Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
________________
श्चन्द्रातपद्युतिर्मुखो धवलिम्नः कारणमिति मनसा निश्चित्य दूरादेव प्रत्युत्थानादिना समुचितोपचारक्रमेण मदलेखामापतन्तीं जग्राह ।
सा तु तस्मिन्नेव मरकतग्रावणि मुहूर्तमुपविश्य स्वयमुत्थाय तेन चन्दनाङ्गरागेणानुलिप्य ते च द्वे दुकूले परिधाप्य तैश्च मालतीकुसुमदामभिरारचितशेखरं कृत्वा तं हारमादाय चन्द्रापीडमुवाच - 'कुमार, तवेर्यमपहस्तिताहंकारकान्ता पेशलता प्रीतिर्परवशं जनं कमिव न कारयति । प्रश्रय एव ते ददात्यवकाशमेवंविधानाम् । अनया चाकृत्या कस्यासि न जीवितस्वामी । अनेन चाकारणाविष्कृतवात्सल्येन चरितेन कस्य न बन्धुत्वमध्यारोपयसि । एषा च ते प्रकृतिमधुरा व्यवहृतिः कस्य न वँयस्यतामुत्पादयति । कस्य वा न समाश्वासयन्त्यमी स्वभावसुकुमारवृत्तयो भवद्गुणाः । त्वन्मूर्तिरेवात्रोपालम्भमर्हति, या प्रथमदर्शन एव विश्रम्भमुपजनयति । इतरथा हि त्वद्विधे सकलभुवनप्रथितमहिम्नि प्रयुज्यमानं सर्वमेवानुचितमिवाभाति । तथा हि- संभाषणमप्यधः करणमिवापतति । आदरोऽपि प्रभुताभिमानमिवानुमापयति । स्तुतिरप्यात्मो -
***********
वंविधं मुखं यस्य सः । धवलिम्नो विशेषणं वा । पूर्वोपवर्णितमयं हार इवास्य धवलिम्नः कारणमिति मनसा निश्चित्यं दूरादेव प्रत्युत्थानादिना समुचितेन योग्येनोपचारक्रमेणापतन्तीमागच्छन्तीं मदलेखां जग्राह प्रत्युद्गमेन तामासादितवान् ।
सा त्विति । सा तु मदलेखा तस्मिन्नेव मरकतग्रावण्यश्मगर्भशिलायां मुहूर्तं क्षणमात्रमुपविश्यावस्थानं कृत्वा स्वयमात्मनोत्थाय तेन चन्दनाङ्गरागेण मलयजविलेपनेनानुलिप्य ते च पूर्वोक्ते द्वे दुकूले परिधाप्य तैश्च मालतीकुसुमदामभिर्जातीपुष्पसग्भिरारचितशेखरं विरचितावतंसं कृत्वा तं हारमादाय गृहीत्वा चन्द्रापीडमुवाचोक्तवती । किमुवाचेत्याह - कुमारेति । हे कुमार हे चन्द्रापीड, तवेयमपहस्ति दूरीकृतोऽहंकारो ययैवंविधा कान्ता मनोहरा पेशलता सुन्दरता कमिव प्रीतिपरवशं जनं न कारयति । ते तव प्रश्रय एव विनय एवावकाशमवगाहं ददात्येवंविधानां पुरुषाणाम् । अनया चाकृत्याकारविशेषेण त्वं कस्य जीवितस्वामी नासि । अपि तु सर्वेषामित्यर्थः । अनेन चाकारणेनानिमित्तेनाविष्कृतं प्रकटीकृतं यद्वात्सल्यं हितं यस्मिन्नेवंविधेन चरितेन समाचरणेन कस्य बन्धुत्वं नाध्यारोपयसि । एषा च ते तव प्रकृत्या स्वभावेन मधुरा मिष्टा व्यवहृतिर्व्यापारः कस्य न वयस्यतां मित्रतामुत्पादयति । स्वभावेन सुकुमारा वृत्तिर्येषामेवंविधा भवद्गुणाः कस्य न समाश्वासयन्ति समाश्वासनां कुर्वन्ति । त्वदिति । अत्रार्थे त्वन्मूर्तिरेवोपलैम्भमनुभवमर्हति साक्षात्कारयोग्या भवति । या प्रथमदर्शन एव प्रथमावलोकन एव विश्रम्भं विश्वासमुपजनयति । अतस्त्वद्विधे त्वत्सदृशे पुरुषे सकलभुवने प्रथितः प्रख्यातो महिमा माहात्म्यं यस्मिन्नेव प्रयुज्यमानं कथ्यमानं सर्वमनुचितमिवायोग्यमिवाभाति । तदेव दर्शयति - तथा हीति । संभाषणमपि जल्पनमप्यधःकरणमिवापतति । अनुचितेन सर्वोचितस्य संभाषणमनुचितमेव करोतीति न्यायादिति भावः । आदर इति । आवरोऽपि बहुमानोऽपि प्रभुताया ऐश्वर्यस्याभिमानमिवानुमापयति ज्ञापयति । स्तुतिरपि नुतिरप्यात्मन उत्सेक
टिप्प० - 1 ‘चन्द्रातपद्युतिमुषो धवलिम्नः' इति पाठः । अयं हारः चन्द्रातपद्युतिं मुष्णाति तादृशस्य अस्य धवलिम्नः कारणमिति तदर्थः । 2 प्रीतिकरणे भवन्मूर्तिः (भवदाकृतिः) एव उपालम्भं प्रतिक्षेपवचनम् (ओलंभा, उलहना, इति भाषा) अर्हतीत्यर्थः ।
पाठा० १ मुषो. २ समुचितेन. ३ आयान्तीम्. ४ प्रतिजग्राह ५ अपहसित. ६ परवशं किमिव. ७ स्यताम् ८ कं. ९ समावासयन्ति. १० उपलम्भम्.
416
-
कादम्बरी ।
कथायाम्
Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494