Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 438
________________ मनया परिगृहीतम्, किं पुनरमुनोपचारफल्गुना वचसा सदेहदोलामारोप्यते' इति । स्थित्वा च कंचित्कालं कृतप्रस्तावा 'कथं राजा तारापीडः, कथं देवी विलासवती, कथमार्यः शुकनासः, कीदृशी चोज्जयिनी, कियत्यध्वनि सा च, कीदृग्भारतं वर्षम्, रमणीयो वा मर्त्यलोकः' इत्यशेषं पप्रच्छ । एवंविधाभिश्च कथाभिः सुचिरं स्थित्वोत्थाय कादम्बरी केयूरकं चन्द्रापीडसमीपशायिनं समादिश्य परिजनं च शयनसौधशिखरमारुरोह । तत्र च सितदुकूलवितानतलास्तीर्ण शयनीयमलंचकार । चन्द्रापीडोऽपि तस्मिन्नेव शिलातले निरभिमानतामभिरूपतामतिगम्भीरतां च कादम्बर्याः निष्कारणवत्सलतां च महाश्वेतायाः, सुजनतां च मदलेखायाः, महानुभावतां च परिजनस्य, अतिसमृद्धिं च गन्धर्वराजलोकस्य, रम्यतां च किंपुरुषदेशस्य मनसा भावयन्केयूरकेण संवाह्यमानचरणः क्षणादिव क्षणदां क्षपितवान् । अथ क्रमेण कादम्बरीदर्शनजागरखिन्नः स्वप्नुमिव तालतमालतालीकदलीकन्दलिनी प्रेविरलकल्लोलानिलशीतलां वेलावनराजिमवततार तारापतिः । अभ्यर्णविरहविधुरस्य च कामिनीजनस्य निःश्वसितैरिवोष्णैानिमनीयत चन्द्रिका । चन्द्रापीडविलोकनारूढमदनेव - *********** मात्तम् । किं पुनरमुनोपचारेण फल्गुना निरर्थकेन वचसा किं वचनव्यापारेण संदेहदोलामारोप्यते । मन इति शेषः । इत्युक्तप्रकारेण कंचित्कालं स्थित्वा विलम्ब्य च कृतो विहितः अर्थात्प्रश्नस्य प्रस्तावोऽवसरो यया सैवंविधा सतीत्यशेषं समग्रं पप्रच्छापृच्छत् । इतिशब्दयोत्यमाह - कथमिति । कथं केन प्रकारेण राजा तारापीडः । देवी विलासवती कथम् । कथं आर्यः शुकनासः । कीदृशी चौज्जयिनी विशाला । सा चोजयिनीतः कियत्यध्वनि मार्गे । कीदृग्भारतं वर्षं क्षेत्रम् । रमणीयो वा मनोहरो वा मर्त्यलोको मनुष्यलोकः । एवमिति । एवंविधाभिरेवंप्रकाराभिः कथाभिर्वार्ताभिः सुचिरं बहुकालं स्थित्वावस्थानं कृत्वोत्थाय कादम्बरी केयूरकं चन्द्रापीडसमीपशायिनं परिजनं च समादिश्यादेशं दत्त्वा शयनयोग्यं यत्सौधशिखरं तदारुरोहारूढवती । तत्रेति । तत्र तस्मिन्सौधतले सितं शुभ्रं यदुकूलं दुगूलं तस्य वितानं चन्द्रोदयस्तस्य तलमधोभागस्तत्रास्तीर्णं स्थापितं शयनीयं शय्यामलंचकारालंकृतवती । चन्द्रापीडोऽपि तस्मिन्नेव शिलातले निरभिमानतां निर्गर्वतामभिरूपतां विचक्षणतामतिगम्भीरतां च कादम्बर्याः निष्कारणवत्सलतां च निर्हेतुकहितकारितां च महाश्वेतायाः, सुजनतां च मदलेखायाः, महानुभावतां च परिजनस्य, अतिसमृद्धिं च गन्धर्वराजलोकस्य, रम्यतां मनोहरतां च किंपुरुषदेशस्य मनसा भावयश्चिन्तयन्केयूरकेण संवाह्यमानौ लाल्यमानौ चरणौ पादौ यस्यैवंभूतः क्षणादिव क्षणमात्रेणेव क्षणदां त्रियामां क्षपितवान्क्षयं नीतवान् । इदानीं रात्रिशेषं चन्द्रास्तं सूर्योदयं च वर्णयश्चन्द्रापीडकर्तव्यतामाह - अथेति । क्षणदाक्षयानन्तरं कादम्बर्या यत् दर्शनं अवलोकन तेन जागरणं तेन खिन्नो रीणः स्वप्नुमिव शयनं कर्तुमिव तारापतिश्चन्द्रः । वेलेति । वेलाम्भसां वृद्धिस्तस्या वनराजि कान्तारश्रेणिमवततारावतीर्णवान् । अथ वनराजिं वर्णयन्नाह - तालेति । तालस्तालवृक्षः, तमालस्तापिच्छः, ताली वृक्षविशेषः, कदली रम्भा, आसां कन्दैलो विद्यते यस्यां सा ताम् । प्रविरलेति । प्रविरलाः स्तोका ये कल्लोलास्तरंगास्तेषामनिलो वायुस्तेन शीतलां सुशीताम् । अभ्यर्णेति । अभ्यर्णस्तत्कालीनो यो विरहो वियोगस्तेन विधुरस्य दुःखितस्य कामिनीजनस्योष्णैनिःश्वसितैनिःश्वासैरिव म्लानिं मलिनतां चन्द्रिका चन्द्रगोलिकानीयत प्राप्यत । चन्द्रेति । चन्द्रापीडविलोकनेन आरूढः प्राप्तो मदनो - - - - - - - - - - - - - - टिप्प० - 1 इतः कियहूरे वर्तत इति तात्पर्यम् । 2 समूहः । 3 रात्रिसमाप्त्या कामिनोविच्छेदो जात इत्याशयः। पाठा०.१ प्रजागर. २ अविरल. (काद०चन्द्रापी० प्रीतिवर्धक उपचारः पूर्वभागः । 425

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494