रिभुवनम् ।।
एवंविधस्य च तस्यैकदेशे सखीकदम्बकपरिवृताम्, अशेषसरित्परिवारामिव भगवतीं गङ्गां हिमवतो गृहाचलगताम्, कुल्याभ्रमिभ्रमितेन कर्पूररसस्त्रोतसा कृतपरिवेषाया मृणालदण्डमण्डपिकायास्तले कुसुमशयनमधिशयानाम्, हाराङ्गदवलयरसनानूपुरैर्मृणालमयैर्निगडेरिव संयतामीjया मन्मथेन, चन्दनधवले स्पृष्टामिव ललाटे शशलाञ्छनेन, बाष्पवारिवाहिनि चुम्बितामिव चक्षुषि वरुणेन, वर्धितनिःश्वासमरुति द॑ष्टामिव मुखे मातरिश्चना, संतापप्रतप्ते -
*********** वेपथुः कम्पो येषामेतादृशैरिव परिवारितम् । अलिभिरपि भ्रमरैरपि कुसुमानामामोदः परिमलस्तज्जनितो मदस्तेन मुखरैर्वाचालैरत एवाबद्धा दन्तवीणा यैरेवंविधैरिव वाचालितं मुखरितम् । लताभिरपि वल्लीभिरपि मधुकराणां पटलं तेन जटिलाभिर्व्याप्ताभिर्गृहीतं स्वीकृतं नील प्रावरणं प्रच्छादनं याभिरेवंविधाभिरिव विराजितं शोभितमेतादृशं हिमगृहकस्य मध्यभागमाससाद प्राप्तवान् । क्रमेणेति । क्रमेण परिपाट्यान्तर्बहिश्चातिशीतलेन स्पर्शेनोपलिप्यमानः । ननु मूर्तव्यतिरेकेणोपदिग्धक्रिया न संभवतीत्याशयेनाह - अतीति । अतिवहलेनातिदृढेन पिण्डहार्येणेव पिण्डरूपेणाहर्तुं शक्यं पिण्डहार्यं तेनेव, एतेनातिशीतलस्पर्शस्य बाहुल्य तया हस्तग्राह्यत्वं सूचितम् । तथातिशीतलेन स्पर्शनात्मनः स्वस्य मनश्चितं चन्द्रमयममन्यताऽजानात् । तथा कुमुदमयानि कैरवमयानीन्द्रियाणि करणानि, ज्योत्स्नामयानि चन्द्रिकामयान्यङ्गानि हस्तपादादीनि, मृणालिकामयीं बिसमयीं धियं बुद्धिम् । अमन्यतेत्यस्य सर्वत्र संबन्धः । तथाकिरणान्सूर्यकरान् । शुभ्रत्वायतत्वसाम्यादाह - हारमयान्मुक्ताप्रालम्बमयानगणयत् । अग्रेऽप्येतस्य संबन्धः । आतपं सूर्यालोकं चन्दनमयं मलयजमयम् । अतिशीतलत्वादिति भावः । तथा पवनं समीरं कर्पूरमयं घनसारमयम् । तद्गन्धयुक्तत्वात् । तथा कालं समयमुदकमयं जलमयम् । त्रिभुवनं त्रिविष्टपं तुषारमयं हिममयम् । अतिशीतलस्य शेषाधिवशात्किरणरूपतया सत्त्वेऽपि हाररूपतयागणयदित्यर्थः । ___ एवंविधस्य तस्य हिमगृहस्य एकदेश एकस्मिन्प्रदेशे सखीकदम्बकेन वयस्यासमूहेन परिवृताम् । अशेषसरित्परिवारां समग्रतटिनीपरिच्छदा हिमवतः पर्वतात् गृहाचलगतां गृहशिलागतां भगवतीं गङ्गामिव जाह्नवीमिव, विरहजनितपाण्डुरत्वसाम्यात्तदुपमानम् । अन्यासां च नद्युपमानम् । कुल्या सारणी तस्याभ्रमिभ्रमण तया भ्रमितेन कर्पूररससोतसा घनसारद्रवप्रवाहेण कृतो विहितः परिवेषः परिधिर्यस्या एवंविधाया मृणालदण्डमण्डपिकाया बिसदण्डमण्डपस्य तलेऽधोभागे कुसुमशयनं पुष्पशय्यामधिशयानां कृतस्वापाम् । हारेति । हारो मुक्ताप्रालम्बः, अङ्गदं बाहुकटकम्, वलयं कङ्कणम्, रसना काञ्ची, नूपुराणि पादकटकानि, एतैर्मृणालमयैर्बिसमयैर्निगडैरिवान्दुकैरिवर्ण्यया स्पर्धया मन्मथेन कंदर्पण संयतां बद्धाम्, चन्दनेन धवले शुभ्रीकृते ललाटेऽलिके शशलाञ्छनेन चन्द्रेण स्पृष्टामिवालिङ्गितामिव । शुभ्रत्ववक्रत्वसाम्याच्चन्द्रोपमानम् । बाष्पवारि नेत्राम्बु तद्वाहिनि चक्षुषि नेत्रे वरुणेन प्रचेतसा चुम्वितामिव । जलच्युतिसाम्यावरुणेनेत्युक्तम् । वर्धितो वृद्धिं प्राप्तो निःश्वासमरुदेतनवायुर्यस्मिन्नेवंविधे मुखे । वायुबाहुल्यादाह - मातरिश्वना वायुना दष्टामिव भक्षितामिव । संतापः संज्चर - - - - - - - - -
-- - - - - - - - - - - - टिप्प० -1 शैत्यातिशयेन मुखवेपथुसमये उपर्यधोभागदन्तानां परस्परसंघट्टनजनितः शब्दो दन्तवीणा । 2 'गुहातलगताम्' इत्युचितः पाठः । हिमवतः हिमाचलस्य गुहातलस्थितां भगवतीं गङ्गामिव, इति स्फुटोऽर्थः । 3 चन्दनस्य चन्द्र उपमानमित्याशयः ।
पाटा० -१ निरन्तरमधुकर. २ नीहारमयान्. ३ गुहातलगताम्; महीतले पतिताम्. ४ दृष्टाम्.
(कादम्बरीभवने शीतोपचाराः
पूर्वभागः ।
1A1
Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494