Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
तत्परापि मुहुर्मुहुरपाङ्गविक्षेपप्रचलिततरलतरतारसारोदरं चक्षुर्मण्डलितचापेन भगवता कुसुमधन्वना बलान्नीयमानं चन्द्रापीडपीडनयेव न शशाक निवारयितुम् । तेनैव क्षणेन तेनासन्नसखीकपोलसंक्रान्तेनेग्रंया रोमाञ्चभिद्यमानकुंचतटनश्यप्रतिबिम्बेन विरहयथास्वेदावक्षःस्थलघटितशालभञ्जिकाप्रतिमेन सपत्नीरोषानिमिषता दौर्भाग्यशोकमानन्दजलतिरोहितेनान्धतादुःखमभजत सा ।
मुहूर्तापगमे च ताम्बूलदानोद्यतां महाश्वेता तामभाषत - 'सखि कादम्बरि, सँप्रतिपन्नमेव सर्वाभिरस्माभभिरयमभिनवागतश्चन्द्रापीड आराधनीयः । तदस्मै तावद्दीयताम्' -
***********
त्परापि सोद्यमापि मुहुर्मुहुः । अपाङ्गेति । अपाङ्गस्य नेत्रप्रान्तस्य यो विक्षेपस्तेन प्रचलिता या तरलतरतारा तया सारं कश्मलमुदरं मध्यं यस्यैवंविधं चक्षुर्मण्डलितचापेनारोपितकोदण्डेन भगवता कुसुमधन्वना कंदर्पण चन्द्रापीडस्य पीडनयेव बलानीयमानं निवारयितुं न शशाक न समर्था बभूव । तेनैवेति । यस्मिन्क्षणे चक्षुर्निवारयितुं न समर्था तेनैव क्षणेन सा कादम्बरी तेन चन्द्रापीडेन कृत्वा यः सपत्नीरोषस्तस्मात्तथा निमिषता पक्ष्मपातस्तदेव दौर्भाग्यं तेन यः शोकः, अथ चानन्दजलं हर्षाश्रुजलं तेन तिरोहितेनाच्छादितेनान्धतादुःखमभजदप्रापत् । कीदृशेन तेन । आसन्नेति । आसना समीपवर्तिनी या सखी तस्याः कपोलो गल्लात्परप्रदेशस्तत्र संक्रान्तेन प्रतिबिम्बितेन । इदं च सपत्नीरोषनिमित्तम् । यद्यस्यां संक्रान्तस्तहीयमेव सपत्नीभविष्यतीति शङ्कया सपत्नीरोषः सपत्नीविषयको रोषस्तस्मात् । पुनः कीदृशेन । मय्यासक्तः क्वान्यत्र संक्रान्त इतीर्ण्यया ये रोमाञ्चास्तैर्भिद्यमानं यत्कुचतट तस्मिन्रोमाञ्चप्रतिबन्धवशादेव नश्यत्प्रतिबिम्बो यस्य स तेन इदं च शोकोत्पत्तिकारणम् । विरहेति । विरहस्य वियोगस्य या व्यथा तया यः स्वेदः श्रमजलं तेना यद्वक्षःस्थल भुजान्तर तत्र घटिता शालभचिकायाः प्रतिमा प्रतिबिम्बं यस्मिन्स तेन । इदं चानन्दाश्रुनिपाते कारणम् ।
सेति । सा महाश्वेता मुहूर्तापगमे घटिकाद्वयानन्तरं ताम्बूलदानोद्यतां नागवल्लीदलवितरणे विहितोद्यमा कादम्बरीमभाषतावोचत । किमुवाचेत्याह - सखीति । हे सखि कादम्बरि, सर्वाभिरेवास्माभिः संप्रतिपन्नं प्राप्तमेव । अहं तु तव सखी नापूर्वा, मह्यमदत्तमपि ताम्बूलं दत्तमेव, अयं त्वपूर्व इत्याशयेनाह - अयमिति । अयमभिनवो नूतन आगतः प्राप्तश्चन्द्रापीड आराधनीयः पूजनीयः । तस्माद्धेतोंस्तावदादावस्मै चन्द्रापीडाय दीयता वितीर्यताम् । इत्युक्ता भाषिता सती तदनन्तरं सा कादम्बरी तां महाश्वेता शनैर्मन्दम- - - - - - - - - - -
- - - - - - - - - - टिप्प० - 1 'पीडनायेव' इत्युचितः पाठः । कामेन चन्द्रापीडपीडनायेव कादम्बरीचक्षुः (चन्द्रापीडाभिमुखम्) नीतम् (नायकस्य अभिलाषप्राबल्ये नायिकाकटाक्षैः पीडोद्गमात्), कादम्बरी तु न तन्निवारयितुमशकदित्यर्थः । 2 विस्तरभयाद् व्याख्याद्वारैव समुचितो ग्रन्थपाठः सूच्यते यः पाठान्तरेषु नीचैः परिधृतः । 'ईर्ष्याम् व्यथाम,.... इत्यादिद्धितीयान्तपाठो ग्रन्थगरिमानं वर्धयते । सखीकपोलसंक्रान्तेन तेन (चन्द्रापीडेन) ईर्ष्यामभजत, अन्यनायिकागामित्वात् । रोमाञ्चोद्गमेनोज्जृम्भमाणे कुचतटे नश्यन् (रोमभिरुच्चावचतया) प्रतिबिम्बो यस्य ईदृशेन तेन (चन्द्रा०) विरहव्यथामभजत, प्रतिबिम्बविरहात् । स्वेदाभ्रे वक्षःस्थले (अर्थात् चन्द्रापीडस्य) प्रतिबिम्बिता शालभजिकायाः प्रतिच्छाया यस्य ईदृशेन तेन सपत्नीरोषमभजत् । निमिषता (स्वदर्शने नेत्रयोरुन्मीलननिमीलने कुर्वता) तेन दौर्भाग्यशोकमभजत्, दर्शने औत्सुक्ये तु निमेषो नाभविष्यदित्यर्थः । नेत्रयोरानन्दाश्रुभिस्तिरोहितेन तेन अन्धतादुःखमभजत् ।
-
-
-
-
-
-
पाठा० - १ चन्द्रापीडपीडनादेव, चन्द्रापीडं प्रति. २ ईर्ष्याम्; ईर्ष्या. ३ कुचनश्यत्. ४ व्यथाम्. ५ रोषम्. ६ ता महाश्वेता समभाषत. ७ सर्वाभिरेवास्माभिरभिनव. ८ दीयता ताम्बूलमित्युक्ता.
400
कादम्बरी।
कथायाम्
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f93b838db5f2cc7a982371d53bcdcc3e29eda83fdb597cc86d933c5d74204990.jpg)
Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494