Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
________________
दन्तादिवोत्कीर्णे भुवने, चन्द्रापीडश्चन्द्रातपनिरन्तरतयैव कुमुदमय्या इव गृहकुमुदिन्याः कल्लोलधौतसुधाधवलसोपाने तनुतरङ्गतालवृन्तवातवाहिनि सुप्तहसमिथुने विरहवाचालचक्रवाकयुगले तीरे, कुमुददलावलीभिः पर्यन्तलिखितपत्रलतादन्तुरमवदातसिन्दुवारदामोपहारं हरिचन्दनरसैः प्रक्षालितं कादम्बरीपरिजनोपदिष्टं मुक्ताशिलापट्ट चन्द्रशीतलमधिशिश्ये । तत्रस्थस्य चास्याऽऽगत्याकथयत्केयूरकः ‘देवी कादम्बरी देवं द्रष्टुमागता' इति ।
अथ चन्द्रापीडः ससंभ्रममुत्थायागच्छन्तीम्, अल्पसखीजनपरिवृताम्, अपनीताशेषराजचिह्नाम्, इतरामिवैकावलीमात्राभरणाम्, अच्छाच्छेन चन्दनरसेन धवलीकृततनुलताम्, एककर्णावसक्तदन्तपत्राम्, इन्दुकलाकलिकाकोमलं कर्णपूरीकृतं कुमुददलं दधानाम्, ज्योत्स्नाशुचिनी कल्पद्रुमदुकूले बिभ्रतीम्, तत्कालरमणीयेन वेषेण साक्षादिव चन्द्रोदयदेवताम्, मदलेखया दत्तहस्तावलम्बां कादम्बरीमपश्यत् । आगत्य च सा प्रीतिपेशलतां दर्शयन्ती प्राकृते परिजनोचिते भूतले समुपाविशत् । चन्द्रापीडोऽपि 'कुमार, अध्यास्यतां शिलातलमेव -
*********** भुवनस्य व्याप्तत्वादाह - दन्तेति । दन्तादिवोत्कीर्णे भुवने विष्टपे जाते सति । चन्द्रापीडश्चन्द्रातपस्य चन्द्रालोकस्य निरन्तरता सर्वस्मिनभिव्याप्तिस्तया हेतुभूतया । एवं विरलकुमुदवत्या अपि । गृहकुमुदिन्याः कुमुदमय्याः कुमुदप्रकर्षवत्या इव ये कल्लोलाः श्चेतिमोत्कर्षास्तै|तं निर्मलीकृतं सुधया धवलं सोपानं यस्मिन् । तनवः सूक्ष्मा ये तरङ्गाः कल्लोलास्त एव वातहेतुत्वात्तालवृन्तानि व्यजनानि तेषां वातं वहत्येवंशीलं तस्मिन् । सुप्तानि हंसानां मिथुनानि यस्मिन् । विरहेण वियोगेन वाचालानि मुखराणि चक्रवाकयुगलानि यस्मिन्नेवंविधे तीरे । गृहदीर्घिकाया इति शेषः । कुमुदानां कैरवाणां दलावलीभिः पत्रश्रेणिभिः पर्यन्ते प्रान्ते लिखिताः पत्रलताः पत्रभङ्ग्यस्ताभिर्दन्तुरम् । तद्वदवदातानि सिन्दुवारदामानि निर्गण्डीस्त्रजस्तेषामपहारो यस्मिंस्तबद्धरिचन्दनं गोशीर्षचन्दनं तस्य रसैः प्रक्षालितं धौतम । कादम्बर्याः परिजनः परिच्छदस्तेनोपदिष्टं कथितं मुक्तावद्धवलं शुभ्रं शिलापट्ट चन्द्रेण शीतलमधिशिश्ये । शयनं चकारेत्यर्थः । तत्रस्थस्यास्य चन्द्राइस्य केयूरक आगत्येत्यकथयत् । इतिशब्दद्योत्यमाह - कादम्बरीति । कादम्बरी देवी देवं भवन्तं द्रष्टुमागता ।
अथेति । तत्कथनानन्तरं ससंभ्रममुत्थाय स चन्द्रापीडः कादम्बरीमपश्यत् । अथ कादम्बरी विशेषयन्नाह - आगच्छन्तीमिति । आगच्छन्तीमायान्तीम् । अल्पेति । अल्पः स्तोको यः सखीजनस्तेन परिवृताम् । अपनीतं दूरीकृतमशेष समग्रं राजचिह्न यया सा ताम् । अतएवेतरामिव पूर्वव्यावर्णितस्वरूपाऽभिन्नामिवैकावलीमात्रमाभरणं विभूषणं यस्याः सा ताम् । अच्छं चाच्छं चाच्छाच्छं तेन । अतिनिर्मलेनेत्यर्थः । एतादृशेन चन्दनरसेन धवलीकृता तनुलता यया सा ताम् । एककर्णेऽवसक्तं क्षिप्तं दन्तपत्रं यया सा ताम् । तथाविधदेशाचाग्वादिति भावः । पुनः किं कुर्वाणाम् । कर्णपूरीकृतं कुमुददलं कैरवपत्रं दधानाम् । कीदृशम् । इन्दुकला चन्द्रकला सैव कलिका तद्वत्कोमलं गुकुमारम् । पुनः किं कुर्वन्तीम् । ज्योत्स्नावच्छुचिनी पवित्रे कल्पद्रुमस्य दुकूले बिभ्रतीं दधानाम् । तत्कालरमणीयेन तत्समयमनोहरण वपेण नेपथ्येन साक्षाच्चन्द्रोदयदेवतामिव । मदलेखया दत्तो हस्तावलम्बः करावलम्बो यस्याः सा ताम् । अन्वयस्तु प्रागुक्तः । आगत्य च प्रीतिपेशलतां स्नेहसुन्दरतां दर्शयन्ती प्रकटयन्ती प्राकृते नीचे परिजनस्य सेवकजनस्योचिते योग्ये भूतले - टिप्प० - 1 विरलकुमुदापि गृहकुमुदिनी (सरसी) चन्द्रातपव्याप्ततया कुमुदमयी जाता, चन्द्रिकैव कुमुदस्थानीया जातेत्यर्थः । ईदृश्या गृहकुमुदिन्याः कल्लोलधौत० इत्यादिविशेषिते तीरे शिलापट्ट चन्द्रापीडोऽधिशिश्ये इति योजना । 2 'प्राकृतेव' इत्यपि पाठः । साधारणस्त्रीव, इति तदर्थः । स्थानस्य प्राकृतमिति विशेषणं तु न रोचते विदुषे ।
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ दन्तिदन्ताम्. २ कुमुद इव. ३ धूत. ४ पत्रलतादन्तुरम्; दन्तपत्रलतम्. ५ प्राकृतेव.
काद०चन्द्रापी० प्रीतिवर्धक उपचारः
पूर्वभागः ।
423
Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494