Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 417
________________ श्रूयत एवैतद्राजकुले, कर्णपरम्परया परिजनोऽप्येवमामन्त्रयते, बहिरपि जनाः कथयन्त्येवम्, दिगन्तरेष्वप्ययमालापो वर्तत ऐव, अस्माभिरप्येतदाकर्णितमेव, यथा किल देव्याः कादम्बर्यास्ताम्बूलदौयिनी तमालिकां कामयमानः परिहासनामा शुको मदनपरवशो गतान्यपि दिनानि न वेत्तीति । तदयमास्तां तावद्वामाचारः परित्यक्तनिजकलत्रो निस्त्रपोऽनया सह, देव्यास्तु कादम्बर्याः कथमेतद्युक्तं यन्न निवारयतीमा चपलां दुष्टदासीम्, अथवा देव्यापि कथितैव निःस्नेहता प्रथममेव वराकीमिमां कालिन्दीमीदृशाय दुर्विनीताय विहंगाय प्रयच्छन्त्या । किमिदानीमियं करोतु, यदेतत्सापत्न्यकरणं नारीणां प्रधानं कोपकारणम्, अग्रणीविरागहेतुः, परं परिभवस्थानम् । इयमेव केवलमतिधीरा, यदनयानेन दौर्भाग्यगरिम्णा जातवैराग्यया विषं वा नास्वादितम्, अनलो वा नासादितः, अनशनं वा नाङ्गीकृतम् । नह्येकॅमपरमस्ति योषितां लघिम्नः कारणम्, यदि चेयमीदृशेऽप्यपराधेऽनुनीयमानानेन प्रत्यासत्तिमेष्यति, तदा धिगिमाम्, अलमनया, दूरतो वर्जनीयेयमभिभवनिरस्या, क एनां पुनरालापयिष्यति, को वावलोकयिष्यति, को वास्या नाम ग्रहीष्यति' इत्येवमभिहितवति तस्मिन्सर्वास्ताः सह कादम्बर्या क्रीडालापभाषिता जहसुरङ्गनाः । परिहासस्तु तस्य नर्मभाषितमाकर्ण्य जगाद - 'धूर्त - *********** कर्णपरम्परया परिजनोऽपि सेवकजनोऽप्येवमामन्त्रयते । एवं कथयतीत्यर्थः । बहिरपि जना एवं कथयन्ति । दिगन्तरेष्वपि परदेशेष्वप्ययमालापो वर्तत एव । अस्माभिरप्येतत्पूर्वोक्तमाकर्णितमेव श्रुतमेव । तदेव दर्शयन्नाह - यथेति । किलेति सत्ये । देव्याः कादम्बर्यास्ताम्बूलदायिनी तमालिकां कामयमानः प्रार्थयमानः परिहासनामा शुको मदनपरवशो गतान्यतीतान्यपि दिनान्यहानि न वेत्ति न जानाति । तदयमिति । तदिति हेत्वर्थे । अयं वामाचारो विरुद्धाचरणः परित्यक्तनिजकलत्रो निस्त्रपो निर्लज्जस्तया सह तावदास्तां तिष्ठतु, देव्यास्तु कादम्बर्याः कथमेतद्युक्तं न्याय्यम् । इमा चपलां चञ्चला दुष्टदासी यन्न निवारयति न निषेधति । अथवेति पक्षान्तरे । देव्यापि प्रथममेव निःस्नेहता निष्प्रेमता कथितैवोक्तैव । किं कुर्वन्त्या देव्या । इमां वराकी कालिन्दीमीदृशाय दुर्विनीताय विहगाय प्रयच्छन्त्या प्रददत्या । किमिदानीमियं करोतु । न किमपि कर्तुं समर्था । यद्यस्माद्धेतोरेतत्सापल्यकरणं नारीणां स्त्रीणां प्रधान मुख्य कोपकारणम् । अग्रणीमुख्यो विरागस्य विरक्तताया हेतुः । परं परिभवस्थानं मुख्यं पराभवगृहम् । इयमेव कालिन्येव केवलमतिधीरा । अस्मिन्नर्थे हेतुमाह - यदिति । यद्यस्मात्कारणादनया कालिन्या अनेन दौर्भाग्यगरिम्णा शुकेन कृत्वा जातमुत्पन्नं वैराग्यं यस्याः सैवंविधया विषं नास्वादितं न भक्षितम् । अनलो वह्निर्वा नासादितो न गृहीतः । अनशनं प्रायो वा नाङ्गीकृतम् । योषितां लघिम्नः कारणं नह्येकमपरमस्ति । यदि चेति । इयं कालिन्दीदृशेऽपराधेऽप्यनुनीयमाना प्रसन्नीक्रियमाणा । अनेन शुकेन प्रत्यासत्तिं संबन्धमेष्यति गमिष्यति, तदेमां धिक् । अनयालं कृतम् । दूरतो वर्जनीया त्याज्येयम् । अभिभवेन निरस्या दूरीकरणीया । क एनां पुनरालापयिष्यति । को वावलोकयिष्यति । को वास्याः कालिन्या नामाभिधानं ग्रहीष्यतीत्येवं पूर्वोक्तप्रकारेणाभिहितवति कथितवति तस्मिन्राज्ञि सर्वास्ता अङ्गनाः कादम्बर्या सह जहसुर्हसितवत्यः । कीदृश्यः । क्रीडालापेन नालापेन भाषिता वासिताः । परीति । परिहासः शुकस्तु तस्य चन्द्रापीडस्य नर्मभाषितमाकर्ण्य श्रुत्वा जगादोवाच । हे धूर्त राजपुत्र, निपुणाभिज्ञेयम् । टिप्प० - 1 अनेन दौर्भाग्यस्य गरिम्णा (गुरुतया), 1 2 ‘एवंविधम्' इत्यपि पाठः । एवंविधमपरं नास्तीति तदर्थः । 3 'भाविताः' इत्येव । नालापेन भाविताः संजाततदनुगुणभावोदया इत्यर्थः । पाठा० - १ अप्येवं मन्त्रयति एवम्; अपि मन्त्रयते बहिः. २ एवम्. ३ वाहिनीं. ४ तरलिकाम्. ५ निस्त्रपया. ६ अतिनिःस्नेहता. ७ इयं तपस्विनी. ८ एवंविधम्; एवम्. ९ तेन सह. १० निरस्याम्. ११ भाविता. - - - - - - - - - - - - - - - - - - - - - - - - - 404 कादम्बरी। कथायाम्

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494