Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 434
________________ दितकुचा, चकितपरिवर्तनत्रुट्यत्रिवलीलता, समस्तचिकुरकलापसंकलनाकुलकेरतला, कटाक्षक्षेपधवलीकृतकर्णोत्पलं विलक्ष्यमाणस्मितसुधाधूलिधूसरितकपोलं साचीकृत्य वदनमनेकरसंभङ्गिभङ्गुरं विलोकयन्ती, तावदवतस्थे यावदुपसंहतालोको लोहितो दिवसो बभूव । अथ हृदयस्थितकमलिनीरागेणेव रज्यमाने राजीवजीवितेश्वरे सकललोकचक्रवालचक्रवर्तिनि भगवति पूष्णि, क्रमेण च दिनपरिलम्बनरोषरक्ताभिः कामिनीदृष्टिभिरिव संक्रामितशोणिम्नि व्योम्नि, संहृतशोचिषि जाते जरठहारीतहरितवाजिनि, रविविरहमीलितसरोजसंहतिषु हरितायमानेषु कमलवनेषु, श्वेतायमानेषु कुमुदखण्डेषु, लोहितायमानेषु दिङ्मुखेषु, - *********** ताभ्यामूरुभ्यां यथाकथंचिद्विधृतमपि शिथिलं दुकूलं यस्याः सा । क्षितितले दोलायमानोंऽशुकस्योत्तरीयस्यैकदेशस्तेनाच्छादितौ कुचौ यया सा । चकितं ससंभ्रमं यत्परिवर्तनं तेन त्रुट्यन्ती त्रिवलीलता यस्याः सा । समस्ताः समग्रा ये चिकुराः कुन्तलास्तेषां कलापः समूहस्तस्य संकलनं स्वकीयस्थले स्थापनं तेनाकुलं व्याक्षिप्तं करतलं यस्याः सा । किं कुर्वती । वदनं मुखं साचीकृत्य वक्रीकृत्यानेके रसास्तेषां भङ्गी रचनाविशेषस्तेन भङ्गुरं वक्रं यथा स्यात्तथा विलोकयन्ती । अथ वदनं विशेषयन्नाह - कटाक्षेति । कटाक्षाणां क्षेपस्तेन धवलीकृतं कर्णोत्पलं यस्मिन् । विलक्ष्यमाणं यस्मितं तदेव सुधा तस्या धूलिस्तया धूसरितौ कपोलौ यस्मिन् । तावदवतस्थे यावदुपसंहत एकीभूत आलोको यस्मिन्नेवंविधो लोहितो रक्तो दिवसो बभूव । एतेन संध्यासमयो जात इति ज्ञापितम् ।। अथ प्रदोषसमयं वर्णयन्नाह - अथेति । जातायामदर्शनक्षमायां वेलायां कादम्बरी सौधशिखरात्क्रीडापर्वतकनितम्बाच्च चन्द्रापीडोsवततारेत्यन्वयः । कस्मिन्सति । रागेणानुरज्यमाने सति रक्ततां प्राप्यमाणे सति । रक्तत्वसाम्यादाह - हृदयस्थितो यः कमलिनीरागस्तेनेव राजीवानां कमलानां जीवितं तस्यैश्वरः स्वामी तस्मिन्सकलः समग्रो यो लोकस्तस्य चक्रवालं मण्डलं तस्य चक्रवर्तिनि सार्वभौमे भगवति माहात्म्यवति । जरठः परिणत एवंविधो यो हारीतो मृदङ्कुरस्तद्वद्धरिता नीला वाजिनो यस्य स तस्मिन् । पुनः कीदृशे । संहृतशोचिष्यात्तदीधितौ एवंविधे पूष्णि सूर्ये जाते सति । तथा क्रमेण च परिपाट्या दिनस्य सूर्यस्य परिलम्बनमस्तसमयस्तेन रोषो नायको दत्तसंकेतोऽद्यापि नागत इत्येवंरूपस्तेन रक्ताभिः कामिनीदृष्टिभिरिव संक्रामितः शोणिमा रक्तिमा यस्मिन्नेवंविधे व्योम्न्याकाशे सति । पुनः केषु । रविरिति । रविः सूर्यस्तस्य विरहो वियोगस्तेन मीलिताः संकुचिता याः सरोजसंहतयः कमलराजयस्तासु । पुनः केषु । कमलवनेषु नलिनखण्डेषु हरितायमानेषु नीलायमानेषु सत्सु । तथा कुमुदखण्डेषु कैरववनेषु चेतायमानेषु गौरवदाचरमाणेषु । प्रफुल्लितत्वादिति भावः । तथा लोहितायमानेषु रक्तायमानेषु दिङ्मुखेषु सत्सु । तथा नीलायमाने हरितायमाने शर्वरीमुखे प्रदोषे । - - - - - - - - - - - टिप्प० - 1 विभ्रमवशादुत्तरीयांशुकः स्वस्थानादपसृत्य भूमौ लम्बितः पुनश्च सविलासं स्वस्थानं स्थापितस्तेनाच्छादितकुचा । 2 'विलक्षस्मित' इत्युचितः पाठः । सलज्जं यस्मितमित्यर्थः । 3 अत्र राजीवजीवितेश्वरे सकल ....... चक्रवर्तिनि भगवति पूष्णि (सूर्य) कमलिनीरागेणेव रज्यमाने सति (स्वाभाविके रक्तवर्णे कमलिन्यनुरागस्योत्प्रेक्षा) । इति पृथगन्वयः । संक्रामितशोणिम्नि व्योम्नि, इति पृथक् । जरठहारीतहरितवाजिनि (सूर्य) संहृतशोचिषि संकोचितप्रकाशे जाते सति, इति पृथक् । 4 रविविरहेण मीलिताः सरोजसंहतयो येषु ईदृशेषु कमलवनेषु हरितायमानेषु सत्सु इत्यर्थः । पाठा० - १ असंसस्त. २ करकमला. ३ कर्णोत्पल. ४ विलक्ष्यमाणस्मितधूलिधूसरकपोलम्; विलक्षस्मितसुधाधूलिधूसरितैककपोला; विलक्ष्यस्मितसुधाधूलिधूसरितकपोलम्, विलक्ष्य चास्मितसुधाधूलिधूसरितकपोलम्. ५ साचीकृत. ६ भ्रूभङ्गि. ७ उपसंहृत. ८ सकलचक्रवाकचक्रवालचित्तवर्तिनि. ९ उष्णदीधितो. १० जनित. ११ कमलवनेषु निजसुहृदमृतमूर्तिसमालोकनाशया हर्षप्रकर्षसंदर्शितस्मितेष्विवोन्मुखेषु धवलायमानेषु कुमुदखण्डेषु. सन्ध्यावर्णनम् पूर्वभागः ।।

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494