Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 445
________________ गमनगौरवेणार्हसीमा गुणवदभिमानिनी कर्तुम् । उदारजनादरो हि बहुमानमारोपयत्यवश्यम् । सोढव्या चेयमस्मद्विधजनपरिचयकदर्थना कुमारेण । भवत्सुजनतैव जनयत्यनुचितसंदेशप्रागल्भ्यम् । एष देवस्य शयनीये विस्मृतः शेषो हारः' इत्युत्तरीयपटान्तसंयतं सूक्ष्मसूत्रविवरनिःसृतैरंशुसंतानैः संसूच्यमानं विमुच्य चामरग्राहिण्याः करे समर्पितवान् । अथ चन्द्रापीडः ‘महाश्वेताचरणाराधनतपःफलमिदं यदेवं परिजनेऽप्यनुस्मरणादिकं प्रसादभारमतिमहान्तमारोपयति देवी कादम्बरी' इत्युक्त्वा तत्सर्वं शिरसि कृत्वा स्वयमेव जग्राह । तेन च कादम्बर्याः कपोललावण्येनेव गलितेन, स्मितालोकेनेव रसतामुपनीतेन, हृदयेनेव द्रुतेन, गुणगणेनेव विस्यन्दितेन, स्पर्शवता ह्लादिना सुरभिणा च विलेपनेन विलिप्य तमेव कण्ठे हारमकरोत् । आगृहीतताम्बूलश्च मुहूर्तादिवोत्थाय वामबाहुना स्कन्धदेशेऽवलम्ब्य केयूरकमूर्ध्वस्थित एव कृतयथाक्रियमाणसंमानमुदितं प्रधानराजलोकं विसृज्य शनैः - *********** स्मरकल्पं कंदर्पतुल्यं त्वां स्मरति गोचरीकरोति अतो हेतोः पुनर्द्धितीयवारं यदागमनगौरवं तेन कृत्वेमां कादम्बरी गुणवत्स्वभिमानो विद्यते यस्या एवंविधां कर्तुमर्हसि योग्यो भवसि । हि निश्चितम् । उदारजनेष्वादरोऽवश्यं बहुमानं सत्कारमारोपयति । इयमस्मद्विधजनपरिचयजनिता या कदर्थना संकोचलक्षणा सा च कुमारेण सोढव्या सहनीया । सदेशानौचित्यदोषं परिहरन्नाह - भवदिति । भवतस्तव सुजनतैव सज्जनतैवानुचितोऽयोग्यो यः संदेशस्तत्र प्रागल्भ्यं पाण्डित्यं जनयति निष्पादयति । एष देवस्य शयनीये शय्यायां विस्मृतो विस्मरणं प्राप्तः शेषाभिधानो हार इत्युत्तरीयपटः संव्यानपटस्तस्यान्तेन प्रान्ताञ्चलेन संयतं बद्धं सूक्ष्मं यत्सूत्रं तेषां विवराणि रोकाणि तेभ्यो निःसृतैर्विनिर्गतैरंशुसंतानैः किरणसमूहैः संसूच्यमानमभिव्यज्यमानं चामरग्राहिण्याः करे विमुच्य समर्पितवान्प्रदत्तवान् । __ अथेति । हारप्रदानानन्तरं चन्द्रापीडस्तत्पूर्वप्रतिपादितं सर्वं शिरसि कृत्वा मस्तक आरोग्य स्वयमेवात्मनैव जग्राह गृहीतवान् । इतिशब्दार्थमाह - महाश्वेतेति । इदं महाश्वेतायाश्चरणयोराराधनं सेवनं तल्लक्षणं यत्तपस्तस्य फलं तस्माद्धेतोरेवममुना प्रकारेण परिजनेऽपि सत्यप्यनुस्मरणादिकमतिमहान्तं प्रसादभारमारोपयति देवी कादम्बरी । इत्युक्त्वेत्यभिधाय तत्पूर्वोक्तं शिरसि कृत्वा मस्तक आरोग्य जग्राह गृहीतवान् । तेनेति । तेनानिर्वचनीयस्वरूपेण स्पर्शवता ह्लादिना प्रमोदकारिणा सुरभिणा सुगन्धेन विलेपनेन विलिप्य कण्ठे तमेव हारमकरोदघटयत् । अथ श्वेतत्वसाम्याद्विलेपनमुत्प्रेक्षयन्नाह - कादम्बर्या इति । कादम्बर्या गलितेन च्युतेन कपोललावण्येन । (इव) च, तथा रसतामुपनीतेन द्रवतां प्रापितेन स्मितालोकेनेवादृष्टरदहास्यप्रकाशेनेव, द्रुतेन विलीनेन हृदयेनेव चित्तेनेव, विस्यन्दितेन प्रसवितेन गुणगणेनेव । अन्वयस्तु प्रागेवोक्तः । आगृहीतेति । आगृहीतं ताम्बूलं येन स तथा मुहूर्तादिवोत्थाय वामबाहुना केयूरकं स्कन्धदेशेऽवलम्ब्यालम्बनं विधायोर्ध्वस्थित एव कृतं विहितं यथाक्रियमाणं पूर्वपरम्परया विधीयमानं संमानं तेन मुदितं हर्षितमेवंविधं प्रधान प्रकृष्टं राजलोकं सामन्तादिसेवकवर्ग विसृज्य गृहे गम्यतामित्युक्त्वा शनैः शनैर्मन्दं मन्दं गन्धमादननामानं - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 आत्मानं गुणवन्तमभिमन्यते सा, चन्द्रापीडसदृशोपि ममान्तिकमागच्छतीति गुणवत्यहमित्यात्मन्यभिमान इत्याशयः । 2 अस्मद्विधानां गुणशून्यजनानां परिचयेन या कदर्थना (आत्मनोऽवमानः) सा सौजन्यवशात्कुमारेण सोढव्येत्यर्थः । 3 अनुपविष्ट एव, 'दण्डायमान एव' । पाटा० - १ हारः प्रहितः. २ अवलोकेन. ३ निःस्पन्दितेन. ४ समवलम्ब्य. 432 कादम्बरी । कथायाम्

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494