Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 437
________________ इत्यसकृदनुबध्यमानोऽपि मदलेखया भूमिमेवाभजत । सर्वासु चासीनासु तासु मुहूर्तमिव स्थित्वा वक्तुमुपचक्रमे चन्द्रापीडः - ‘देवि, दृष्टिमात्रप्रीते दासजने संभाषणादिकस्यापि प्रसादस्य नास्त्यवकाशः, किमुतैतावतोऽनुग्रहस्य । न खलु चिन्तयन्नपि निपुणं तमात्मनो गुणलवमवलोकयामि, यस्यायमनुरूपोऽनुग्रहातिरेकः । अतिसरला तवेयमपगताभिमानमधुरा च सुजनता यदभिनवसेवकजनेऽप्येवमनुरुध्यते । प्रायेण मामुपचारहार्यमदक्षिणं देवी मन्यते । धन्यः खलु परिजनः, ते यस्योपरि नियन्त्रणा स्यात् । आज्ञासंविभागकरणोचिते भृत्यजने क इवादरः । परोपकारोपकरणं शरीरम्, तृणलवलघु च जीवितम् । अपत्रपे त्वत्प्रतिपत्तिभिरुपायनीकर्तुमागतायास्ते वयमेते शरीरमिदमेतज्जीवितमेतानीन्द्रियाणि एतेषामन्यतरदारोपय परिग्रहेण गरीयस्त्वम्' इति । अथैवंवादिनोऽस्य वचनमाक्षिप्य मदलेखा सस्मितमवादीत् - 'कुमार, भवतु । अतियन्त्रणया खिद्यते खलु सखी कादम्बरी । किमर्थं चैवमुच्यते । सर्वमिदमन्तरेणापि वचन - *********** पृथिव्यां समुपाविशत्समुपविष्टः । चन्द्रापीडोऽपि हे कुमार, शिलातलमेवाध्यास्यतामिति मदलेखयाऽसकृद्वारंवारमनुबध्यमानोऽपि कथ्यमानोऽपि भूमिमेव वसुधामेवाभजताश्रितवान् । सर्वासु तास्वासीनासूपविष्टासु सत्सु मुहूर्तमिव स्थित्वा चन्द्रापीडो वक्तुं कथयितुमुपचक्रम उपक्रमं कृतवान् । किं तदित्याह - देवीति । हे देवि, दृष्टिमात्रेण प्रीते दासजने संभाषणादिकस्य जल्पनप्रभृतिकस्य प्रसादस्यानुग्रहस्यावकाशोऽवगाहो नास्ति । दृष्टिमात्रसमुद्भूतप्रीत्या तावन्मम हृदयं भृतं यावदस्य प्रवेशो नास्तीत्यर्थः । एतावतोऽनुग्रहस्य किमुत भण्यते । सर्वथा प्रवेशो नास्तीत्यर्थः । न खल्विति । निपुणं यथा स्यात्तथा चिन्तयन्नपि विचारयन्नप्यात्मनो गुणलवमवलोकयामि पश्यामि । यस्य गुणलवस्यायमनुरूपो योग्योऽनुग्रहातिरेकः प्रसादोत्कर्षः । अतिसरलाऽतिऋज्वी तवेयमपगतो दूरीभूतो योऽभिमानोऽहंकारस्तेन मधुरा मिष्टा सुजनता सौजन्यम् । अत्रार्थे हेतुं प्रदर्शयन्नाह - यदिति । यदभिनवे सेवकजनेऽपि नूतनभृत्येऽप्येवमनुरुध्यतेऽनुग्रहविषयीक्रियते । प्रायेणेति । प्रायेण बाहुल्येनोपचारेण बाह्यविनयेन हार्यं वशीकर्तुं योग्यमत एवादक्षिणमनुदारं मां देवी मन्यते जानाति । खलु निश्चयेन । स एव परिजनो धन्यः कृतपुण्यः, यस्योपरि ते तव नियन्त्रणाज्ञा स्यात् । आज्ञालक्षणो यः संविभागो विभज्य किंचिदर्पणं तस्य करणं तत्रोचिते योग्ये भृत्यजने क इवादरो बहुमानाधिक्यम् । परेति । परस्य य उपकार उपकृतिस्तस्योपकरणं साधकं शरीरं तृणस्यार्जुनस्य यो लवो लेशस्तबल्लघु च जीवितम् । अत आगतायास्ते तव त्वत्प्रतिपत्तिभिस्त्वद्भक्तिभिरुपायनीकर्तुमुपढौकनीकर्तुमहमपत्रपे लज्जे । एते वयम्, इदं शरीरम्, एतज्जीवितम्, एतानीन्द्रियाणि, एतेषां मध्यादन्यतरत्परिग्रहेण स्वीकारेण कृत्वा गरीयस्त्वमारोपय स्थापयेति । अन्यस्योपायनस्याभावात् । इदमेव तत्रोपायनम् । अथैवंवादिनोऽस्य चन्द्रापीडस्य वचनमाक्षिप्य निराकृत्य मदलेखा सस्मितमवादीदवोचत् । हे कुमार, भवतु यत्त्वयोक्तं तत्तथैवास्तु । परमतियन्त्रणयातिकथनेन खलु निश्चयेन । कादम्बरी खिद्यते खेदं प्राप्नोति । अतः किमर्थं चैवमुच्यते कथ्यते । वचनमन्तरेणापि कथनं विनैव सर्वमिदं पूर्वोक्तमनया कादम्बर्या परिगृहीत - - - - - - - - - - - - - - - - टिप्प० - 1 एवमनुरोधः (प्रीत्युपचारः) क्रियते । 2 शरीरस्य स्वभावत एव अन्योपयोगित्वाज्जीवितस्य लघुत्वेन च, आगतां त्वां प्रति भक्तिभिः एतयोरुपायने अहं लज्जे इत्याशयः । 3 पतित्वेन मनसि स्वीकृतो भवानिति गढं ध्वन्यते । पाठा० - १ अथ सर्वासु चासीनासु मुहूर्तमिव. २ दृष्टिपातमात्र. ३ प्रायेण च. ४ शरीरकम्. ५ अपि त्रपे तव प्रतिपत्तावुपायनीकर्तुम् अत्र ये त्वत्प्रतिपत्तिभिरुपायनीकर्तुम्. ६ एवमागतायाः. ७ अन्यतरम्. 424 कादम्बरी। AMAN कथायाम्

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494