Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 422
________________ चन्द्रापीडेन, तत्परित्यागसंकल्पसमकालप्रस्थितेन कण्ठलग्नेन पृष्टेव जीवितेन, ‘अविशेषज्ञ, पुनरपि प्रक्षालितलोचनया दृश्यतामसौ जनः, प्रत्याख्यानयोग्यो न वा' इति तत्कालागतेनाभिहितेव बाष्पेण, 'अपनयामि ते सहासुभिधैर्यावलेपमिति निर्भसिंतेव मनोभुवा, पुनरपि तथैव चन्द्रापीडाभिमुखहृदया बभूव । तदेवमस्तमितप्रतिसमाधानबलात्प्रेमावेशेनास्वतन्त्रीकृता परवशेवोत्थाय जालवातायनेन तमेव क्रीडापर्वतकमवलोकयन्त्यतिष्ठत् । तत्रस्था च सा तमानन्दजलव्यवधानोद्विग्नेव स्मृत्या ददर्श, न चक्षुषा । अङ्गुलीगलितस्वेदपरामर्शभीतेव चिन्तया लिलेख, न चित्रतूलिकया । रोमाञ्चतिरोधानशङ्कितेव हृदयेनालिलिङ्ग, न वक्षसा । तत्संगमकालातिपातासहेव मनो गमाय नियुक्तवती, न परिजनम् । चन्द्रापीडोऽपि प्रविश्य स्वच्छन्दं कादम्बरीहृदयमिव द्वितीयं - *********** कल्पस्तदध्यवसायस्तत्समकालं प्रस्थितेन चलितेन कण्ठलग्नेन जीवितेन पृष्टेव प्रश्नविषयीकृतेव । अन्योऽपि यः प्रस्थानं करोति सोऽपि कण्ठे लगित्वा गच्छामीति प्रश्नपूर्वकं व्रजति । तत्कालागतेन तत्समयावच्छेदेन प्रादुर्भूतेन बाष्पेन नेत्राम्बुनेत्यभिहितेवेति कथितेव । इतिवाच्यमाह - अविशेषेति । हे अविशेषज्ञ, पुनरपि प्रक्षालितलोचनया त्वयासौ जनो दृश्यतामालोक्यताम् । न चाप्रत्याख्यानयोग्यो निराकरणयोग्यः । इतीति । इति मनोभुवा कंदर्पण निर्भसिंतेवाधिक्षिप्तेव । इतियोत्यमाह - अपेति । ते तवासुभिः प्राणैः सह धैर्यावलेपं धीरिमाहंकारमपनयामि दूरीकरोमि । पुनरपीति । तथैव पूर्वोक्तप्रकारेणैव चन्द्रापीडस्याभिमुखं हृदयं यस्या एवंभूता पुनरपि बभूव जज्ञे । उत्कण्ठातिशयेन रतिभावं पुनः मो(पो)षयन्नाह - तदेवमिति । तदेवं पूर्वोक्तप्रकारेणास्तमितमस्ततां प्राप्तं सत्समाधानं किमनेन चपलेन कार्यमित्यादि निर्वेदरूपं तदेव बलं तस्मात्प्रेमा चन्द्रापीडविषयकः स्मृतिरूपस्तस्यावेशेन प्रवेशेनास्वतन्त्रीकृता परायत्तीकृता परवशेव पराधीनेवोत्थायोत्थानं कृत्वा जालवातायनेन जालगवाक्षेण तमेव क्रीडापर्वतकमवलोकयन्ती पश्यन्त्यतिष्ठदासीत् । पुनर्भावानेवाह - तत्रस्थेति । तत्रस्था वातायनोपविष्टा सा तं चन्द्रापीडमानन्दजलेन हर्षाश्रुणा यद्व्यवधानं तेनोद्विग्नेवोद्वेगं प्राप्तेव स्मृत्यानुभवव्यतिरिक्तज्ञानेन ददर्शालोकयांचकार न चक्षुषा । अङ्गुलिभ्यो गलितो यः स्वेदस्तस्य परामर्शः संश्लेषस्तेन भीतेव त्रस्तेव चिन्तया लिलेख, न चित्तूलिकया । तदाकृतिं भावनया भावितवती, न कूर्चिकया लिखितवतीत्यर्थः । रोमाञ्च इति । रोमाञ्चो रोमोद्गमस्तेन तिरोधानमाच्छादनं तेन शङ्कितेव हृदयेन चित्तेनालिलिङ्गाश्लेषं कृतवती । वक्षसा भुजान्तरेण । तस्येति । तस्य चन्द्रापीडस्य यः संगमः संश्लेषस्तत्र कालातिपातः कालविलम्बस्तं सोढुमसहेवाशक्तेव गाय तदालिङ्गनाय मनो नियुक्तवती प्रेषितवती । न परिजनम् । अत्रायमभिप्रायः - आनन्दजलं व्यवधायकमिति न चक्षुषा तथादर्शनमित्युद्धेगः । अङ्गुलीगलितस्वेदेन चित्रतूलिकाविलिखनस्य विलोपो भयहेतुर्वक्षसालिङ्गनेन च रोमाञ्च एव व्यवधायक इति सर्वथा नानन्तरितालिङ्गनमिति शङ्काहेतुः । मनसः सत्वरगतिं मत्वा तस्य परिजनस्य तथात्वभावात्कालातिपातः । अत्र चानन्दजलादीनां स्मृत्यादीनां चातिशया व्यङ्ग्याः । नायिकामालम्ब्य भावशबलत्वमुक्त्वा नायकमाश्रित्य भावशबलत्वमाह - चन्द्रापीडोऽपीति । स्वच्छन्दं यत्कादम्बरीहृदयं तद्वदिव द्वितीयं मणिगृहं प्रविश्य शिलातल आस्तीर्णायां विस्तारितायामुभयतः पार्थद्वय - टिप्प० - 1 'तदेवमस्तमितप्रतिसमाधानबला बलात्प्रेमावे० इत्यपि पाठः । अस्तमितं प्रतिसमाधानबलं धैर्यावलम्बनसामर्थ्य यस्याः, अतएव प्रेमावेशेन बलात् अस्वतन्त्रीकृता, अत एव परवशेव उत्थाय, इति तदर्थः । 2 'गमागमाय' इत्यपि पाठः । चन्द्रापीडान्तिके यातायाताय मनो नियुयोज, मनसो द्रुतगामित्वात् । पाठा०.१ चन्द्रापीडेन तत्परित्याग. २ बलाबलात्. ३ पर्वतम्. ४ गमागमाय; गमनागमने. ५ स्वच्छम्. चन्द्रापीडस्य मनसि विचाराः पूर्वभागः।

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494