Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 420
________________ समचिन्तयच्चैवम् - ‘अगणितसर्वशङ्कया तरलहृदयतां दर्शयन्त्याद्य मया किं कृतमिदं मोहोन्धया । तथा हि, अदृष्टपूर्वोऽयमिति साहसिकतया मया न शङ्कितम् । लघुहृदयां मामयं कलयिष्यतीति निर्हीकया नाकलितम् । कास्य चित्तवृत्तिरिति मया न परीक्षितम् । दर्शनानुकूलाहमस्य नेति वा तरेलया न कृतो विचारक्रमः । प्रत्याख्यानवैलक्ष्यान्न भीतम् । गुरुजनान्न त्रस्तम् । लोकापवादान्नोद्विग्नम् । तथा च महाश्वेतीतिदुःखितेति दाँक्षिण्यया नापेक्षितम् । आसन्नवर्तिसखीजनोऽप्युपलक्षयतीति मन्दया न लक्षितम् । पार्श्वस्थितः परिजनः पश्यतीति नष्टचेतनया न दृष्टम् । स्थूलबुद्धयोऽपि तादृशीं विनयच्युतिं विभावयेयुः, किमुतानुभूतमदनवृत्तान्ता महाश्वेता सकलकलाकुशलाः सख्यो वा राजकुलसंचारचतुरो वा नित्यमिङ्गितज्ञः परिजनः । ईदृशेष्वतिनिपुणतरदृष्टयोऽन्तःपुरदास्यः । सर्वथा हतास्मि मन्दपुण्या । मरणं मेऽद्य श्रेयो न लज्जाकरं जीवितम् । श्रुत्वैतद्वृत्तान्तं किं वक्ष्यत्यम्बा, तातो वा, गन्धर्वलोको वा । किं करोमि । कोऽत्र प्रतीकारः । केनोपायेन स्खलितमिदं प्रच्छादयामि । कस्य वा चापलमिदमेतेषां दुर्विनीतानामिन्द्रियाणां कथयामि । क्व वान 1 - *********** - कृतेति निन्दितेव कुलस्थित्यातिगुर्वीमतिमहतीं लज्जां त्रपामुवाह धारयामास । समिति । एवमग्रे वक्ष्यमाणं समचिन्तयदध्यायत् । एवंशब्दवाच्यमाह - अगणितेति । अगणिताः सर्वाः समग्राः शङ्का यया सा तया । किं कुर्वन्त्या । तरलहृदयतां चञ्चलचित्ततां दर्शयन्त्या प्रकाशयन्त्या अद्य मोहान्धया मयेदं किं कृतं किं विहितम् । तदेव दर्शयति तथा हीति । अदृष्टपूर्वोऽनवलोकितपूर्वोऽयं चन्द्रापीड इति साहसिकतया साहसयुक्तया मया न शङ्कितम् । तथा मां लघुह्रदयां तुच्छचित्तामयं कलयिष्यतीति निर्हीकया निर्लज्जया नाकलितम् । तथा कास्य चित्तवृत्तिरिति मया न परीक्षितं परीक्षा न कृता । तथा दर्शनानुकूला दर्शनयोग्याहमस्य नेति वा मया तरलया चपलया विचारक्रमो न कृतो न विहितः । तथा प्रत्याख्यानं प्रतिषेधस्तज्ञ्जनितं यद्वैर्लक्ष्यं तस्मान्न भीतं न त्रस्तम् । तथा गुरुजनात्पूज्यजनान्न त्रस्तं चकितम् । तथा लोकापवादाज्जनप्रवादान्नोद्विग्नं नोद्वेगं प्राप्तम् । तथा च महाश्वेतातिदुःखितेति दाक्षिण्यया गतानुकूलतया नापेक्षितमपेक्षा न कृता । तथासन्नवर्ती समीपवर्ती सखीजनोऽप्यालीजनोऽप्युपलक्षयति ज्ञास्यति । भविष्यति वर्तमानः । इति मन्दया मूर्खया न लक्षितं न ज्ञातम् । तथा पार्श्वस्थितः समीपस्थः परिजनं परिच्छदः पश्यत्यवलोकयतीति नष्टचेतनया मया न दृष्टम् । तथा स्थूलबुद्धयोऽपि तादृशीं विनयच्युतिं संभावयेयुः विभावनां कुर्युः । अनुभूतोऽनुभवं नीतो मदनवृत्तान्तो यया सैवंविधा महाश्वेता सकलकलाकुशलास्तस्याः सख्यो वयस्या वा राजकुले संचारः संचरणं तत्र चतुरोऽभिज्ञो नित्यमिङ्गितज्ञ इङ्गितं शरीरचेष्टा तदभिज्ञः परिजनो वा । ईदृशेषु कार्येष्वतिनिपुणतरा दृष्टयो यासां ता अन्तःपुरदास्यः । एतासां किमुत भण्यते । एताः पराभिप्रायं विदन्त्येवेति भावः । अतः सर्वथा मन्दपुण्याहं हतास्मि । मे मम मरणमद्य श्रेयः । लज्जाकरं त्रपाजनकं जीवितं न श्रेयः । एतद्वृत्तान्तमुदन्तं श्रुत्वाकर्ण्याम्बा माता, तातः पिता वा, गन्धर्वलोकः स्वजनवर्गो वा, किं वक्ष्यति कथयिष्यति । अहं किं करोमि किमनुतिष्ठामि । कोऽस्मिन्विषये प्रतीकारः प्रतिक्रिया । केनोपायेन प्रपञ्चेनेदं स्खलितं दुश्चेष्टितं प्रच्छादयाम्यावृणोमि । एतेषां दुर्विनीतानामिन्द्रियाणां करणानां चापलं चाञ्चल्यं कस्य वा कथयामि निवेदयामि । क्व वानेन टिप्प० - 1 लज्जा, वैयाकुली वा । 2 'निर्दाक्षिण्यया' दाक्षिण्य ( औदार्य) रहितया मया, इत्यर्थः । टिप्प० - १ अगणितसर्वशङ्काम्. २ मोहान्धया हताशया. ३ मां लोकः ४ मूढया. ५ तरलतया. ६ दुःखिता. ७ निर्दाक्षिण्यायाः ८ निपुणदृष्टय. ९ एतम्. कादम्बर्याः स्वविकारैर्मनश्चिन्ता पूर्वभागः । 407

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494