Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 431
________________ त्वय्यात्मानमवगच्छति कादम्बरी । तदयममृतमथनसमुद्भूतानां सर्वरत्नानामेकेशेष इति शेषनामा हारोऽमुनैव हेतुना बहुमतो भगवताम्भसांपत्या गृहमुपागताय प्रचेतसे दत्तः । पाशभृतापि गन्धर्वराजाय, गन्धर्वराजेनापि कादम्बयें, तयापि त्वद्वपुरस्यानुरूपमाभरणस्येति विभावयन्त्या नभःस्थलमेवोचितं सुधास्नुतो धाम्नो न धरेत्यवधार्यानुप्रेषितः । यद्यपि गुणगणाभरणभूषिताङ्गयष्टयो भवादृशाः क्लेशहेतुमितरजनबहुमतमाभरणभारमङ्गेषु नारोपयन्ति, तथापि कादम्बरीप्रीतिरत्र कारणम् । किं न कृतमुरसि शिलाशकलं कौस्तुभाभिधानं लक्ष्म्याः सहजमिति बहुमानमाविष्कुर्वता भगवता शाङ्गपाणिना । न च नारायणोऽत्रभवन्तमतिरिच्यते । नापि कौस्तुभमणिरणुनापि गुणलवेन शेषमतिशेते । न चापि कादम्बरीमाकारानुकृतिकलयाप्यल्पीयस्या लक्ष्मीरनुगन्तुमलम् । अतोऽर्हतीयमिमं बहुमानं त्वत्तः । न चाभूमिरेषा प्रतीप्रसरस्य । नियतं च भवता लग्नप्रणया महाश्वेतोपालम्भसहसैः खेदयित्वा स्वात्मानमुत्स - *********** वात्मानं कादम्बर्यवगच्छति जानाति । तदयममृतमथनात्समुद्भूतानां प्रकटितानां सर्वरत्नानामेकशेषोऽवशिष्टोऽतः शेषनामायं हारोऽमुनैव हेतुनैकशेषत्वेनाम्भसापत्या भगवता समुद्रेण बहुमतो गृहमुपागताय प्राप्ताय प्रचेतसे वरुणाय दत्तोऽर्पितः । पाशभृतापि वरुणेनापि गन्धर्वराजाय दत्तः । गन्धर्वराजेनापि कादम्बर्यै दत्तः । तयाप्यस्याभरणस्य त्वद्धपुस्त्वदीयं शरीरमनुरूपं योग्यमिति विभावयन्त्या मनसि विभावनां कुर्वन्त्या । एतस्मिन्नर्थे दृष्टान्तं प्रदर्शयन्नाह - नभ इति । सुधास्नुतश्चन्द्रस्य धाम्नस्तेजसो नभस्थलमेवोचितं योग्यं धरा पृथ्वीत्यवधार्य निश्चित्यानुप्रेषितोऽनुप्रहितः । यद्यपीति । यद्यपि भवादृशा भवत्सदृशाः पुरुषा गुणाः शौर्यादयस्तेषां गणाः समुदायास्त एवाभरणानि तैर्भूषिता शोभिताङ्गयष्टिर्येषां ते तथा क्लेशहेतुः परिश्रमकारणमितरजनाः प्राकृतजनास्तैर्बहुमतमादरपूर्वकं स्वीकृतमाभरणभारं विभूषणवीवधमङ्गेषु हस्तपादादिषु नारोपयन्ति न स्थापयन्ति । तथापीति । यद्यप्येवमस्ति तथापि कादम्बरीप्रीतिरत्र हारधारणे कारणं नियामकम् । प्रीत्यान्यैरपि तथा कृतमित्याह - किं न कृतमिति । लक्ष्म्याः श्रियः सहज सार्धं समुत्पन्नमिति कृत्वा बहुमान सत्कारमाविष्कुर्वता प्रकटीकुर्वता भगवता शाङ्गपाणिना कौस्तुभाभिधानं शिलाशकलमुरसि किं न कृतं किं न विहितम् । न च नारायणस्तथा करोतु नाम । अहं तु तादृशो न भवामीत्यत आह - न चेति । नारायणः कृष्णोऽत्रभवन्तं त्वां न चातिरिच्यते नाधिको भवति । तथा च स्वानुरक्तप्रीतिसंरक्षणस्वभावसाम्येन त्वमपि स एवेत्यर्थः न च हारोऽपि कौस्तुभापेक्षया न्यून इत्याह - नापीति । कौस्तुभमणिरणुनापि गुणलवेन शेष शेषनामानं हारं नाप्यतिशेतेऽतिशयितो न भवति, एवं लक्ष्मीसादृश्यं कादम्बर्यामानयति - न चेति । लक्ष्मीः पद्माकारस्यानुकृतिरनुकरणं तस्य कलांशस्तयाप्यल्पीयस्यापि कादम्बरीमनुगन्तुं सादृश्यं कर्तुं नालं न समर्था । अतो हेतोरियं त्वत्तो भवत इयं बहुमानमर्हति योग्या भवति । नचेयं प्रीतिर्न भवतीत्याह - न च प्रीतिप्रसरस्य प्रीत्युत्कर्षस्यैषाऽभूमिरस्थानम्, अपि तु स्थानमेव । वैपरीत्ये बाधकमाह - नियतेति । नियतं निश्चितं भवता त्वया लग्नः प्रणयः स्नेहो यस्यां एवंविधा महाश्वेता उपालम्भसहसैः खेदयित्वा खेदमुत्पाद्य स्वात्मानं - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 'नभःस्थलमेवोचितं सुधासूतेः (चन्द्रस्य) धाम' इति पाठः; प्रमाणं च सहृदयाः । 2 एषा (कादम्बरी) प्रीतिप्रसरस्य अपात्रं न अपि तु पात्रमेवेत्यर्थः । 3 'त्वया भग्नप्रणया (भग्नः प्रणयो यस्याः ईदृशी कादम्बरी) महातामुपालम्भसहसैः (ईदृशेन अदक्षिणेन त्वया सद्भावो विहितः, अत्र चानीतः इति) खेदयित्वा आत्मानं नियतमुत्सक्ष्यति' इत्युचितः पाठः । पाठा० - १ उद्धृतानाम्. २ एकः शेष. ३ लब्धनामा. ४ सुधासूते(म. ५ निजगुण. ६ शाङ्गिणा. ७ नापि. ८ महावेताम्. ९ आत्मानम्. . (418 A Y कादम्बरी) C कथायाम-)

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494