Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
________________
चन्द्रापीडोऽपि तस्मादवतीर्य प्रथमविसर्जितेनेव कादम्बरीपरिजनेन निर्वर्तितस्नानविधिनिरुपहतशिलार्चिताभिमतदैवतः क्रीडापर्वतक एव सर्वमाहारादिकमहःकर्म चक्रे ।
क्रमेण च कृताहारः क्रीडापर्वतकप्राग्भागभाजि, मनोहारिणि, हारीतहरिते, हरिणरोमन्थफेनशीकरासारे, सीरायुधहलभयनिश्चलकालिन्दीजलत्विषि, तरुणीचरणालक्तकरसशोणशोचिषि, कुसुमरजःसिकतिलतले, लतामण्डपोपगूढे, शिखण्डिताण्डवसंगीतगृहे, मरकतशिलातल उपविष्टो दृष्टवान्सहसैवातिबहलधाम्ना धवनालोकेन जलेनेव निर्वाप्यमाणं दिवसम्, मृणालँवलयेनेव पीयमानमातपम्, क्षीरोदेनेव प्लाव्यमानां महीम्, चन्दनरसवर्षेणेव सिच्यमानान्दिगन्तान्, सुधयेव विलिप्यमानमम्बरतलम् । आसीच्चास्य मनसि - ‘किमुखलु भगवानोषधिपतिरकाण्ड एव शीतांशुरुदितो भवेत्, उत यन्त्रविक्षेपविशीर्यमाण -
***********
दवतीर्योत्तीर्य प्रथमविसर्जितेनेवायप्रहितेनेव कादम्बरीजनेन निर्वर्तितो विहितः स्नानविधिर्यस्य सः । निरुपहताखण्डा या शिला तस्यामचिंता पूजितांभिमतदेवता येन सः क्रीडापर्वतक एव सर्वमाहारादिकमहःकर्म चक्रे ।
क्रमेणेति । क्रमेणानुक्रमेण कृत आहारो भोजनं येन सः मरकतशिलातल उपविष्ट आसीनोऽतिबहलं धाम तेजो यस्मिन्नेवंविधेन धवलेन शुभ्रणालोकेन जलेनेव निर्वाप्यमाणं विलुप्यमानं दिवसं दृष्टवानित्यन्वयः । मरकतशिलातलं विशेषयन्नाह - क्रीडेति । क्रीडापर्वतकस्य प्राग्भागभाजि पूर्वप्रदेशवर्तिनि मनोहारिणि चित्तक्षोभजनके । मरकतानां नीलत्वादाह - हारीतेति । हारीतः पक्षिविशेषो मृदङ्कुरस्तबद्धरिते नीले । हरिणेति । हरिणानां मृगाणां यो रोमन्थश्चर्वितस्य चर्वणं तस्य फेनः कफस्तस्य शीकराणां वातास्तविपुषामासारो वेगवान्वर्षो यस्मिन् । सीरेति । सीरायुधो रामो हलं सीरं तस्माद्यद्भयं तेन निश्चला कालिन्दी यमुना तस्या जलं पानीयं तद्वत्त्विट् कान्तियस्मिन् । तरुणीति । तरुणीनां मानिनीनां यश्चरणालक्तकः पादरञ्जनार्थं यावकरसस्तेन शोणा रक्ता शोचिः कान्तिर्यस्मिन् । कुसुमानां पुष्पाणां रजो धूलिस्तेन सिकतिलं सिकतायुक्तं तलं यस्मिन् । लतामण्डपैरुपगूढ़े व्याप्ते । शिखण्डितेति । शिखण्डिनां मयूराणां यत्ताण्डवं नृत्यं तस्य संगीतगृहं तस्मिन् । अथ चातपं सूर्यालोकं दृष्टवान् । कीदृशम् । मृणालवलयेनेव पीयमानमास्वाद्यमानम् । नायं सूर्यस्यातपः किंतु मृणालवलयस्येत्यर्थः । पुनर्महीं वसुधां दृष्टवान् । कीदृशीम् । क्षीरोदेनेव क्षीरसमुद्रेणेव प्लाव्यमानां वाह्यमानाम् । पुनर्दिगन्तरान्दृष्टवान् । कीदृशान् चन्दनरसवर्षेणेव सिच्यमानानभिषेकविषयीक्रियमाणान् । तदनन्तरमम्बरतलं व्योमतलं दृष्टवान् । कीदृशम् । सुधया गृहधवलीकरणद्रव्येन विलिप्यमानं विलेपनविषयीक्रियमाणम् । आसीच्चेति । अस्य चन्द्रापीडस्य मनस्येवमासीत् । खलु निश्चयेन । किमु भगवानोषधिपतिः शीतांशुश्चन्द्रोऽकाण्ड एवाप्रस्ताव एवोदितो भवेदुद्गतः स्यात् । उत यन्त्रस्य विक्षेपः प्रपातस्तेन विशीर्यमाणानि -
- - - - - - - - - - - - - - टिप्प० - 1 'प्रथमविसर्जितेनैव कादम्बरीपरिजनेन' इत्यपि पाठः । पूर्वतः प्रेरितेन कादम्बरीपरिजनेन निर्वर्तितः स्नानव्यापारो यस्य सः, इत्यर्थः । 2 अन्तर्गतीक्रियमाणम् । 3 मरकतशिलातलोपविष्टश्चन्द्रापीडः अकस्मात् गगनधरण्यादिषु परितो व्याप्तमद्भुतं धवलिमानमपश्यत् येन हि अकाण्डे चन्द्रोदयादेराशङ्काऽस्य समभवदिति प्रघट्टकस्यास्य सारः (कादम्बर्या प्रेषितस्य हारस्यायं प्रकाश इति कविना कृतो भूमिकातिशयः ।)
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ निवर्तित. २ हरिणी. ३ समुपविष्टः. ४ वनेनेव; धवलेन. ५ दिगन्तरान्. ६ भगवानौषधिपतिः; केतकीगर्भपत्रपाण्डुरो भगवानोषधिपतिः.
कादम्बरीप्रहितमदलेखाऽऽगमनम्
। पूर्वभागः ।
Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494