Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 430
________________ 1 सेकमिव सूचयति । उपचारोऽपि चपलतामिव प्रकाशयति । प्रीतिरप्यनात्मज्ञतामिव ज्ञापयति । विज्ञापनापि प्रागल्भ्यमिव जायते । सेवापि चापलमिव दृश्यते । दानमपि परिभव इव भवति । अपि च स्वयं गृहीतहृदयाय किं दीयते । जीवितेश्वराय किं प्रतिपाद्यते । प्रथमकृतागमनमहोपकारस्य का ते प्रत्युपक्रिया । दर्शनदत्तजीवितफलस्य सफलमागमनं केन ते क्रियते । प्रणयितां चानेन व्यपदेशेन दर्शयति कादम्बरी, न विभवम् । अप्रतिपाद्या हि परस्वता सज्जनविभवानाम् । आस्तां तावद्विभवः, भवादृशस्य दास्यमप्यङ्गीकुर्वाणा नाकार्यकारिणीति नियुज्यते । दत्त्वात्मानमपि वञ्चिता न भवति । जीवितमप्यर्पयित्वा न पश्चात्तप्यते । प्रणयिजनप्रत्याख्यानपराङ्मुखी च दाक्षिण्यपरवती महत्ता सताम् । न च तादृशी भवति याचमानानां यादृशी ददतां लज्जा । यत्तु सत्यममुना व्यतिकरेण कृतापराधमिव *********** उत्कर्षस्तमिव सूचयति । उपचारोऽप्यभ्युत्थानादिरूपोऽपि चपलतामिव प्रकाशयति प्रकटीकरोति । प्रीतिरपि स्नेहोऽप्यनात्मज्ञतां स्वस्वरूपानभिज्ञतां ज्ञापयति । विज्ञापनापि विज्ञप्तिरपि प्रागल्भ्यमिव पाण्डित्यमिव जायते । सेवापि सपर्यापि चापलमिव दृश्यते । दानमपि परिभव इव पराभव इव भवति । प्रथितमहिमवत्त्वादितिभावः । अपि चेति युक्त्यन्तरे, स्वयं गृहीतं हृदयं येनैवंविधाय किं दीयते । अथ च जीवितेश्वराय किं प्रतिप्राद्यते किं कथ्यते । अयं भावः - हृदयाधीनं जीवितं, हृदयं चेद् गृहीतं तदा जीवितेश्वर एव जातः । एवं सति तस्मै जीविताभिधानं किं वस्तु नेयम् । सर्वेषां वस्तूनां जीवितार्थत्वात् । एतदपरं किं प्रतिपाद्यम् । प्रतिपाद्यानां जीवितावधित्वात् । प्रथमं कृतं यदागमनं तदेव महोपकारो यस्यैवंविधस्य ते भवतः का प्रत्युपक्रिया । न कापीत्यर्थः । दर्शनेन दत्तं जीवितफलं येनैवंविधस्य ते तव सफलमागमनं केन क्रियते । अयं भावः - सर्वापेक्षयोत्कृष्टं जीवितफलं त्वयैव दत्तम् । इतः परं त्वत्सदृशमस्माकं किमपि नास्ति, येन त्वदागमनसाफल्यं क्रियते कादम्बर्यनेन व्यपदेशेन हारानयनमिषेण प्रणयितां स्नेहवत्तां त्वयि दर्शयति । न विभवमैश्वर्यम् । तवैतादृशं वस्तु नास्ति यादृशं मम वर्तत इत्येवम् । नन्वत्युत्तममुक्ताकलापस्य स्वविभवत्वप्रदर्शने कोऽयमस्वरस इत्यत आह- अप्रतीति । हीति निश्चितम् । सज्जनल्लिभवानां परस्वता स्वीयपरकीयभावोऽप्रतिपाद्या वर्तते । सतां प्रवृत्तेः परोपकारनिमित्तकत्वेन तद्विभवस्यापि तथात्वादिति भावः । अथ यद्यपरितोषस्तदा विभवो हारादिरूपः स्वोत्कर्षहेतुस्तावदास्तां तिष्ठतु । किं तु भवादृशस्य दास्यमङ्गीकुर्वाणा नाकार्यकारिणीति नियुज्यते नाकृत्यविधायिनीति व्यपदिश्यते । दत्त्वेति । आत्मानमपि दत्त्वा त्वदधीनं कृत्वा वञ्चिता न भवति न स्यात् । जीवितमप्यर्पयित्वा न पश्चात्तप्यते न प्रश्चात्तापं करोति । (यत्) सतां सत्पुरुषाणां महत्ता गुरुता प्रणेयो विद्यते यस्मिन्नेवंभूतो यो जनस्तस्य प्रत्याख्यानं निराकरणं तत्र पराङ्मुखी प्रणयिजनाभीष्टप्रदाननिराकरणशीला न भवतीत्यर्थः । तत्र हेतुमाह - दाक्षिण्येति । दाक्षिण्यमनुकूलता तस्याः परवती । तदधीनेत्यर्थः दाक्षिण्यं लज्जाधीनं स्यादित्यत आह- न चेति । ददतां वितरणं कुर्वतां यादृशी लज्जा त्रपा स्यात्तादृशी याचमानानां नीचानां च न स्यात् । यत्त्विति । तु पुनरर्थे । यत्पूर्वोक्तं तत्सत्यम् । ततः किमित्य अमुनेति । अमुना व्यतिकरेण त्वदागमनसंबन्धेन त्वयि कृतापराधं विहिताग - पूर्वभागः । टिप्प० - 1 सतां महत्त्वं तद्वर्तते यद्धि प्रणयिजनानां (द्रव्योपहारदानस्य ) प्रत्याख्याने प्रतिषेधने पराङ्मुखम्, अर्थात् न कदाचित् प्रत्याख्यानं कुर्वन्ति; यतो हि दाक्षिण्यस्वाधीना सा महत्ता । 2 याचकानां तु पूर्वमेव लाघवस्वीकारान्न सा । अत एव अमुना हारसमर्पणव्यतिकरेण कृतापराधमिवात्मानं जानाति, यत्त्वत्स्वरूपयोग्यदानाऽभावेति दातृत्वं स्वीकृतमिति । पाठा० १ ज्ञायते. २ गृह्यते. ३ परवशा. कादम्बरीप्रहितोपहारसमर्पणम् - 417

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494