Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
________________
I
तुरगधूलिरेखा धूसरं देवस्यैव गमनमार्गमालोकितवती । तिरोहितदर्शने च देवे मदलेखास्कन्धनिक्षिप्तमुखी प्रीत्या तं दिगन्तं दुग्धोदधिधवलैः प्लावयन्तीव दृष्टिपातैः सितातपत्रापदेशेन शशिनेर्ष्यया निवार्यमाणरविकिरणस्पर्शा सुचिरं तत्रैव स्थितवती । तस्माच्च कथमपि सखेदमवतीर्य क्षणमिवावेस्थानमण्डपे स्थित्वोत्थाय स्खलनभियेव निवेद्यमानोपहारकुसुमशब्दायमानैर्मधुकरैः, जलधाराधवलनखमयूखोन्मुखानामनुगलं गलद्भिर्वलयैः कण्ठबन्धानिवोपपादयन्ती केकारवोद्विग्ना भवनशिखण्डिनाम्, पदे पदे च कुसुमधवलान्करेण लैतापल्लवान्मनसा च देवस्य गुणगणानवलम्बमाना तमेव क्रीडापर्वतकमागतवती यत्र स्थितवान्देवः । तमुपेत्य च 'देवेनात्र मरकतशिलामकरिकाप्रणालप्रसवणसिच्यमानलैतामण्डपे सीकरिणि शिलातले स्थितम्, अत्र गन्धोदकपरिमललीनालिजालजटिलशिलाप्रदेशे स्नातम्, अत्र
***********
च्छदा सौधशिखरं गृहाधित्यकामारुह्यारोहणं कृत्वा तुरगस्याश्वस्य धूलिरेखा रजः पङ्क्तिस्तया धूसरं मलिनं देवस्यैव भवत एव गमनमार्ग - मालोकितवती । तिरोहितमदृश्यीभूतं दर्शनं वीक्षणं यस्यैवंभूते चे देवे मदलेखायाः स्कन्धोंऽसस्तत्र निक्षिप्तं स्थापितं मुखमाननं यया सैवंविधा प्रीत्या स्नेहेन दुग्धोदधिः क्षीरोदधिस्तद्वद्धवलैः शुभ्रैर्दष्टिपातैस्तं दिगन्तं प्लावयन्तीव क्षालयन्तीव सितं शुभ्रं यच्चातपत्रं छत्र तस्यापदेशेन व्याजेन | शुक्लत्ववर्तुलत्वसाम्यादाह - शशीति । शशी चन्द्रस्तेनेर्ष्यया स्पर्धया निवार्यमाणो दूरीक्रियमाणो रविकिरणानां सूर्यकिरणानां स्पर्शो यस्याः सैवंभूता सती सुचिरं चिरकालं तत्रैव सौधशिखरे स्थितवत्यवस्थानं कृतवती । तस्माच्चसौधशिखरात्सखेदं यथा स्यात्तथावतीर्यावतरणं कृत्वा क्षणमिवावस्थानमण्डपे स्थित्वोत्थाय स्खलनभियेव पतनभयेनेवोपहारस्य कुसुमानि तेष्वासमन्ताच्छब्दायमानैः शब्दं कुर्वाणैर्मधुकरैर्भ्रमरैर्निवेद्यमानेव विज्ञप्तिविषयीक्रियमाणेव । जलधारावद्धवलानां शुभ्राणां नखमयूखानां पुनर्भवकान्तीनामुन्मुखानां संमुखानामनुगलं निगरणमनुलक्षीकृत्य गलद्भिः पतद्भिर्वलयैः कटकैः करणभूतैर्भवनशिखण्डिनां गृहमयूराणां केकारवेणोद्विग्नोद्वेगं प्राप्ता सती कण्ठबन्धानुपपादयन्तीव रचयन्तीव । करेण हस्तेन पदे पदे च कुसुमधवलान्पुष्पवच्छुभ्रांल्लतापल्लवान्चल्लीकिसलयान मनसा च देवस्य भवतो गुणगणान्गुणसमूहानवलम्बमानावलम्बनं कुर्वाणा तमेव पूर्वोक्तमेव क्रीडापर्वतकमागतवती । यत्रेति । यस्मिन्स्थले देवो भवान्पूर्वं स्थितवान् । तं क्रीडाचलमुपेत्यागत्य च, अत्र सीकरा विद्यन्ते यस्मिन्नेवंविधे शिलातले देवेन स्थितमासितम् । कीदृशे मरकतस्य शिला तस्या मकरिकाप्रणाली मकरमुखो जलमार्गस्तस्य प्रसवणेन सिच्यमानो लतामण्डपो यस्य ( यस्मिन्) तत्तस्मिन् | अत्रेति । अस्मिन्गन्धोदकस्य सुगन्धजलस्य यः परिमलस्तेन लीना लग्ना येऽलयो भ्रमरास्तैर्जटिलो व्याप्तः शिलाप्रदेशस्तस्मिन्स्नातं कृताप्लवम् । अत्रेति । अस्मिन्कुसुमानां धूल्या परागेण सिकतिले सिकतायुक्ते गिरिनदिकातटे
434
-
-
टिप्प० 1 सूर्येण सह चन्द्रस्य स्पर्धा 'त्वं कादम्बरीं यदि तापयेस्तर्ह्यहं त्वत्तापं निवार्य शीतलयेयम्' इति । अत एव सितातपत्रस्य तु व्याजमात्रं, शुक्लत्वप्रकाशशालित्वादिगुणैश्चन्द्र एव सः । अत एव तेन निवार्यमाणातपेत्यर्थः । छत्रस्यापह्नवात्कैतवापह्नुतिरलंकारः । 2 'निवेद्य मानोपहारकुसुमा' इत्युचितः पाटः । विरहविचित्ता सेयमुपहारकुसुमेषु स्खलिष्यतीति भयात् उपहारकुसुमोपरि शब्दायमानैर्मधुकरैः निवेद्यमानानि (स्वशब्देः सूच्यमानानि 'पुष्पाण्यत्र, न स्खलितव्यम्' इति) उपहारकुसुमानिं यस्यैः सा; इति तदर्थः । 3 भवद्विरहिता सा गृहशिखिनां दुःखिता भवतीति कष्टेषु वलययोजनेन तान्मूकीकर्तुमिच्छति परं वलयप्रदानसमये तस्या नखमयूखेषु जलधाराभ्रमेण तद्ग्रहणाय ते उन्मुखा भवन्ति । अत एव समर्पणसमय एव ते वलयास्तेषां कण्ठादधः पतन्ति इत्याशयः । नखमयूखेष्वित्यत्र भ्रान्तिमान् व्यङ्ग्यः । कण्ठबन्धानुपपादयन्तीवेत्युत्प्रेक्षा तु स्फुटैव । 4 धारयन्तीत्यर्थः ।
पाटा० १ करस्पशां. २ आस्थान. ३ अनुपलम्. ४ गृहलता. ५ हरितलता.
कादम्बरी |
कथायाम्
Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494