Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 442
________________ जो गुणगौरवाकृष्टः परवश इव तं व्रजन्तमाबहिस्तोरणादनुवव्राज । निवृत्ते च कन्यकाजने केयूरकेणोपनीतं वाजिनमारुह्य गन्धर्वकुमारकैस्तैरनुगम्यमानो हेमकूटाट्प्रवृत्तो गन्तुम् । गच्छतश्चास्य चित्ररथतनया न केवलमन्तः, 1 बहिरप सैव सर्वाशानिबन्धनमासीत् । तथा हि तन्मयेन मानसेनासह्यविरहदुःखानुशयलग्नामिव पृष्ठतः, कृतमार्गगमननिरोधामिव पुरस्तात्, वियोगाकुलहृदयोत्कलिकोवेशात्क्षिप्तामिव नभसि सम्यगालोकयितुं वदनम्, विरहातुरमानसामिवास्थितामुरःस्थले, तामेव ददर्श । क्रमेण च प्राप्य महाश्वेताश्रममच्छोदसरस्तीरे संनिविष्टमिन्द्रायुधखुरपुटानुसारेणैवागतमात्मस्कन्धावारमपश्यत् । निवर्तिताशेषगन्धर्वकुमारश्च सानन्देन सकुतूहलेन सविस्मयेन च स्कन्धावारवर्तिना जनेन प्रणम्यमानः स्वभवनं विवेश । समानिताशेषराजलोकश्च वैशम्पायनेन पत्रलेखया च सह ' एवं महाश्वेता, एवं कादम्बरी, एवं मदलेखा, एवं तमालिका, एवं केयूरकः, ' इत्यनयैव कथया प्रायो दिवसमनैषीत् । कादम्बरीरूपदर्शनविद्विष्टेव नास्य पूरे प्रीतिमकरोद्राजलक्ष्मीः । तामेव च - वर्जोऽशेषः समग्रः कन्यकाजनो गुणगौरवेणाकृष्ट आकर्षितः परवश इव परायत्त इव तं चन्द्रापीडं व्रजन्तं गच्छन्तमाबहिस्तोरणाद्बहिर्द्वारं मर्यादी कृत्यानुवब्राज पृष्ठतो जगाम । तदनन्तरं निवृत्ते च पश्चाद्वलिते च कन्यकाजने केयूरकेणोपनीतमानीतं वाजिनमारुह्यारोहणं कृत्वा तैः पूर्वोक्तैर्गन्धर्वकुमारकैरनुगम्यमानो हेमकूटाद्गन्तुं प्रवृत्तः । गच्छतो व्रजतोऽस्य चन्द्रापीडस्य चित्ररथतनया कादम्बरी न केवलमन्तर्बहिरपि सैव कादम्बरी सर्वाशानिबन्धनं समग्राभिलाषाणां कारणमासीद्बभूव । एतदेव दर्शयति - तथा हीति । तन्मयेन कादम्बरीमयेन मानसेन चित्तेन कृत्वासह्यं न सोढुं शक्यं यद्विरहदुःखं तस्यानुशयः संतापस्तेन पृष्ठतो लग्नामिव पुरस्तादग्रे कृतो मार्गगमनस्य निरोधो यया सैवंविधामिव, वियोगेन विरहेणाकुलं यद्धृदयं चित्तं तस्मिन्नुत्कलिका हृल्लेखस्तस्या आवेशात्प्रवेशात्सम्यग्वदनमालोकयितुं वीक्षितुं भ व्योम्नि क्षिप्तामिव पर्यस्तामिव । विरहेण वियोगेनातुरं पीडयितुं ( पीडितम् ) मानसं यस्या एवंविधामिवोरःस्थलेऽवस्थिताम् । तामेव कादम्बरीमेव ददर्शेक्षांचक्रे । क्रमेण परिपाट्या च महाश्वेताश्रमं प्राप्यासाद्याच्छोदसरस्तीरे संनिविष्टं स्थापितमिन्द्रायुधखुपुटानुसारेणैवागतं प्राप्तमात्मनः स्वस्य स्कन्धावारं सैन्यनिवेशमपश्यदैक्षत । निवर्तितेति । निवर्तिताः पश्चाद्वलिताअशेषाः समग्रा गन्धर्वकुमारा येनैवंभूतश्च सानन्देन सप्रमोदेन । सैव प्रभुदर्शनादिति भावः । सकुतूहलेन कौतुकसहितेन । अत्यद्भुतगन्धर्वजनदर्शनात् । सविस्मयेन साश्चर्येण । तादृशमुक्ताप्रालम्बदर्शनात् । एवंविधेन च स्कन्धावारवर्तिना जनेन प्रणम्यमानो नमस्क्रियमाणः स्वभवनं स्वगृहं विवेश प्रवेशं कृतवान् । संमानितः संस्तुतोऽशेषः समग्रो राजलोको येनैवंभूतश्च वैशम्पायनेन पत्रलेखया च सहैवं महाश्वेता, एवं कादम्बरी, एवं मदलेखा, एवं तमालिका, एवं केयूरकः, इत्यनयैव कथया वार्तया प्रायो बाहुल्येन दिवसं वासरमनैषीत् । परिपूर्णीचकारेत्यर्थः । कादम्बर्या रूपदर्शनं तेन विद्विष्टेव विद्वेषं प्राप्तेव राजलक्ष्मीर्नास्य पुरेऽस्य - टिप्प० - 1 गमनस्य पश्चात् यद्वियोगदुःखं तस्यानुशयात्पृष्ठतो लग्नाम् (इति पृष्ठनिरोधः पृथक् ), तन्मयेन मानसेन कृताग्रगमननिरोधाम् (इति संमुखतो निरोधः पृथक्), तन्मयमानसेन उत्कण्ठावेशात् नभसि क्षिप्तामिव (इति उपरितोनिरोधः पृथक् ), आत्मनः (कादम्बर्याः) मुखं सम्यग् दर्शयितुं आत्मनो वक्षसि स्थिताम् (पृथक्) । 2 बाणशब्दशय्यायां 'पुर' शब्दस्य शरीरमर्थः स्यात् ? अस्तु 'पुरेव' इत्युचितः पाठः । राजलक्ष्मीः पुरेव पूर्वमिव नास्य प्रीतिमकरोत्, कादम्बरीद्वेषात् । एतेन राजलक्ष्म्याः सपत्नीभावसूचनेन चन्द्रापीडस्य प्रभावातिशयो ध्वन्यते । पाठा० - १ अधिरुह्य. २ आवेशोत्क्षिप्ताम्; आवेशविक्षिप्ताम्. ३ तामेव मृगलोचनाम् ४ संभावितप्रत्यक्षीकृतराजलोकः, संमानितराजलोकः. ५ द्विष्टयेव. चन्द्रापीडस्य गृहप्रस्थानम् पूर्वभागः । 429

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494