Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
चित्ररथसुता पुनरपि तदेव सौधशिखरमारुरोह । तत्रस्था च पुनस्तथैव विविधविलासतरङ्गितैर्विकारिविलोकितैर्जहारास्य मनः । तथाहि मुहुर्मुहुनितम्बबिम्बन्यस्तवामहस्तपल्लवा प्रावृतांशुकानुसारप्रसारितदक्षिणकरा निश्चलतारका लिखितेव, मुहुर्तृम्भिकारम्भदत्तोत्तानकरतलतया तेद्गोत्रस्खलनभिया निरुद्धवदनेव, मुहुरंशुकपल्लवताडितनिःश्वासामोदलुब्धमधुकरमुखरतया प्रस्तुताबानेव, मुहुरनिलगलितांशुकसंभ्रमद्विगुणीकृतभुजयुगलप्रावृतपयोधरतया दत्तालिङ्गनसंज्ञेव, मुहुः केशपाशाकृष्टकुसुमपूरिताञ्जलिसमाघ्राणलीलया कृतनमस्कारेव, मुहुरुभयतर्जनिभ्रमितमुक्ताप्रालँम्बतया निवेदितहृदयोत्कलिकोद्गमेव, मुहुरुपहारकुसुमस्खलनविधुतकरतलतया कथितकुसुमायुधशरप्रहारवेदनेव, मुहुर्गलितरशनानिगडपतितचरणतया संयम्यार्पितेव मन्मथेन, मुहुश्चलितोरुविधृतशिथिलदुकूला, क्षितितलदोलायमानांशुकैकदेशाच्छा -
***********
यया सा । तमालिका एव द्वितीया यस्याः सा च । तत्रस्था च सौधशिखरगता च पुनस्तथैव पूर्वोक्तरीत्यैव विविधा अनेकप्रकारा ये विलासा भ्रूसमुद्भवास्तैस्तरङ्गितैर्विकारिविलोकितैरस्य चन्द्रापीडस्य मनो जहार हृतवती । तदेव दर्शयति - तथा हीति । मुहुर्मुहुरवारं नितम्बबिम्बे आरोहबिम्बे न्यस्तः स्थापितो वामहस्तपल्लवो यया सा । प्रावृतं परिधानीकृतं यदंशुकं तदनुसारेण प्रसारितो दक्षिणकरो यया सा । निश्चलेति । निश्चला स्थिरा तारका कनीनिका यस्याः सा । अत एव लिखितेव चित्रितेव । मुहुरिति । जृम्भिकारम्भे जृम्भायाः प्रारम्भे दत्तं यदुत्तानं करतलं तस्य भावस्तत्ता तया । तया चन्द्रापीडस्य गोत्रमभिधानं तस्य स्खलनं तस्माद्या भीःभीतिस्तया निरुद्धवदनेन । मुहुरिति । अंशुकपल्लवेन ताडितो यो निःश्वासामोदस्तत्र लुब्धा ये मधुकरा भ्रमरास्तैर्मुखरो वाचालस्तस्य भावस्तत्ता तया प्रस्तुतं प्रारब्धमाह्वानं यया सैविधेव । मुहुरिति । अनिलेन गलितानि यान्यंशुकान्युत्तरीयाणि तेषां संभ्रमो विलासस्तेन द्विगुणीकृतं यद्भुजयुगलं तदेव प्रावृतमुत्तरीयं ययोः पयोधरयोस्तयोर्भावस्तत्ता तया दत्तालिङ्गनसंज्ञा संकेतो यया सैवंविधेव । मुहुरिति । केशपाशादाकृष्टानि यानि कुसुमानि तेन पूरितो योऽञ्जलिस्तस्य समाघ्राणलीलया कृत्वा कृतनमस्कारे विहितप्रणामेव । पुनः करयोरलीकप्रदेशाभिमुखीकरणेन तदुत्प्रेक्षा । मुहुरिति । उभयतर्जनीभ्रमितो यो मुक्ताप्रालम्बो मुक्तालता तस्य भावस्तत्ता तया निवेदितो ज्ञापितो हृदयस्योत्कलिका हल्लेखा तस्या उद्गमः प्रादुर्भावो यया सैवंविधेव । यथा हारो मया भ्राम्यते तथोत्कलिकया मच्चित्तमिति भावः । मुहुरिति । उपहारस्योपचारस्य यानि कुसुमानि तेभ्यः स्खलनेन विधुतं कम्पितं यत्करतलं तस्य भावस्तत्ता तया कथिता कुसुमायुधो मदनस्तस्य शरप्रहारवेदना पीडा यया सैवंभूतेव । मुहुरिति । गलिता सस्ता या रशना कटिमेखला सैव निगडोऽन्दुकस्तत्र पतितौ यौ चरणौ तयोर्भावस्तत्ता तया संयम्य बद्ध्वा मन्मथेनार्पितेव । मुहुरिति । चलि -
- टिप्प० - 1 वायुनाऽपसारितो योऽशुकस्तदनुसारेण तत्सज्जीकरणव्याजेनेत्यर्थः । 2 मदनजागरणेन या जृम्भा जाता तत्र व्यात्तमुखस्य पिधानार्थं यो हस्त आवरणीकृतः स मन्ये प्रेमवशाच्चन्द्रापीडस्य नामनिःसरणभयेन मुखस्यावरणीकृत इत्याशयः । 3 अंशुकपल्लवेन ताडिताः निःश्वाससौरभलुब्धा ये मधुकरास्तैर्मुखरतया शब्दायमानतया, इत्यर्थो वाच्यः । 4 अंशुकानां किमु भारो धृतस्तया ! अस्तु. अनिलेन गलिते अंशुके संभ्रमवशाद् द्विगुणीकृतेन भुजयुगलेन एकस्योत्तरं द्वितीयेन भुजेन प्रावृतौ पयोधरौ यया अर्थाद् भुजद्वयवेष्टितकुचा । 5 अञ्जल्युपरि आघ्राणाय नमिते शिरसि नमस्कारचेष्टा जातेत्याशयः । 6 उत्कलिका उत्कण्ठा ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ तरङ्गिभिः. २ विलोकितैः; विकारिभिर्विलोकितैः. ३ मुहुः. ४ असमावृत. ५ गोत्रस्खलनभयनिरुद्धवदनेव. ६ संभ्रमद्विगुणितभुजलतावृतपयोधरतया; संवरणसंभ्रमद्विगुणीकृतभुजयुगलप्रावृतपयोधरतया. ७ प्रलम्ब. ८ करतया. ९ निबिड. १० नियमित. ११ मुहुर्मुहुर्विचलित.
420
। कादम्बरी ।
कथायाम्
Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494