Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 427
________________ पाण्डुरधारासहसाणि धारागृहाणि मुक्तानि, आहोस्विदनिलविकीर्यमाणासीकरधवलितभुवनाम्बरसिन्धुः कुतूहलाद्धरातलमवतीर्णा' इति । 'आलोकानुसारप्रहितचक्षुरद्राक्षीदनल्पकन्यकाकदम्बपरिवृतां ध्रियमाणधवलातपत्रामुद्भूयमानचामरद्वयां कादम्बरी प्रतीहार्या वामपाणिना वेत्रलतागर्भेणार्द्रवस्त्रशकलावच्छन्नमुखं चन्दनानुलेपनसनाथं नालिकेरसमुद्गकमुद्वहन्त्या दक्षिणकरेण दत्तहस्तावलम्बाम्, केयूरकेण च निःश्वासहार्ये निर्मोकशुचिनी धौते कल्पलतादुकूले दधता निवेद्यमानमार्गाम्, मालतीकुसुमदामाधिष्ठितकरतलया च तमालिकयानुगम्यमानामागच्छन्तीं मदलेखाम्, तस्याश्च समीपे तरलिकाम्, तया च सितांशुकोपच्छदे पटलके गृहीतं धवलताकारणमिव क्षीरोदस्य, सहभुवमिव चन्द्रमसः, मृणालदण्डमिव नारायणनाभिपुण्डरीकस्य, मन्दरक्षोभविक्षिप्तमिवामृ - *********** विशरारुतां प्राप्यमाणानि पाण्डुरधाराणां सहसाणि येष्वेवंविधानि धारागृहाणि मुक्तानि । आहोस्विदिति वितर्के । अनिलेन वायुना विकीर्यमाणा विक्षिप्यमाणा ये सीकरा वातास्तवारीणि तैर्धवलितं शुभ्रीकृतं भुवनं यया सैवंविधाम्बरसिन्धुर्गङ्गा कुतूहलाद्धरातलं पृथ्वीतलमवतीर्णागता। आलोकस्यानुसारेण प्रहितं प्रेषितं चक्षुर्येनैवंभूतश्चन्द्रापीडः कादम्बरीम्, अथ चागच्छती मदलेखाम्, अथ च तस्याः समीपे तरलिकाम्, तया च सिताशुकं श्वेतवस्त्रमुपच्छदं यस्मिन्नेतादृशे पटलके पात्रविशेषे गृहीतं हारं चाद्राक्षीत् । अथ कादम्बरी विशिनष्टि - अनल्पेति । अनल्पा बढ्यो याः कन्यकाः कुमार्यस्तासां कदम्बः समूहस्तेन परिवृता सहिताम् । ध्रियमाणेति । ध्रियमाणं धवलं शुभ्रमातपत्रं छत्रं यस्याः सा ताम् । उद्भूयमानं वीज्यमानं चामरद्वयं यस्याः सा ताम् । प्रतीहार्या द्वारागतजननिवेदनकारिण्या । वामेति । वेत्रलता गर्थे मध्ये यस्यैवंविधेन वामपाणिनापसव्यहस्तेन कृत्वा यद्वस्त्रं तस्य शकलं खण्डं तेनावच्छन्नमाच्छादितं मुखं यस्यैवंभूतं चन्दनस्यानुलेपनेन सनाथं सहितं नालिकेरसमुद्गकं श्रीफलमध्यवर्तिगोलकमुद्वहन्त्या दक्षिणेन करेणापसव्यपाणिना दत्तो हस्ताबलम्बो यस्याः सा ताम् । केयूरकेणेति । निःश्वासेन श्वासवातेन हार्ये हर्तुं योग्ये निर्मोकः कञ्चुकस्तद्वच्छुचिनी निर्मले धौते क्षालिते कल्पलतादुकूले दधता धारयतैवंविधेन केयूरकेण च निवेद्यमानो मार्गो यस्याः सा ताम् । अथ मदलेखां विशेषयन्नाह - मालतीति । मालती जाती तस्याः कुसुमानि पुष्पाणि तेषां दाम् सक् तेन अधिष्ठितं अधिश्रितं करतलं यस्या एतादृश्या तमालिकया भुजिष्ययानुगम्यमानाम् । अथ हारस्य धेतत्वप्रकर्षमाश्रित्योत्प्रेक्षते - धवलतेति । क्षीरोदस्य क्षीरसमुद्रस्य या धवलता शुभ्रता तस्याः कारणमिव निमित्तमिव । एतेन क्षीरोदस्य स्वाभाविकी धवलता न, किं तु तद्भवलताया हेतुरेवायम् । क्षीरोदस्य हारगर्भत्वस्य वक्ष्यमाणत्वादन्तर्गतस्य हारस्येत्यर्थः । चन्द्रमसः शशिनः सहभुवमिव सहसमुत्पन्नमिव । नारायणेति । नारायणो विष्णुस्तस्य नाभिपुण्डरीकस्य तुन्दकूपिकासिताम्भोजस्य मृणालदण्डमिव । मन्दरो मेरुस्तस्य क्षोभेण विक्षिप्तं दूरीकृतममृतस्य पीयूषस्य फेनपिण्डो - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 पाण्डुरवर्णानां जलधाराणाम् । 2 जलयन्त्र ('महारा' इति भाषा) गृहाणि । 3 हारोपहरणाय न स्वयं कादम्बर्यागच्छत्, न चेदमनुरूपमपि । हारपरिचये प्रोच्यते - 'गन्धर्वराजेनापि कादम्ब (दत्तः) । अपि कादम्बरी स्वयमेवं वदेत् ? अस्तु. वाचयतां स्पष्टमग्रे भवेद्यत् सतरलिका मदलेखैवानुप्रेषिताऽत्र । तस्मात् - 'कादम्बरीप्रतीहार्या' इत्येव पाठः । वेत्रलतागर्भेण वामपाणिना नारिकेलसमुद्गकमुदहन्त्या कादम्बरीप्रतिहार्या दत्तहस्तावलम्बामित्यर्थः । 4 मदलेखां विशिनष्टीति बोध्यम् । पाठा० - १ पारदरसधाराः, जलधाराः. २ सिन्धुर्धरातलमवतीर्णा कुतूहलाच्चालोक. ३ कादम्बरीप्रतीहार्या. ४ नारिकेल. (414 कादम्बरी। कथायाम्

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494