Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
लोचनेन बद्धमण्डलं भ्रमता भवनकलहंसेन प्रभातशशिनेव क्रियमाणगमनप्रणामप्रदक्षिणा कादम्बरी च समुपसृत्य कृतनमस्कारस्तस्यामेव वेदिकायां विन्यस्तमासनं भेजे । स्थित्वा च कंचित्कालं महाश्वेताया वदनं विलोक्य स्फुरितकपोलोदरं मन्दस्मितमकरोत् । असौ तु तावतैव विदिताभिप्राया कादम्बरीमब्रवीत् - 'सखी, भवत्या गुणैश्चन्द्रापीडश्चन्द्रकान्त इव चन्द्रमयूखैरार्दीकृतो न शक्नोति वक्तुम् । जिगमिषति खलु कुमारः । पृष्ठतो दुःखमविदितवृत्तान्तं राजचक्रमास्ते । अपि च युवयोर्दूरस्थितयोरपि स्थितेयमिदानी कमलिनीकमलबान्धवयोरिव कुमुदिनीकुमुदनाथयोरिव प्रीतिराप्रलयात् । अतोऽभ्यनुजानातु भवती' इति ।
अथ कादम्बरी 'सखी, महाश्वेते, स्वाधीनोऽयं सपरिजनो जनः कुमारस्य स्व इवान्तरात्मा । क इवात्रानुरोधः' इत्यभिधाय गन्धर्वकुमारानाहूय ‘प्रापयत कुमारं स्वां भूमिम्' इत्यादिदेश । चन्द्रापीडोऽप्युत्थाय प्रणम्य प्रथम महाश्वेता ततः कादम्बरी तस्याश्च प्रेमस्निग्धेन चक्षुषा मनसा च गृह्यमाणः 'देवि, किं ब्रवीमि । बहुभाषिणे न श्रद्दधाति लोकः । स्मर्तव्योऽस्मि परिजनकथासु' इत्यभिधाय कन्यकान्तःपुरान्निर्जगाम । कादम्बरीऽशेषः कन्यका -
*********** विलोचने नेत्रे यस्य स तेनैवंविधां कादम्बरी च । समुपसृत्य निकटे गत्वा कृतो नमस्कारो येनैवंभूतो यस्यां सा समुपविष्टास्ति तस्यामेव वेदिकायां विन्यस्तं स्थापितमासनं विष्टरं भेजेऽभजत् । तत्र कंचित्कालं स्थित्वा स्थितिं विधाय महाश्वेताया वदनं विलोक्य निरीक्ष्य स्फुरितं चलितं कपोलयोरुदरं मध्यप्रदेशो यस्मिनेतादृशं मन्दस्मितमीषद्धास्यमकरोत् । असौ महाश्वेता तु तावतैव स्मितमात्रेणैव विदितो ज्ञातोऽभिप्रायो यया सैवंविधा सती कादम्बरीमित्यब्रवीत् । इतिशब्दद्योत्यमाह - सखीति । हे सखि आलि, भवत्या गुणैः कारणभूतैश्चन्द्रापीडश्चन्द्रमयूखैः शशिकिरणैश्चन्द्रकान्त इव चन्द्रोपल इवार्टीकृतो वक्तुं कथयितुं न शक्नोति न समर्थो भवति । खलु निश्चयेन कुमारो जिगमिषति विचलिष्यति । पृष्ठतो मद्गमनानन्तरमविदितवृत्तान्तमज्ञातोदन्तमतएव दुःखं दुःखिंतराजचक्र नृपसमूह आस्ते वर्तते । अपि चेति युक्त्यन्तरे । युवयोः कादम्बरीचन्द्रापीडयो(रस्थितयोरपीदानीं सांप्रतं कमलिनीकमलबान्धवयोरिव पद्मिनीसूर्ययोरिव कुमुदिनीकुमुदनाथयोरिव कैरविणीचन्द्रमसोरिव प्रीतिः स्नेह आ प्रलयात्प्रलयं मर्यादीकृत्य आकल्पान्तादियं स्थिता । अतो हेतोर्भवत्यभ्यनुजानातु । गमनाज्ञां ददात्वित्यर्थः ।
अथेति । एतच्छ्रवणानन्तरं कादम्बरी गन्धर्वकुमारानाहूयाह्वानं कृत्वेत्यादिदेशेत्यादिष्टवती । इतिशब्दवाच्यमाह - कुमारेति । कुमार चन्द्रापीडं स्वां भूमिं प्रापयत आपयत यूयम् । किं कृत्वा । इत्यभिधायेत्युक्त्वा । इतिशब्दार्थमाह - हे सखि महाश्वेते, अयं मल्लक्षणः सपरिवारो जनः कुमारस्य स्वान्तरात्मेव स्वाधीनः स्ववशः । अतः कोऽत्रानुरोधः संकोचः । चन्द्रापीडोऽप्युत्थायोत्थानं कृत्वा प्रथममादौ महाश्वेतां प्रणम्य नमस्कृत्य ततस्तदनन्तरं कादम्बरी प्रणम्य नमस्कृत्य तस्याः कादम्बर्याः प्रेमस्निग्धेन स्नेहचिक्कणेन चक्षुषा नेत्रेण मनसा च गृह्यमाण इत्यभिधायोक्त्वा कन्यकान्तःपुरान्निर्जगाम निर्गतो बभूव । इतिशब्दार्थमाह - देवीति । हे देवि कादम्बरि, किं ब्रवीमि किं कथयामि । 'ब्रुवते हि फलेन साधवो न तु शब्देन' इति न्यायात् । अत्र हेतुमाह-यतो बहुभाषिणे वाचालाय लोको जनो न श्रद्दधाति न विश्वसिति । अत उपसंहरति - परीति । परिजनकथासु निजसेवकवार्तासु स्मर्तव्यः स्मरणीयोऽस्मि । अहमिति शेषः । तदन्तरं कादम्बरी -
-
-
- - -
- -
- - - - - - - - - -
- -
- - -
- -
- -
- - टिप्प० -1 गन्तुमिच्छति । 2 राजचक्र दुःखमास्ते दुःखाकुलं यथा स्यात्तथा वर्तते । 3 वशीक्रियमाण इत्यर्थः ।
पाठा० - १ सुधावेदिकायाम्. २ अनुजानातु. ३ सखि स्वाधीनः. ४ वर्जमशेषकन्यकाजनः; वर्जमशेषस्तु कन्याजनः.
428
कादम्बरी ।
कथायाम्
Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494