Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
________________
देग्धहृदया पञ्चबाणेन गच्छामि । तथा महाश्वेताव्यतिकरेण प्रतिज्ञा कृता, तथा प्रियसखीनां पुरो मन्त्रितम्, तथा केयूरकस्य हस्ते संदिष्टम्, न खलु जानामि मन्दभागिनी शठविधिना वा, उत्सन्नमन्मथेन वा, पूर्वकृतापुण्यसंचयेन वा, मृत्युहतकेन वा, अन्येन वा केनाप्ययमानीतो मम विप्रलम्भकश्चन्द्रापीडः । कोऽपि वा न कदाचिद्दृष्टः, नानुभूतः, न च श्रुतः, न चिन्तितः, नोटोक्षितः, मां विडम्बयितुमुपागतः । यस्य दर्शनमात्रेणैव संयम्य दत्तेव, इन्द्रियैः शरपञ्जरे निक्षिप्य समर्पितेव, मन्मथेन दासीकृत्योपनीतेव, अनुरागेण निर्यातितेव, गृहीतमूल्येन गुणगणेन विक्रीतेव, हृदयेनोर्पकरणीभूतास्मि । न मे कार्यं तेन चपलेन' इति क्षणमिव संकल्पमकरोत् । कृतसंकल्पा चान्तर्गतेन ‘मिथ्याविनीते, यदा मया न कृत्यम्, एष गच्छामि' इति हृदयोत्कम्पचलितेन परिहसितेव -
*****
पञ्चबाणेन कंदर्पेण दग्धहृदया गच्छामि व्रजामि । तथा महाश्वेताया व्यतिकरेण वृत्तान्तेन मया प्रतिज्ञा संगरः कृता पत्युर्न सेवनीय इति तथापि प्रियसखीनामतिवल्लभवयस्यानां पुरः पुरतो मन्त्रितमालोचितम् । तथा केयूरकस्य हस्ते महाश्वेतायै संदिष्टं सदेशः प्रेषितः तत्रोत्तरभाव्यनर्थापरिज्ञाननिमित्तमित्याह - न खल्विति । न खलु निश्चयेनाहं मन्दभागिनी एतन्न जानामि नाकलयामि । किं तदित्याह - शति । शो मूर्खो यो विधिर्ब्रह्मा तेन वा, उत्सन्नो दृप्तो मन्मथः कंदर्पस्तेन वा, पूर्वं कृतो योऽपुण्यसंचयः पापभरस्तेन वा, मृत्युलक्षणो यो हतको हत्याकृत्तेन वा, अन्येनानिर्दिष्टनाम्ना केनापि वा मम विप्रलम्भको वियोगरूपोऽयं चन्द्रापीड आनीतः प्रापितः । पूर्वपरिचिन्तितं निरस्यन्नाह - कोऽपीति । कोऽप्ययं न कदाचिद्दृष्टः, नानुभूतः न च श्रुत आकर्णितः, न चिन्तितो ध्यातः, नोव्प्रेक्षितः पुनःपुनर्विलोकितो यन्मां विडम्बयितुं कदर्थनां कर्तुपागतः प्राप्तः । यस्येति । यस्य चन्द्रापीडस्य दर्शनमात्रेण कारणभूतेन हृदयेनं कर्तृभूतेन संयम्य बद्ध्वा दत्तेव समर्पितेवेन्द्रियैः करणैः करणभूतैः शरपञ्जरे काशघटितगृहे निक्षिप्य हृदयेन समर्पितेव । तथा मन्मथेन कंदर्पेण करणभूतेन दासीकृत्य हृदयेनोपनीतेव प्रापितेव । तथानुरागेण चन्द्रापीडविषयकेण कृत्वा हृदयेन निर्यातितेव निःसारितेव । तथा गृहीतमूल्येनात्तवेतनेन गुणगणेन करणभूतेन हृदयेन विक्रीतेव विक्रयीकृतेव । अतोऽहमुपकरणी भूतोपस्करभूतास्मि । यथा गृहोपकरणं यत्र तत्रोपयोगि न तथाहमित्यर्थः । भावशबलत्वं पोषयन्नाह - नेति । तेन चपलेन न मे कार्यं प्रयोजनमिति क्षणमिव क्षणसदृशं संकल्पमकरोदप्रणयत् । इयं निर्वेदावस्था । तामुपमर्द्यपुनरपि रतिभावावस्थामाह - कृतेति । कृतसंकल्पा च विहितसंकल्पा च । अन्तर्गतेनेति चन्द्रापीडेत्यादि त्रिष्वपि संबध्यते । त्रयाणामेव हृदये स्थितत्वात्परिहासप्रश्नाभिहितत्वान्नियुक्तानि । तान्येवाह - हृदयेति । हृदये य उत्कम्पो ग्लानि विशेषस्तेन चलितेन कम्पितेन चन्द्रापीडेन हे मिथ्याविनीते, यदि मया न कृत्यं तदैषोऽहं गच्छामि व्रजामीति कृत्वा परिहसितेव कृतहास्येव । तथा तस्य चन्द्रापीडस्य यः परित्यागस्तस्य सं
-
***
टिप्प - 1 सहृदयाः एवं किल मूलं पठेयुः - "मां विडम्बयितुमुपागतः, यस्य दर्शनमात्रेणैव संयम्य दत्तेवेन्द्रियैः, शरपञ्जरे निक्षिप्य समर्पितेव मन्मथेन, दासीकृत्योपनीतेवानुरागेण, गृहीतगुणपणेन विक्रीतेव हृदयेन, उपकरणीभूतास्मि । गुणरूपं पणम् (मूल्यम् ) गृहीत्वा हृदयेन विक्रीतेव । अत एव उपकरणीभूतास्मि विक्रेयद्रव्यीभूतास्मि इत्यर्थः । अन्यत्स्पष्टम् ।
408
पाठा० - १ दग्धहृदयेन गृहीता गच्छामिः दग्धहृदेयन पञ्चबाणेन न खलु जानामि गृहीता गच्छामि. २ केयूरकहस्ते. ३ उपन्यस्तः; उपनतः ४ दर्शनमात्रकेण. ५ अनुरागेण गृहीतगुणगणेन विक्रीतेव. ६ अशरणीभूतास्मि.
कादम्बरी |
कथायाम्
Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494