Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 440
________________ वाजिकाभिः, परिणततालफलवल्कललोहितवस्त्राभिश्च रक्तपटव्रतवाहिनीभिः सितवसननिबिडनिबद्धस्तनपरिकराभिश्च धेतपटव्यजनाभिर्जटाजिनवल्कलाषाढधारिणीभिर्वणिचिह्नाभिस्तापसीभिः, साक्षादिव मन्त्रदेवताभिः पठन्तीभिर्भगेवतस्त्र्यम्बकस्याम्बिकायाः कार्तिकेयस्य विश्रवणस्य कृष्णस्यार्यविलोकितेश्वरस्याहतो विरिञ्चस्य पुण्याः स्तुतीरुपास्यमानाम्, अन्तःपुराभ्यर्हिताश्च सादरं नमस्कारैराभाषणैरभ्युत्थानैरासन्नवेत्रासनदानैश्च गन्धर्वराजबान्धववृद्धाः समानयन्ती महाश्वेताम्, पृष्ठतश्च समुपविष्टेन किंनरमिथुनेन मधुकरमधुराभ्यां वंशाभ्यां दत्ते ताने कलगिरा गायन्त्या नारदहिव्या पठ्यमाने च सर्वमङ्गलमहीयसि महाभारते दत्तावधानां पुरो धृते च दर्पणे ताम्बूलरागबद्धकृष्णिकान्धकारिताभ्यन्तरं दशनज्योत्स्नासिक्तमुत्सृष्टमधूच्छिष्टपट्टपाण्डुरमधरं विलोकयन्ती शैवलतृष्णया कर्णपूरशिरीषप्रेषितोत्तानवि - *********** ताभिः । रक्तेति । रक्तो यः पटस्तस्य यव्रतं तद्वाहिनीभिस्तनिर्वाहकारिणीभिः । अथ तापसी विशिनष्टि - सितेति । सितवसनेन श्वेतवस्त्रेण निबिडं यथा स्यात्तथा निबद्धः स्तनपरिकरः कुचाभोगो याभिः । श्वेतपटस्य व्यजनानि तालवृन्तानि यासां ताभिः । जटेति । जटाः सटाः, अजिनं मृगचर्म, वल्कलं चोचम्, आषाढः पालाशः, एतान्धारयन्तीत्येवंशीलास्ताभिः । वर्णी ब्रह्मचारी तस्य चिह्न यासां ताभिः । किं कुर्वन्तीभिरेताभिः । पठन्तीभिरुच्चारयन्तीभिः । काः । भगवतस्त्र्यम्बकस्येश्वरस्य, अम्बिकाया गौर्याः कार्तिकेयस्य स्कन्दस्य विश्रवणस्य विश्रवसः, कृष्णस्य जिनस्य, आर्यविलोकितेश्वरस्य बौद्धस्य, अर्हतस्तीर्थंकरस्य, विरिञ्चस्य ब्रह्मणः, पुण्याः पवित्राः स्तुतीनुतीः । पुनः किं कुर्वन्तीम् । अन्तःपुरेऽभ्यर्हिताः श्रेष्ठा गन्धर्वराजस्य बान्धवाः स्वजनास्तेषां वृद्धाः स्थविराः सादरं सत्कारपूर्वकं नमस्कारैः प्रणामैराभाषणैर्जल्पनैरभ्युत्थानैरुत्तिष्ठनैरासने समीपे वेत्रासनस्यासन्या दानैश्च कृत्वा समानयन्ती सत्कारं कुर्वन्ती महाश्वेताम् । पुनः कीदृशी कादम्बरीम् । पृष्ठतः समुपविष्टेन पश्चाद्भागस्थितेन किंनरमिथुनेन किंपुरुषयुग्मेन मधुकरवन्मधुराभ्यां वंशाभ्यामुपाङ्गाभ्यां ताने स्वरे दत्ते सति । नारदो देवब्रह्मा तस्य दुहित्र्या पुत्र्या मद्राभिधानया कलगिरा मनोज्ञवाण्या गायन्त्या गानं कुर्वन्त्या । पठ्यमाने गानद्वारा कथ्यमाने च सर्वमङ्गलैः समग्रश्रेयोभिर्महीयसि महाभारते दत्तावधानां न्यस्तचित्ताम् । पुनः किं कुर्वन्तीम् । पुरो धृतेऽग्रे स्थापिते दर्पणेऽधरं दन्तच्छदं विलोकयन्तीं पश्यन्तीम् । अथाधरं विशेषयन्नाह - ताम्बूलेति । ताम्बूलं नागवल्लीदलं तस्य रागस्तेन बद्धा या कृष्णिका श्यामता तयान्धकारितमन्धकारवदाचरितमभ्यन्तरं मध्यभागो यस्य तत् । दशनेति । दशनानां दन्तानां या ज्योत्स्ना चन्द्रिका तया सिक्तं सिञ्चितम् । उत्सृष्टेति । उत्सृष्टमुज्झितं मधु क्षौद्रं येनैवंविधो य उच्छिष्टपट्टो मदनैपिण्डस्तद्वत्पाण्डुरं श्वेतरक्तम् । बद्धेति । बद्धमण्डलं यथा स्यात्तथा भ्रमता भ्रमणं कुर्वता भवनकलहंसेन गृहकलहंसेन प्रभातकालीनो यः शशी चन्द्रस्तेनेव क्रियमाणा विधीयमाना गमनसमये प्रणामयुक्ता प्रदक्षिणा यस्याः सा ताम् । कलहंसान्विशेषयन्नाह - शैवलेति । शैवलं शैवालं तस्य तृष्णया गर्थेन कर्णपूरीकृतं यच्छिरीषपुष्पं तस्मिन्प्रेषित उत्तान ऊर्ध्वमुखे - - - - - - - - - - - - - - - टिप्प० . 1 कृष्णस्य - वासुदेवस्य । 2 उत्थानैरित्येव भवति, न उत्तिष्ठनैरिति बोध्यं छात्रैः । 3 वेणुभ्याम्, 'बंसी इति भाषा । 4 'मोम' इति ख्यातस्य पिण्डः । 5 भवनकलहंसेन क्रियमाणाः गमनं प्रणामः प्रदक्षिणाश्च यस्यास्ताम् । हंसः समीपे गमनं प्रणाम प्रदक्षिणां च कृत्वा कर्णपूरशिरीषं याचत इत्यर्थः । 6 कलहंसमित्येकवचनमेव योग्यम् । पाठा० - १ मौजीवल्कल. २ शौद्धोदने. ३ विष्टरश्रवसो जिनस्यार्य. ४ अर्हतो वैश्वदेवस्य मार्तण्डस्य. ५ दर्शनागतगन्धर्व. ६ मिथुनकेन. ७ मधुराभ्याम्. ८ स्थानके ताले. ९ नारददुहित्रा च सावित्र्या. १० पुरोविधृते परिजनेन. ११ मणिदर्पणे. १२ उत्सृष्ट. १३ पाटलम्. (चन्द्रापीडस्य कादम्बर्युपगमनम् पूर्वभागः ।

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494