Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 424
________________ पल्लवेनेव वीजयति । पुनश्चाचिन्तयत् - 'प्रायेण मानुष्यकसुलभा लघुता मिथ्यासंकल्पसहसैरेवं मां विप्रलभते, लुप्तविवेको यौवनमदो मदयति, मदनो वा । यतस्तिमिरोपहतेव यूनां दृष्टिरल्पमपि कालुष्यं महत्पश्यति । स्नेहलवोऽपि वारिणेव यौवनमदेन दूरं विस्तीर्यते । स्वयमुत्पादितानेकचिन्ताशताकुला कविमतिरिव तरलता न किंचिनोत्प्रेक्षते । निपुणमैदनगृहीता चित्रवर्तिकेव तरुणचित्तवृत्तिर्न किंचिन्नालिखति । संजातरूपाभिमाना कुलटेवात्मसंभावना न क्वचिनात्मानमर्पयति । स्वप्न इवानुभूतमपि मनोरथो दर्शयति । इन्द्रजालपिच्छिकेवासंभाव्यमपि प्रत्याशा पुरः स्थापयति । भूयश्च चिन्तितवान् - 'किमनेन वृथैव मनसा खेदितेन, यदि सत्यमेवेयं धवलेक्षणा मय्येवंजातचित्तवृत्तिस्तदा नचिरात्स एवैनामप्रार्थितानुकूलो मन्मथः प्रकटीकरिष्यति । स एवास्य संशयस्य छेत्ता भविष्यति' इत्यवधार्योत्थायोपविश्य च ताभिः कन्यकाभिः सहाक्षर्गेयैश्च, विपञ्चिवाद्यैश्च, पाणविकैश्च, स्वरसदेहविवादैश्च, तैस्तैरालापैः सुकुमारैः कलाविलासैः क्रीडन्नासाचक्रे । मुहूर्तं च स्थित्वा निर्गम्योपवनालोकनकुतूहलाक्षिप्तचित्तः क्रीडापर्वतशिखरमारुरोह । *********** पुनरिति । पुनरचिन्तयच्चिन्तितवान् । किं तदित्याह - प्रायेणेति । प्रायेण बाहुल्येन मानुष्यके भवे सुलभा सुप्रापा लघुता मिथ्या मुधा संकल्पसहसैमनोरथसहसैरेवं पूर्वोक्तप्रकारेण । मामित्यात्मनिर्देशः । विप्रलभते वञ्चयतीत्यर्थः । तथा लुप्तो विवेको येनैतादृशो यौवनमदस्तारुण्यगर्यो मदयति मदं जनयति । एवं मदनोऽपि । यतस्तिमिरोपहतेव यूनां दृष्टिरल्पमपि कालुष्यं महत्पश्यति । अल्पापि योषिता चित्तविकृतिर्बहुत्वेन जानातीत्यर्थः । स्नेहलवोऽपि प्रीतिलेशोऽपि वारिणेव यौवनमदेन दूरं विस्तीर्यते दूरं नीयते । स्वयमिति । स्वयमात्मनोत्पादिता अनेकेषामभिलषणीयवस्तूनां चिन्तास्तत्तद्विषयकमनोवृत्तयस्तासां शतं तेनाकुला व्याकुला तरलता तृष्णाविशेषः किंचिन्न नोप्रेक्षतेऽभिलषते अपि तु सर्वमेवोत्प्रेक्षत इति भावः । केव कविमतिरिव । सापि स्वयमुत्पादितानेकेषां वर्णनीयानां या चिन्ता स्मृतिस्तस्याः शतं तेनाकुला व्याप्ता सती किंचिन्न नोटप्रेक्षते । अपि तु सर्वमेवोत्प्रेक्षालंकारविषयीकरोतीत्यर्थः । निपुणेति । निपुणोऽभिज्ञो यो मदनः कंदर्पस्तेन गृहीता स्वीकृता तरुणचित्तवृत्तिचित्रवर्तिकेव किंचिन्न नालिखति । अपि तु सर्वमेवालिखतीत्यर्थः । संजातेति । संजातं रूपस्य सौन्दर्यस्याभिमानोऽहंकारो यस्या एवंविधात्मसंभावना कुलटेव क्वचिन्न नात्मानमर्पयति । अपि तु सर्वत्रात्मानं दत्त इत्यर्थः । स्वप्न इवानुभूतमपि मनोरथो दर्शयति । प्रत्याशा दुराशेन्द्रजालपिच्छिकेवासंभाव्यमपि पुरोऽग्रे स्थापयति प्रतिष्ठितं करोति । भूयश्चेति । पुनरप्यन्यच्चिन्तितवान् । धृतिमाह - किमनेनेति । अनेन पूर्वोदन्तेन वृथैव मुधैव मनसा खेदितेन किम्, यदि सत्यमेव धवलेक्षणा कादम्बरी मय्येवं जातचित्तवृत्तिस्तदा नचिरात्स्तोककालेनाप्रार्थित एवानुकूलो दाक्षिण्यवान्मन्मथः स एवैनां चित्तवृत्तिं प्रकटीकरिष्यति । स एवेति । स एव कंदर्प एव । अस्येति । अस्याश्चित्तवृत्तिर्मयि वर्तते न वेत्येवंरूपस्यास्य संशयस्य छेत्ता दूरीकर्ता भविष्यति । इत्यवधार्य निश्चयं कृत्वोत्थायोपविश्य च ताभिः पूर्वोक्ताभिः कन्यकाभिः सहाक्षैः पाशकैर्गेयैर्गानैश्च । विपञ्ची वाद्य येषां तैश्च । पणवो वादिनविशेषो विद्यते येषां ते पाणविकास्तैश्च । स्वराणां षड्जादीनां ये सदेहास्तेषां विवादैश्च सुभाषितानि सूक्तानि तेषां गोष्ठीभिश्च । अन्यैश्च पूर्वोक्तव्यतिरिक्तैस्तैस्तैरालापैश्च सुकुमारैः कलाविलासैः क्रीडन्क्रीडां कुर्वनासाचक्रेऽधितस्थौ । मुहूर्तं च स्थित्वा तत्रावस्थान विधाय तदन्तरं निर्गम्य बहिरागत्योपवनस्यालोकनं तस्य कुतूहलं कौतुकं तेनाक्षिप्तं चित्तं यस्य सः क्रीडापर्वतशिखरमारुरोहारूढवान् । टिप्प० -1 अल्पामपि विकृति बहुतरां जानातीत्यर्थः । 2 आत्मश्लाघा । 3 अननुभूतमपीत्यपि पाठः । स्वप्न इव यूनां मनोरथः अननुभूतमपि द्रव्यादिकं नायिकानुरागादिकं च दर्शयतीत्यर्थः । पाठा० - १ एवमायास्य माम्. २ विसार्यते. ३ मन्मथ. ४ अननुभूतम्. ५ पर्वतक. - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - चन्द्रापीडस्य मनसि विचाराः पूर्वभागः । 411)

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494