Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
नीलायमाने शर्वरीमुखे, शनैःशनैश्च पुनर्दिनश्रीसमागमाशाभिरिवानुरागिणीभिः सहैव दीधितिभिरदर्शनतामुपगते भगवति गभस्तिमालिनि, तत्कालविजृम्भितेन च कादम्बरीहृदयरोगसागरेणेवापूरिते संध्यारागेण जीवलोके, कुसुमायुधानलदह्यमानहृदयसहस्त्रधूम इव जनितमानिनीनयनवारिणि विस्तीर्यमाणे तरुणतमालत्विषि तिमिरे, दिक्करिकरोंवकीर्णसीकरासार इव श्वेतायमानतारागणे गंगने, जातायां चादर्शनक्षमायां वेलायां सौधशिखरादवततार कादम्बरी क्रीडापर्वतकनितम्बाच्च चन्द्रापीडः । ततोऽचिरादिव गृहीतपादः प्रसाद्यमान इव कुमुदिनीभिः, कलुषमुखीः कुपिता इव प्रसादयनाशाः, प्रबोधाशङ्कयेव परिहरन्सुप्ताः कमलिनीः, लाञ्छनच्छलेन निशामिव हृदयेन समुदहन, रोहिणीचरणताडनलग्नमलक्तकरसमिवोदयरागं दधानः, तिमिरनीलाम्बरां दिवमभिसारिकामिवोपसर्पन्, अतिवल्लभतया विकिरन्निव सौभाग्यमुदगाद्भगवानीक्षणोत्सवः सुधासूतिः । उच्छ्रिते च कुसुमायुधाधिराज्यैकातपत्रे कुमुदिनीवधूवरे विभावरीविलासदन्तपत्रे श्वेतभानौ धवलितदिशि, -
***********
शनैःशनैः पुनर्दिनश्रियां यः समागमस्तस्याशाभिरिवानुरागिणीभिर्दीधितिभिः सह भगवति गभस्तिमालिनि सूर्येऽदर्शनतामदृश्यतामुपगते प्राप्ते सति । पुनः संध्यारागेण जीवलोक आपूरिते सति । केनेव । तत्कालविजृम्भितेन तदात्वप्रसृतेन कादम्बर्या हृदयरागस्तलक्षणो यः सागरः समुद्रस्तेनेव । पुनः कस्मिन् । विस्तीर्यमाणे विस्तारं प्राप्यमाणे । तरुणो नवीनो यस्तमालस्तापिच्छः तस्य त्विडिव त्विट् यस्मिन्नेवंविधे तिमिरेऽन्धकारे सति । तस्य नीलत्वेन साम्यादाह - कुसुमेति । कुसुमायुध एवानलो वह्निस्तेन दह्यमानं ज्वलमानं यद्धृदयसहसं तस्य धूम इव । कीदृशे । जनितमुत्पादितं मानिनीनां नयनेषु वारि येन तस्मिन् । अद्यापि पतिगृह नागत इति दुःखेन मानिनीनयनेष्यश्रुसद्भाव इत्यर्थः । एतेन धूमसादृश्यं ध्वनितम् । दिगिति । दिक्करिणां दिग्गजानां ये कराः शुण्डादण्डास्तैरवकीर्णोऽवध्वस्तो यः सीकरासारस्तस्मिन्निव श्वेतायमाने दीप्यमाने तारागणे नक्षत्रसमूहे गगने व्योम्नि जाते सति । अन्वयस्तु प्रागुक्तः । ततस्तदनन्तरमचिरादिव स्तोककालेनेव सुधासूतिश्चन्द्र उदगादुदयं प्राप्तवान् । गृहीतेति । गृहीताः पादा यस्य सः । प्रसाद्यमान इव । काभिः । कुमुदिनीभिः कैरविणीभिः । कलुषमुखीः कुपिता इव आशा दिशः प्रसादयन्प्रसन्नीकुर्वन् । सुप्तानां कमलिनीनां प्रबोधो मा भूदित्याशङ्कया परिहरंस्त्यजन् । लाञ्छनच्छलेनाङ्कमिषेण निशामिव हृदयेन समुद्रहन्धारयन् । पुनः किं कुर्वाणः । उदयरागं दधानः । कमिव । रोहिण्याचरणेन रतिकलहेन यत्ताडनं तेन लग्नं अलक्तकरसमिव पानकद्रवमिव । तिमिरमेव नीलमम्बरं वस्त्रमेतादृशीं दिवं नीलावगुण्ठनसाम्यादभिसारिकामिवोपसर्पन्गच्छन् । अतिवल्लभस्य भावोऽतिवल्लभता तया सौभाग्यं विकिरनिव विक्षिपन्निव । कीदृशः भगवान्माहात्म्यवान् । पुनः किंविशिष्टः । ईक्षणानां नेत्राणामुत्सव इव । उच्छ्रिते च वृद्धि प्राप्ते च कुसुमायुधः कंदर्पस्तस्याधिराज्यं साम्राज्यं तस्य एकमद्वितीयमातपत्रं तस्मिन् । कुमुदिनी कैरविणी सैव वधूस्तस्या वरः प्राणनाथस्तस्मिन् । पाण्डुरत्वसाम्येनाह - विभावरीति । विभावयस्त्रियामाया विलासार्थं दन्तपत्रं कर्णाभरणं तस्मिञ्श्वेताः शुभ्रा भानवः किरणा यस्मिन् । धवलिताः शुभ्रीकृता दिशो येन स तस्मिन् । चन्द्रालोकेन - - - - - - - - - - -
- - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 चेतायमानास्तारागणा यस्मिन्नित्यर्थः । 2 यावकद्रवमिवेत्युचितम् । 3 लोकानामतिप्रीतिपात्रतया तेषु सौभाग्यं प्रीतिं वर्षन्निव । 4 एवं विशिष्टे श्वेतभानौ उदिते सतीत्यन्वयः ।
पाठा० - १ तत्कालनिनर्तिषोपात्तभुजसहस्त्रविस्तारितसर्वपुरस्कृतगजचर्मणेव नीलायमाने. २ रागरस. ३ चक्रवाकहृदय. ४ नयनासारवारिणि. ५ आकीर्ण. ६ गगने जाते. ७ नचिरात्. ८ नीलाम्बरवराम. ९ उदिते.
422
कादम्बरी।
कथायाम्

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494