Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 415
________________ प्रसारितवान्पाणिम् । तत्र च सा तत्कालसुलभविलासदर्शनकुतूहलिभिरिव कुतोऽप्यागत्य सर्वरसैरधिष्ठिता, तेनानि - बद्धलक्ष्यतया शून्यप्रसारितेन चन्द्रापीडहस्तान्वेषणायेव पुरः प्रवर्तितनखांशुनिवहेन वेपथुचलितवलयावलीवाचालेन संभाषणमिव कुर्वता हस्तेन स्वेदसलिलपातपूर्वकम् 'गृह्यतामयं मन्मथेन दत्तो दासजनः' इत्यात्मानमिव प्रतिग्राहयन्ती, ‘अद्यप्रभृति भवतो हस्ते वर्तते' इति जीवितमिव स्थापयन्ती ताम्बूलमदात् । औकर्षन्ती च करकिसलयं भुजलतानुसारेण स्पर्शतृष्णागतमनङ्गशरभिन्नमध्यं हृदयमिव पतितमपि रत्नवलयं नाज्ञासीत् । गृहीत्वा चापरं ताम्बूलं महाश्वेतायै प्रायच्छत् । अथ सहसैव त्वरितगतिः त्रिवर्णरागमिन्द्रायुधमिव कुण्डलीकृतं कण्ठेन वहता विद्रुमा *********** धारयन्तम् । श्रृङ्गारं पोषयद्गान्धर्वविवाहन्यायेन पाणिग्रहणमप्याह - तत्र चेति । तस्मिन्काले सा कादम्बरी तस्मै चन्द्रापीडा हस्तेन ताम्बूलमदात् । कीदृशी । सर्वसैः श्रृङ्गारादिभिः कृतोऽप्यनिर्दिष्टस्थानादप्यागत्याधिष्ठिताश्रिता । कीदृशै रसैः । तत्कालेति । तस्मिन्काले सुलभाः सुप्रापा विलासास्तेषां दर्शनं तत्र कुतूहलिभिरिव कौतुकिभिरिव । हस्तं विशेषयन्नाह - तेनेति । हस्तेनानिबद्धं न दृग्विषयीकृतं यल्लक्ष्यं वेध्यं तेन शून्यं प्रसारितेन विस्तारितेन चन्द्रापीडस्य यो हस्तस्तस्यान्वेषणं गवेषणं तदर्थमिव पुंरोऽग्रे प्रवर्तितः प्रचलितो नखानां पुनर्भवानामंशुनिवहो यस्य तेन । वेपथुरिति । वेपथुः कम्पस्तेन चलिता कम्पिता या वलयानां पारिहार्याणामावली श्रेणी तया वाचालेन मुखरेण । शब्दसाम्यमाह - संभाषणमिव जल्पनमिव कुर्वता विदधता । स्वेदेति । स्वेदसलिलं धर्मजलं तस्य पातः पतनं तत्पूर्वकं यथा स्यात्तथेति क्रियाविशेषणम् । किं कुर्वन्ती । इत्यात्मानमिव प्रतिग्राहयन्ती ग्रहणं कारयन्ती । इतिशब्दद्योत्यमाह गृह्यतामिति । अयं मल्लक्षणो दासजनो मन्मथेण कंदर्पेण दत्तोऽर्पितो गृह्यतां स्वीक्रियताम् । पुनः किं कुर्वन्ती । इति जीवितमिव प्राणितमिव स्थापयन्ती । इतिशब्दद्योत्यमाह - अद्येति । अद्यप्रभृत्यद्यदिनादारभ्य भवतस्तव हस्ते वर्तते । त्वदधीनेत्यर्थः । अन्वस्तु प्रागेवोक्तः । पुनः किं कुर्वन्ती । ताम्बूलप्रदानान्तरं करकिसलयं हस्तपल्लवमाकर्षन्त्याकर्षणं कुर्वन्ती च पतितमपि सस्तमपि रत्नवलयं मणिकटकं नाज्ञासीन्न ज्ञातवती । एतेन तन्मयत्वं सूचितम् । वलयस्य लोहितमणिनिर्मितत्वसाम्यादाह - भुजेति । भुजलता बाहुलतातदनुसारेण तन्मार्गेण स्पर्शतृष्णा तयागतं प्राप्तमनङ्गशरेण कंदर्पबाणेन भिन्नं मध्यं यस्यैवंविधं हृदयमिव । गृहीत्वेति । अपरं तद्व्यतिरिक्तं ताम्बूलं नागवल्लीदलं महाश्वेतायै प्रायच्छददात् । अथेति । ताम्बूलप्रदानानन्तरं सहसैवागत्य सारिका पीतपादा सक्रोधं यथा स्यात्तथावादीदवोचत् । कीदृशी । त्वरिता शीघ्रा गतिर्यस्याः सा । पुनः कीदृशी । शुकेन कीरेणानुबध्यमाना निरुध्यमाना । अथ शुकं विशेषयन्नाह - वहतेति । कण्ठेन निगरेण वहता धारयता । कम् । त्रिवर्णरागम् । किमिव । इन्द्रायुधमिवाखण्डलधनुरिव कुण्डलीकृतं वर्तुलीकृतम् । जातिवर्णनमेतत् । एतदेव विवृणोति विद्रुमेति । चञ्चुपुटेन - टिप्प॰ - 1 कादम्बरीदर्शनकौतुकिभिः सर्वरसैः सर्वविधैरानन्दैराश्रितेत्यर्थः (ताम्बूलदानसमये न केवलं स्पर्शविषयक एवानन्दः, मनःप्रमदप्रसूता अन्येऽप्यानन्दा आसन्नित्याशयः) । 2 लज्जावशात् चन्द्रापीडहस्तस्य लक्ष्यमबध्वा तच्छून्ये स्थाने प्रसारितेन (हस्तेन ) । 3 त्वदधीनम् ( जीवितम् ) इत्यर्थः । 4 प्रसारितां भुजलतामनुसृत्य, तया सहेत्यर्थः । पाटा० - १ तत्कालविलास २ अधिष्ठितेनान्यनिबद्धलक्षशून्य. ३ आकर्षयन्ती. 402 - कादम्बरी | कथायाम्

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494