Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
________________
मणिगृह शिलातलास्तीर्णायामुभयत उपर्युपरि निवेशितबहूपधानायां कुथायां निपत्य केयूरकेणोत्सङ्गेन गृहीतचरणयुगलस्ताभिर्यवादिष्टेषु भूमिभागेषुपविष्टाभिः कन्यकाभिः परिवृतो दोलायमानेन चेतसा चिन्तां विवेश । किं तावदस्या गन्धर्वराजदुहितुः कादम्बर्याः सहभुव एते विलासा एवेदृशाः सकललोकहृदयहारिणः, आहोस्विदनाराधितप्रसन्नेन भगवता मकरकेतुना मयि नियुक्ता, येन मां सासेण सरागेणाकूणितत्रिभागेण हृदयान्तःपतत्स्मरशरकुसुमरजोरूषितेनेव चक्षुषा तिर्यग्विलोकयति । मद्विलोकिता च धवलेन स्मितालोकेन दुकूलेनेव लज्जयात्मानमावृणोति । मल्लज्जाविवर्तमानवदना च प्रतिबिम्बप्रवेशलोभेनेव कपोलदर्पणमपर्यति । मदवकाशदायिनो हृदयस्य प्रथमाविनयलेखामिव कररुहेण शयनाङ्के लिखति । मत्ताम्बूलवीटिकोपनयनखेदविधूतेन रक्तोत्पलभ्रमभ्रमरवृन्देन करतलेन स्विनं मुखमिव गृहीततमाल -
***********
उपर्युपरि निवेशितानि स्थापितानि बहून्युपधानान्युच्छीर्षकाणि यस्यामेवंविधायां कुथायां प्रवेण्यां निपत्य केयूरकेणोत्सङ्गेन गृहीतमात्तं चरणयुगलमङ्घ्रियुग्मं यस्य सः, ताभिर्यथादिष्टेषु यथायोग्यं कथितेषु भूमिभागेषूपविष्टाभिः कन्यकाभिः परिवृत. सहितो दोलायमानेन कम्पमानेन चेतसा कृत्वा चिन्तां विवेश । चिन्तामग्नो बभूवेत्यर्थः । किं तावदस्या गन्धर्वराजदुहितुः कादम्बर्याः सहभुवः स्वाभाविकाः सकललोकहृदयहारिण ईदृशा एते विलासा एव । आहोस्विद्वितर्के । अनाराधितश्चासौ प्रसनश्चैवंविधेन भगवता मकरकेतुनेति सावधारण तेन मकरकेतुनैव मयि कादम्बरी नियुक्ता नियोजिता, येन मन्मथनियोगेन सासेणासं रुधिरं तेन, सरागेण स्नेहयुक्तेनाकूणितो वक्रीकृतस्त्रिभागो यस्मिन् । हृदयेति । हृदयान्तः पतन्तो ये स्मरशराः कंदर्पबाणास्त एव कुसुमानि तेषां रजः परागस्तेन रूषितेनेव चक्षुषा नेत्रेण तिर्यग्विलोकयति । इदं चिन्ताधिरूढामधिकृत्योक्तम् । अन्यथा प्रासादाधिरूढायास्तस्या विलोकनासंभवात् । एवमन्यानपि तद्व्यापारान्स्वानुकूलानेव चिन्तयन्नाह - मदिति । मद्विलोकिता सती लज्जया धवलेन स्मितालोकेन शुभ्रत्वसाम्यादाह - दुकूलेति । दुकूलेनेवात्मानमावृणोत्याच्छादयति । प्रतिबिम्बमधिकृत्याह - मदिति । मल्लज्जया विवर्तमानं वदनं यस्या एवंविधापि प्रतिबिम्बस्य यः प्रवेशस्तस्य लोभेनेव कपोलदर्पणमर्पयति । मुखविवर्तनेऽपि कपोलस्य तदभिमुखत्वादिति भावः । नखकर्षणचेष्टामधिकृत्याह - मदिति । ममावकाशदायिनो हृदयस्य प्रथमामाद्यामविनयलेखामिव कररुहेण पुनर्भवेण शयनस्य पल्यङ्कस्याङ्क उत्सङ्गे लिखति । ताम्बूलप्रदानसमये तस्याः करकम्पक्रियामधिकृत्याह - ममेति । मम ताम्बूलवीटिकाया यदुपनयनं प्रापणं तस्माद्यः खेदः प्रयासस्तेन विधूतेन कम्पितेन, रक्तोत्पलं कोकनदं तस्य यो भ्रमस्तेन भ्रमद् भ्रमरवृन्दं मधुकरपटलं यस्मिनेतादृशेन करतलेन गृहीततमालपल्लवेन(नेव) । भ्रमराणां तत्सादृश्यादिति भावः । मदिति । मद्विलोकनात्प्रेरणा स्विन्नं मुखमिव वीजयति ।
टिप्प० - 1 कादम्बर्या एते विलासाः सहजाः सकललोकहृदयहारिणः, उत मकरकेतुना नियुक्ताः, इत्यन्वयः । 2 मन्दहास्यप्रभया दुकूलेनेव आत्मानमाच्छादयति । 3 कपोल एव दर्पणः । परावर्तितवदनापि मम प्रतिबिम्बपतनलोभेन निजकपोलमभिमुखीकरोतीत्यर्थः । 4 शयनीयस्य मध्यभागे कामाकूतवशायो नखैरुल्लेखस्तत्र कल्पयति यत् मह्यमवकाशदायिनो हृदयस्य अविनयरेखामिव कर्षति । 5 रक्तोत्पलभ्रमेण पतन्तो भ्रमरा यस्मिन्त्रीदृशेन अत एव गृहीततमालपल्लवेनेव करेण, दानपरिश्रमेण स्वित्रं मुखं वीजयतीव । श्रमवशाद्विधुते हस्ते मुखवीजनस्य, भ्रमरपाते तमालपल्लवस्य चेत्युत्प्रेक्षाद्वयम् । करे रक्तोत्पलभ्रम इति भ्रान्तिरिति त्रयाणां संकरः ।
पाठा० - १ उत्सङ्गे. २ कृणित. ३ लोभभ्रान्तभ्रमर. ४ खिनं.
(410)
कादम्बरी।
कथायाम्
Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494