Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 418
________________ राजपुत्र, निपुणेयम्, न त्वयान्येन वा लोलापि प्रतारयितुं शक्यते । एषापि बुध्यत एवैतावतीर्वक्रोक्तीः । इयमपि जानात्येव परिहासजल्पितानि । अस्या अपि राजकुलसंपर्कचतुरा मतिः । विरम्यताम् । अभूमिरेषा भुजङ्गभङ्गिभाषितानाम् । इयमेव हि वेत्ति मञ्जुभाषिणी कालं च कारणं च प्रमाणं च विषयं च प्रस्तावं च कोपप्रसादयोः' इति । अत्रान्तरे चागत्य कञ्चुकी महाश्वेतामवोचत् - 'आयुष्यमति, देवश्चित्ररथो देवी च मदिरा त्वां द्रष्टुमाह्वयते' इति । एवमभिहिता च गन्तुकामा ‘सखि, चन्द्रापीडः क्वास्ताम्' इति कादम्बरीमपृच्छत् । असौ तु ननु पर्याप्तमेवानेकस्त्रीहृदयसहसावस्थानमनेनेति मनसा विहस्य, प्रकाशमवदत् - 'सखि महाश्वेते, किं त्वमेवमभिदधासि । दर्शनादारभ्य शरीरस्योप्यहं न विभुः, किमुत भैवनस्य परिजनस्य वा । त्रासौ रोचते प्रियसखीहृदयाय वा तत्रायमास्ताम्' इति तच्छ्रुत्वा महाश्वेतावदत् - ‘अत्रैर्वै त्वत्प्रासादसमीपवर्तिनी प्रमदवने क्रीडापर्वतकमणिवेश्मन्यास्ताम्,' इत्यभिधाय गन्धर्वराजं द्रष्टुं ययौ । चन्द्रापीडोऽपि तँयैव सह - *********** त्वयान्येन वा त्वद्व्यतिरिक्तपुंसा लोलापि चपलापि प्रतारयितुं न शक्यते न पार्यते । एषेति । एतावतीर्वक्रोक्तीरेषापि बुध्यते जानाति । इ॒यमपि परिहासजल्पितानि जानात्येव । अस्या अपि राजकुलेन संपर्कः संबन्धस्तेन चतुरा चार्थयुक्ता मतिर्बुद्धिः । अतो विरम्यतां मन क्रियताम् । नर्मालापभाषणादिति शेषः । भुजंगाः कामिनस्तेषां भङ्गिभाषितानां वक्रोक्तीनामेषाऽभूमिरस्थानम् । इयमेव हि मञ्जुभाषिणी मनोज्ञालापिनी कोपप्रसादयोः कालं समयं कारणं निमित्तं प्रमाणं तद्व्यवस्थापकं पञ्चावयवं वाक्यं विषयं गोचरं प्रस्तावमवसरं च वेत्ति जानातीति । I अत्रान्तरे चेति । अस्मिन्समये कञ्चुक्यागात्य महाश्वेतामित्यवोचदित्यब्रवीत् । इतिशब्दवाच्यमाह - आयुष्मतीति । हे आयुष्म, देवः पूज्यश्चित्ररथाभिधो नृपो देवी च राज्ञी मदिराभिधा त्वां भवतीं द्रष्टुं विलोकयितुमाह्वयत आह्वानं करोति । एवंप्रकारेणाभिहितोक्ता संती गन्तुकामा इति कादम्बरीमपृच्छत् । इतीति किम् । हे सखि कादम्बरि, चन्द्रापीडः क्वास्तां क्व तिष्ठतु । असौ त्विति । असौ कादम्बरी मनसा विहस्येति प्रकाशं प्रकटमवदत् । इतिद्योत्यमाह - पर्याप्तेति । अनेनं कृत्वा पर्याप्तमेव परिपूर्णमेव । स्वेर्व्यां प्रकटयत्याह - अनेकेति । अनेका याः स्त्रियस्तासां हृदयानि चेतांसि तेषां सहस्रं तल्लक्षणमवस्थानमावासः । अवस्थानावस्थितिभावस्य समानत्वादेतन्मनोऽन्यासु लग्नमिति भावः । नवकपोलप्रतिबिम्बसंक्रान्तिवशात्प्रागेव दर्शितमित्यनुनयमाह - किं त्विति । त्वं किमभिदधासि किं कथयसि । दर्शनादारभ्यावलोकनात्प्रभृति शरीरस्यापि देहस्याप्यहं न विभुः । देहं धारयितुं न समर्थ इत्यर्थः । स भवनस्य परिजनस्य वा किमुत भण्यते । यत्रेति । यस्मिन्स्थलेऽसौ चन्द्रापीडः । पुनरार्यामाह - प्रियेति । प्रियसखीहृदयाय रोचते रुचिविषयीभवति तत्रायमास्तां तिष्ठतु । एतत्पूर्वोक्तं श्रुत्वाकर्ण्य महाश्चेतावददवोचत् । अत्रैव त्वत्प्रासादसमीपवर्तिनि प्रमदवनेऽन्तः पुरोपवने क्रीडापर्वतकस्य मणिवेश्मनि रत्ननिर्मितगृह आस्तां तिष्ठत्वित्यभिधायेत्युक्त्वा गन्धर्वराजं द्रष्टुं ययौ गतवती । चन्द्रापीडोऽपि तयैव महाश्वेतयैव सह निर्गत्य बहिरागत्य कादम्बर्या समादिष्टा या प्रतीहारी टिप्प० - 1 स्त्रीत्वेन अगभीरबुद्धिरपि । 2 वस्तुतस्तु - 'न पर्याप्तमनेकस्त्रीहृदयसहसावस्थानेन ?' इत्येव पाठः । स्त्रीहृदयसहसरूपेण अवस्थितिस्थानेन किम् न पर्याप्तम् ? अर्थात् हृदयसहसरूपं स्थानमस्य किं न यथेष्टं जातमिति काकुः । भावे प्रत्ययः । 3 समर्थेत्याशयः । पाटा० - १ न पर्याप्तमनेकस्त्रीदय सहसावस्थानेन. २ अप्ययमेव प्रभुः ३ भवनस्य ४ अस्मै ५ महाश्वेता तदत्रैव. ६ च ७ तया सहैव. (कादम्बर्या स्वविकारजा चिन्ता पूर्वभागः । 405

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494